Book Title: Pravachan Pariksha Part 02 Author(s): Dharmsagar, Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 2
________________ वाचायो विज्ञप्तिः महाशया! विलोकनीयोऽयमासमाप्तेः श्रीजिनप्रणीतपदार्थानां यथावस्थितानां प्रतीत्यर्थ, न ह्यतथ्यपदार्थप्रतीतौ जैननामधारणमात्रेण मोक्षमार्गाराधनं कस्यापि कदापि जायते जातं वा, अत एव श्रीउमास्वातिमिः तत्वार्थश्रद्धानं सम्यग्दर्शनं श्रीहरिभद्रसूरिमिश्च तत्तत्थसदहाणं श्रीउत्तराध्ययनेष्वपि तहियाणं तु भावाणं इत्याधुक्त्वा विषं निर्धारितं सम्यक्त्वस्य लक्षणं पदार्थानां यथार्थप्रतीतिरूपं,ततो विहाय पक्षपरिग्रहाग्रहं यथास्थितमेव तत्त्वं श्रद्धेयं सम्यक्त्वकामुकैः,न च पूर्वपक्षोत्तरपक्षयोः श्रवणमननाद्यन्तरा कदापि भवति भव्यं तत्त्वश्रद्धानं, पुस्तकारोहात् प्रागुत्पन्नानां प्रवचनविडंबकानां मतस्य 'निरासरतु मूत्रनियुक्तिभाष्यकारादिमिविस्तरेण विहितः, परं तदनूत्पन्नानां सत्तावतां चाधुनातनेऽपि यथार्हतया प्रवचनपराभवपरायणबुद्धीनां निरासस्तु संपूर्णतयाऽत्रैवास्ति, ततो विलोकयन्तु विचक्षणा एनं ग्रन्थं विवेकवृद्ध्यर्थ, धर्मपरीक्षावसरे यथा व्युद्वाहितानां न श्रेयोलेशावाप्तिः तथा तत्वजिज्ञासूनां यथार्थाप्तवचनविवेकायसरेऽपि न परीक्षाकर्तरि द्वेषलेशेऽपिकल्याणकणस्यापि प्राप्तिः, ततो विहाय तं वीतरागवचनानुसारिवक्तरि यथार्थमीक्षन्तामीक्षाप्रवणाःसमीक्षकाएन,ग्रन्थस्य चैनस्य महत्तायां चेदिच्छा विलोकनीयः श्रीसिद्धचक्रगतः पृथग्मुद्रितश्च प्रवचनपरीक्षामहत्तेत्यभिधो निवन्धः, दृग्गोचरीकृत्य चैमौ यथार्थतत्त्चप्रतीतिपरायणा भवन्तु सन्त इत्यभिलाषपूर्वकं वाचनायार्थयन्ते आनन्दसागराः जामनगर वैशाखशुक्ला तृतीया For Personed Private Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 356