Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रभे.
१ उल्लासः
॥ १ ॥
Jain Education
महोपाध्यायश्रीविमलहर्षगणिकृत प्रश्नास्तदुत्तराणि च
यथा— ज्ञानपञ्चम्युप्रापनस्वं ज्ञानद्रव्यमुत देवा दौकितत्वेन देवद्रव्यमेव इति प्रश्नोत्रोत्तरम् - यावद् ज्ञानोपकरणं तावत् सर्व ज्ञान द्रव्यं चित्कोशे च मोच्यम्, अन्यत्तु सर्वे देवद्रव्यम्, इति ज्ञायते ॥ १ ॥
तथा - कृत्रिमजिनप्रतिमानामुत्कर्षतो जघन्यतश्च किं मानं, यदि पञ्चधनुःशतान्युत्कृष्टं जघन्यमङ्गुष्ठप्रमाणं तदा श्रीभरतेनाष्टापदे स्वस्व| शरीरप्रमाणोपेतेषु श्री ऋषभादिचतुर्विंशतिजिनबिम्बेषु ( कारितेषु ) उत्सेधाङ्गुलेन सप्तहस्तमाना श्रीवीरस्वामिनो मूर्तिर्भरतस्याङ्गुष्ठप्रमाणाऽपि कथं भवति ?, भरतस्यैकस्मिन्नात्माङ्गुले उत्सेधाङ्गुलसत्कानि षोडशाङ्गुलाधिकानि चत्वारि धनूंषि भवन्तीति प्रश्नोऽत्रोत्तरम् - भरतेन श्रीमहावीर शरीरप्रमाणे तस्याः कारितत्वात् यद्यपि सा भरतस्यात्माङ्गुलप्रमाणा न भवति तथाऽपि न किमप्यनुपपन्नं, भरताङ्गुलप्रमाणस्यान्त्रानधिकृतस्त्रात्, च प्रायिकत्वादिति ॥ २ ॥
तथा—श्रुतस्तवसिद्धस्तवयोः कस्मिन्नावश्यकेऽन्तर्भाव इति ? प्रश्नोत्रोत्तरम् - श्रुतस्तवसिद्धस्तवयोः कायोत्सर्गावश्यकेऽन्तर्भाव इत्यावश्यक बृहद्वृत्यनुसारेण ज्ञायते ॥ ३ ॥
तथा—यथा तीर्थकृद् द्वादशानां पर्षदां पुरः चतूरूपभाक् योजनगामिन्या देशनया धर्मं दिशति, धर्म्मकथनानन्तरं स्वामिनि देवच्छन्दे प्राप्ते तथैव चतूरूपोपयुक्तस्तादृश्या देशनया गणमृद्ध दिशति उत सहजस्वरानुभावेनैकरूपेण धर्मं दिशति ?, यद्येकरूपभाक् तदा द्वादशानां पदां साङ्कर्यमुत तथैवावस्थितिरिति ! प्रश्नोऽत्रोत्तरं - तीर्थकृद्देशनाऽनन्तरं द्वितीयपौरुण्यां स्वाभाविकेन रूपेण गणभृद्देशनां करोति इति अवसीयते । चतूरूपतया
For Private & Personal Use Only
विमलहर्षी.
॥ १ ॥
ainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 264