Book Title: Prakruta Prakasa
Author(s): Jagganath Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 12
________________ HARRAINMENT - उपोद्धातः . भटकेशवपिता सदानन्द इति समुल्लेखो दृश्यते । परं स एतद्विषयक एवेति कथं निर्णेतुं प्रभवामः। अथ चन्द्रिकाख्या व्याल्येयं पञ्चमीति निश्चप्रचम् । एतन्निर्मातारस्तु हरदोईमण्डलान्तर्गत-भगवन्तनगरवास्तव्याः कान्यकुब्जब्राह्मणाचिकित्सकचूडामणि श्रीहरिहरशर्मणां पौत्राः,तद्वितीयपुत्र श्रीबदरीनाथशर्मणां पुत्रा, लब्धमहामहोपाध्यायादिसम्मानसूचकपदवीकाः श्रीपण्डितमथुराप्रसाददीक्षितमहोदयाः सन्ति, यैश्च वैद्यक कामशास्त्रव्याकरण पाली-प्राकृत-शास्त्रार्थ-नाटकादिभिन्नभिनविषयेष्वनेके प्रन्याः प्रणीताः सन्ति, यदन्तर्गता प्राकृतप्रकाशव्याख्येयं चन्द्रिका श्रीमतां पुरस्ताद् विद्यते । एतस्कुलं विद्वत्कलमिति कथयितुं शक्यते यतोऽस्मिन् कुले विद्वांस एव त्रयः श्रीसदाशिववैकुण्ठनाथरामनाथाख्याः पुत्रा एतेषाम् । श्रीमदयोध्यानाथप्रभृतयो नव पौत्राच सन्ति येषु कतिपये विद्वत्कोटिमारूढा अन्ये चारुरुक्षवः । अधिकं तु 'भक्तसुदर्शन'नाटकभूमिकादिभ्योऽवगन्तव्यम्। श्रीडबरालमहोदयैः प्राकृतपदार्थनिर्वचनं, भाषोपभाषाः प्राकृतप्रकाशपुस्तकस्याधारश्च स्पष्टं स्वीये प्रास्ताविके कृतमिति तत एवावगन्तव्यम् । चन्द्रिकाप्रदीपयोराधा. रश्च प्रन्यकृल्लेख एवेति न तत्रापि किमपि वक्तव्यमवशिष्टम् । ___एतदुपोद्धातलेखनावसरे श्री प० ल• वैद्यमहोदयः सम्पादितं श्रीत्रिविक्रमदेवनिर्मितप्राकृतशब्दानुशासन-मनोरमासहितप्राकृतप्रकाश-पुस्तकद्वयं तथा श्री प्रा.कृ. त्रिवेदिसम्पादितं षड्भाषाचन्द्रिकाख्यं पुस्तकमेकमुपलब्धम् । ततश्च भूमिकासामग्रीसंग्रह इति धन्यवादास्ते । विशेषतः श्रीवैद्यमहोदयाः।। ___ शरीरस्यास्वास्थ्येन यत्रतत्र गन्तुमशक्यतया यैः साहाय्यं सम्पादितं तेऽस्माकं भागिनेया आयुष्मन्तः साहित्याचार्य-पुराणेतिहासादिशास्त्राचार्याः एम्. ए० उपाधिभाजः श्रीवलिरामशास्त्रिभारद्वाजाः . सरस्वतीभवन-वाराणसीपुस्तकालयोपाध्यक्षाः, गुरुवद्गुरुपुत्रेष्विति न्यायेन गुरुतुल्या अपि शिष्यत्वं गता आयुष्मन्तः साहित्याचार्या महामहोपाध्यायगुरुवस्श्रीलक्ष्मणशावितैलङ्गसूनवः श्रीजगनाथशास्त्रितलझा अथ च श्रीव्याहटेशशहरतैलझा एम० ए०, बी० एल• महोदयाश्च शुभाशीर्वादरभिनन्द्यन्ते। .. एवं श्रीरामचन्द्रमामहाशया अपि कथं विस्मरणीयाः स्युः। .. ____एतत्कार्यप्रोत्साहनादिना समुपकुर्वन्तः चौखम्बासंस्कृतप्रन्थमाला-चौखम्बाविद्याभवनप्रन्यमालाद्वयाध्यक्षाः श्रीजयकृष्णदासगुप्तमहोदयाः शुमामिराशीभिरभिनन्यन्ते । मन्ते च ज्ञानप्रदेभ्यः पूण्यपादश्रीभालचन्द्रशास्त्रिमानवलितैलङ्गेभ्यः प्रणामपरम्पराः समर्प्य श्रीभगवन्तं काशीविश्वनाथ मनसि निधाय विरमामि पक्षवितादमुष्मादुपोद्धातप्रपञ्चादिति शम् । वाराणसी पूः, ] विदुषामाश्रयःवि० सं० २०१६, जन्माष्टमी । जगनाथशास्त्री होशिङ्गः

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 336