Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 14
________________ (३) "पाणिनीयादिव्याकृतस्य नाऽपभ्रंशव्यवहारः" इति । लिङ्गवचन साम्यन्तु न दृढतरं प्रमाणम् । नहि आङ्ग्लभाषायाः "फादर" इति, शब्दः उच्चारणसोकर्येणोश्चरितस्य पितृ शब्दस्य प्रकृतिरिति कोऽपि प्रेक्षावान् मनुते तथा च-"डाटर" इति शब्द दुहितृ शब्दस्य । नच कोऽपि, तात इत्युचारयितव्ये टाट इति रटन् भारतीयो बाल आभाषापाठकस्तद्देशीयोवागण्यते ।। अतो युक्त मुत्पश्याम:-प्रकृतिः संस्कृतम् ततःप्राकृतमिति। तथा. च प्राकृत मज-म्-“व्याकर्तुं प्राकृतत्वेन गिरः परिणतिगताः" इति। वेदमूलकत्वेऽपि न किमपि प्रमाणम् । अस्तु वा यदपि तज्ज्ञानायाऽवश्यं प्रयतितव्यम् । यतोऽत्रभाषायां सुललिताः प्रबन्धाः सन्ति । तदुक्तम् "अहो तत्माकृतं हारि प्रिया यक्वेन्दु सुन्दरम् । सूक्तयो यत्र राजन्ते सुधानिष्यन्दनिझराः" इति । तश्च प्राकृतम् वररुचिमते-प्राकृतम् १ पैशाची २ मागधी ३ ॥ शौरसेनी ४ भेदेन चतुर्दा । तासु पैशाचीमागधी शौरसेनीवि. कृती प्रकृतिः शौरसेनीत्युभवत्र दर्शनात् । शौरसेनी संस्कृतविकृतिः प्राकृतवत् । प्रकृतिः संस्कृतम् ॥ इति दर्शनात् शौरसेन्यामनुक्तं कार्य नवभिः परिच्छदैः प्रतिपादितप्राकृतानुसारिभवति 'शेषं महाराष्ट्रीपद् इत्यत्र महाराष्ट्री पदेन तस्यैव ग्रहणात् । तथा च काव्यादर्श महाराष्ट्राशयां भाषां प्रकृष्टं प्राकृतं विदुः, इति हेमस्तु-चूलिकांपैशाचिकम् १ आर्ष प्राकृतम् २ अपभ्रंशम् ३ चेत्यधिकभेदैः सप्तधा विभजते । तथा च भेदप्रतिपादकानि सूत्राणि । आर्षम् । ८।१।३। । चूलिका पैशाचिके द्वितीयतुर्ययो रायद्वितीयौ। ८ । ४ । ३२५ । स्वगणां स्वराः प्रायोऽपभ्रंशे । ८।४ । ३२९ । इति । प्राकृत सर्वस्वकारमार्कण्डेयेन-भाषा १ विभाषा २ उपभ्रंश ३ पैशाची ४ भेदाद् भाषाश्चतुर्धा विभक्ताः । तत्र भाषा-महाराष्ट्री १ शौरसेनी २ प्राच्या ३ ऽवन्ती ४ मागधी ५ भेदेन पञ्चधा। अर्द्धमागधी तु मागध्या मेवान्तर्भाविता । . विभाषा-शाकारी १ चाण्डाली २ शावरी ३ आभीरिकी ४ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 218