Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 8
________________ अथ नाट्याचार्य-मुनिमतेन भाषाणां भेदप्रदर्शन पूर्वकं विनियोगः प्रदश्यतेमागध्यवन्तिजा प्राच्या शूरसेन्यद्धमागधी । बाह्रीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥ ४८ ॥ शवराभीरचण्डालसचरद्रविडोद्रजाः। हीना वनेचराणां च विभाषा नाटके स्मृताः॥४९॥ मागधी तु नरेन्द्राणामन्तःपुरनिवासिनाम् । चेटानां राजपुत्राणां श्रेष्ठिनां चार्द्धमागधी ॥ ५० ॥ प्राच्या विदूषकादीनां धूर्तानामप्यवन्तिजा । नायिकानां सखीनां च शूरसेनाविरोधिनी ॥५१॥ योधनागरकादीनां दाक्षिणात्याय दीव्यताम् । बाह्रीकभाषोदीच्यानां खसानां च स्वदेशजा ॥ ५२ ॥ शबराणां शकादीनां तत्स्वभावश्च यो गणः । (श)सकारभाषयोक्तव्या चण्डाली पुक्कसादिषु ॥ ५३॥ अङ्गारकारव्याधानां काष्ठयन्त्रोपजीविनाम् । योज्या शवरभाषा तु किंचिद्वानौकसी तथा ॥ ५४ ॥ गवाश्वाजाविकोष्ट्रादिघोषस्थाननिवासिनाम् । श्रामीरोक्तिः शाबरी वा द्राविडी द्रविडादिषु ॥ ५५ ॥ सुरङ्गा खनकादीनां सौण्डीकाराश्च (शौण्डिकानां च ) रक्षिणाम् । . व्यसने नायकानां स्यादात्मरक्षासु मागधी ॥ ५६ ॥ न वर्बरकिरातान्ध्रद्रविडाद्यासु जातिषु । नाट्यप्रयोगे कतव्यं काव्यं भाषासमाश्रयम् ॥ ५७ ॥ गङ्गासागरमध्ये तु ये देशाः श्रुतिमागताः । एकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५८॥ विन्ध्यसागरमध्ये तु ये देशाः श्रुतिमागताः । नकारबहुलां तेषु भाषां तज्ज्ञः प्रयोजयेत् ॥ ५९॥ सुराष्ट्रावन्तिदेशेषु वेत्रवत्युत्तरेषु च । ये देशास्तेषु पुर्वीत चकारबहुलामिह ॥ ६ ॥ हिमवसिन्धुसौवीरान ये च देशाः समाश्रिताः । उकारबहुलां तज्ज्ञस्तेषु भाषां प्रयोजयेत् ॥ ६॥ चर्मण्यतीनदीपारे ये चार्बुदसमाश्रिताः। . तकारबहुलां नित्यं तेषु भाषां प्रयोजयेत् ॥ ६२॥ एवं भाषाविधानं तु कर्तव्यं नाटकाश्रयम् । अत्र नोकं मया या लोकाद् प्राचं बुधैस्तु तद् ॥ ६३ ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 336