Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay

View full book text
Previous | Next

Page 291
________________ प्रसा० एन्कन्छ प०शि० ॥१४॥ आचारादिगुणाधारो रागद्वेषविवर्जितः । पक्षपातोझितः शांतः साधुवर्गाग्रणीगणी ॥ ८ ॥ अशेषशास्त्रविच्चक्षुः प्रव्यक्तं लौकिकस्थितिः । गंभीरो मृदुभाषी च स सूरिः परिकीर्तितः ॥ ९ ॥ कुलीनो जातिसंपन्नः कुत्साहीनः सुदेशनः । कल्याणांगो रुजाहीनः प्रसन्नः सकलेंद्रियः ॥ १० ॥ शुभलक्षणसंपन्नः सौम्यरूपः सुदर्शनः । विप्रो वा क्षत्रियो वैश्यो विकर्मकरणोज्झितः ॥ ११॥ ब्रह्मचारी गृहस्थो वा सम्यग्दृष्टिनितेंद्रियः । निःकषायः प्रशांतात्मा वेश्यादिव्यसनोज्झितः ॥१२॥ उपासकव्रताचार्यों दृष्टसृष्टक्रियोऽसकृत् । श्रद्धालुभक्तिसंपन्नः कृतज्ञो विनयान्वितः ॥ १३ ॥ व्रतशीलतपोदानजिनपूजासमुद्यतः । जिनवदनकर्मादिष्वनुष्ठानपरः शुचिः ॥ १४ ॥ श्रावकाध्ययने दक्षः प्रतिष्ठाविधिविन्सुधीः । महापुराणशास्त्रज्ञो वास्तुविद्याविशारदः ॥ १५ ॥ एवंगुणो महासत्त्वः प्रतिष्ठाचार्य इष्यते । नचार्थार्थी न च द्वेषी भ्रष्टलिंगी कलंकवान् ॥ १६ ॥ नैव पाखंडिपुत्रो वा देवद्रव्योपजीविकः । नाधिकांगो न हीनांगो नातिदीघों न वामनः ॥ १७ ॥ न निकृष्टक्रियावृत्ति तिवृद्धो न बालकः । गीतवाद्योपजीवी नो भांडो वैतालिको नटः ॥ १८ ॥ उन्मत्तो ग्रहग्रस्तो वा भोजने पक्तिवर्जितः । गर्भाधानादिसंस्कारैविहीनो नातिमाहवान् ॥ १९ ॥ ज्ञाता उपासकाद्यते न त्रयो न महाव्रती । शास्त्रज्ञः कुलजातोपि वर्ननीयस्तथाविधः ॥ २०॥ एवं समासतः प्रोक्तं प्रतिष्ठाचार्यलक्षणम् । प्रतिष्ठालग्नसंशुद्धिं भणिष्यामो यथागमम् ॥ २१ ॥ न्

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298