Book Title: Pratishtha Saroddhar
Author(s): Ashadhar Pandit, Manharlal Pandit
Publisher: Jain Granth Uddharak Karyalay
View full book text
________________
| पयोधारात्रय्यामलयजरसैरक्षतचयैः प्रसूनैर्नैवेद्यैः प्रमदभरतो दीपनिकरैः । वरैर्धूपोद्गारैः फलचयकुशाद्यैश्च रचितं विदध्मोर्चे सूरिक्रमसरसिजोत्ताररुचिरम् ॥ २४ ॥ अर्धे । पंचाचाराचरणसचिवाचारणैकक्रियाणां स्फारस्फूर्जद्गुणचितयशःशुभ्रिताशाधराणाम् । | सेत्सूरीणामिति विधिकृताराधनाः पादपद्माः श्रेयोस्मभ्यं ददतु परमानंदनिःस्वंदसांद्रम् ॥ २५ ॥ एतत्पठित्वा पंचांगप्रणामं कुर्यात् । गुरवः पांत्वित्यादिः ।
अथ प्रतिष्ठासारसंग्रहस्य श्लोकाः ।
1
शुद्धं शुद्धात्मसद्भावं सिद्धसंज्ञानदर्शनम् । सिद्धं शुद्धप्रमाणाप्तिनिरस्तपरदर्शनम् ॥ १ ॥ | विश्वकर्मा थिंलोकस्य विश्वकर्मे । पदेशकम् । विश्वकर्मक्षयार्थिभ्यो विश्वकर्मक्षयप्रदम् ॥ २ ॥ आदिदेवं जिनं नौमि विश्वकर्मजयं प्रभुम् । शेषांश्च वर्धमानांतजिनान् प्रवचनं गुरून् ॥ ३ ॥ | विद्यानुवादसत्सूत्राद्वाग्देवी कल्पतस्ततः । चंद्रप्रज्ञप्तिसंज्ञायाः सूर्यप्रज्ञप्तिसंज्ञिकात् ॥ ४ ॥ तथा महापुराणार्थात् श्रावकाध्ययनश्रुतात् । सारं संगृह्य वक्ष्यहं प्रतिष्ठासारसंग्रहम् ॥ ५ ॥ तत्र तावत्प्रवक्ष्यामि प्रतिष्ठाचार्यलक्षणम् । तस्योपदेशतो वक्ष्ये विश्वकर्मप्रवर्तनम् ॥ ६ ॥ शरण्यं सर्वभूतानां वरांगगुणभूषणम् । नत्वा जिनेश्वरं वीरं वच्म्याचार्येद्रयोर्गुणम् ॥ ७ ॥
१ यहसि वसुनंदि आचार्यकृत प्रतिष्ठासारसंग्रहका आरंभ है।
Cootsee0000 eac

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298