Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 9
________________ उपोद्घातः अथायं प्रकाश्यते श्रीवररुचिप्रणीतः प्राकृतप्रकाशो नाम प्राकृतभाषाव्याकरणप्रन्थः श्रीभामहनिर्मितया मनोरमाख्यव्याख्यया, महामहोपाध्यायश्रीमधुराप्रसाद दीक्षितविरचितया चन्द्रिकाभिधया संस्कृतव्याख्यया प्रदीपनाम कसरल हिंन्दी भाषाटीच्या च विभूषितो मुद्रापयित्वा । केवलं मनोरमाख्यव्याख्यया सह नैकवारमनेकत्र प्राकाश्यमुप. गतोऽयं प्रन्थः । चौखम्बा संस्कृत पुस्तकालयेऽपि वाराणसेये द्वित्रिवारमसो प्राकाश्यमुपगच्छन्ननेकोपकरणालङ्कृतः श्रीमदुदयरामशास्त्रिडबरालमहोदयैः सम्पादितः । साम्प्रतं तु ततोऽपि वैशिष्टयमावहति चन्द्रिका प्रदीपाख्याभ्यां सं कृत-हिन्दीव्याख्याभ्यां समलङ्कृतः 1 तत्र प्रकृते को नाम प्राकृतशब्दस्यार्थ इति विवेचनायां विदुषां मतद्वयं जागति लोके । तत्र हि प्रकृतिर्नाम सर्वसाधारणो जनः, तया व्यवहियमाणं वचनकदम्बकं प्राकृतम् । व्याकरणादिसंस्कार सम्पन्नं तत् संस्कृतमिति प्रथमः पक्षः । स्त्रीबालवैधेयादिभिटिति बोधगम्यतयाद्रीयमाणा भाषा प्राकृताभिधाना सामान्यतया प्रतीयत इति सुस्पष्टं प्रथमपक्षाश्रयिणां सुघियां मतम् । श्रीवररुच्यादिप्राकृतव्याकरणसूत्र प्रणेतॄणामन्येषां च संस्कृतप्रणयिनां विदुषां 'प्रकृतिः संस्कृतम्, तत श्रागतं समुत्पन्नं वा प्राकृतम्' इति मतम् । मतद्वये यत् किमप्येकतरं समीचीनमसमीचीनं वा भवतु मतं, परं प्राकृतपदेन व्यवहियमाणा भाषा काप्यस्तीति न विप्रतिपत्तिः केषामपि विदुषाम् । तस्या एव भाषाया अन्तर्गतानां पदानां व्युत्पत्ति प्रदर्शयन्नयं प्रन्थः प्राकृत प्रकाश इत्यन्वर्थं नाम धते । अथ च प्राकृतभाषायाः कति के च सूत्रकर्तार इति विषये वररुचि-वाल्मीकिहेमचन्द्र - त्रिविक्रमदेवानां चतुर्णां नामानि सप्रमाणमुपन्यस्यन्ति तद्विदः । तत्र वररुचिहेमचन्द्रयोः सूत्रकर्तृत्वमव्याहतमेव । त्रिविक्रमदेवस्य निजसूत्राणां स्वोपज्ञवृत्तिकर्तृद्वारा सूत्रकर्तृत्वं प्रतिपादयन्ति विचक्षणाः, परं कतिचन धीमन्तस्तु हेमचन्द्रकृतसूत्राणामेवेयमेतत्कृता वृत्तिरिति प्रमाणयन्तो विवदमाना दृश्यन्ते । रुद्रमणिपुत्रः कथिद्वाल्मीकिः कविरप्युपलभ्यते वाल्मीकिनाम्ना, परं स एतत्सूत्र प्रणेता भवितुं नार्हति । पुष्टप्रमाणमन्त नैतदपि प्रतिपादयितुं शक्यते यत् - श्रादिकविर्वाल्मीकिरेवैतनिर्माता, यद्यपि षड्भाषाचन्द्रिकाकाराः श्रीलक्ष्मीधरास्तथा प्रत्यपादयन् । स एवायमिति प्रमाणान्तरैः साधितं स्यात्तर्हि न तत्र विषयेऽस्माकं कापि विप्रतिपत्तिः । श्रीवररुचिप्रणीतस्य प्राकृत प्रकाशस्य प्राचीनाश्चतस्रो व्याख्याः समुपलभ्यन्ते१ मनोरमा, २ प्राकृतमजरी, ३ प्राकृतसञ्जीवनी, ४ सुबोधिनीति । तासु प्राचीनतमा तु भामहविरचिता मनोरमैवेति निर्विवादम् । श्रीकात्यायनप्रणीता प्राकृतमचरी तदुत्तरकाळमाश्रयतीति विद्वन्मतम् । सा च व्याख्या पद्यमयी नवपरिच्छेदात्मिका पूर्व निर्णयसागरयन्त्रालय मोहमयीतः प्रकाशिता, परमन्विष्यापि नास्माभिरुपलब्धेति तद्विषये न किमपि वक्तुं पारयामः चन्द्रिकोद्धृताः पंद्यपर्याशास्तस्यां उत ततोऽपि प्राचीना

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 336