________________
(३) "पाणिनीयादिव्याकृतस्य नाऽपभ्रंशव्यवहारः" इति ।
लिङ्गवचन साम्यन्तु न दृढतरं प्रमाणम् । नहि आङ्ग्लभाषायाः "फादर" इति, शब्दः उच्चारणसोकर्येणोश्चरितस्य पितृ शब्दस्य प्रकृतिरिति कोऽपि प्रेक्षावान् मनुते तथा च-"डाटर" इति शब्द दुहितृ शब्दस्य । नच कोऽपि, तात इत्युचारयितव्ये टाट इति रटन् भारतीयो बाल आभाषापाठकस्तद्देशीयोवागण्यते ।।
अतो युक्त मुत्पश्याम:-प्रकृतिः संस्कृतम् ततःप्राकृतमिति। तथा. च प्राकृत मज-म्-“व्याकर्तुं प्राकृतत्वेन गिरः परिणतिगताः" इति।
वेदमूलकत्वेऽपि न किमपि प्रमाणम् ।
अस्तु वा यदपि तज्ज्ञानायाऽवश्यं प्रयतितव्यम् । यतोऽत्रभाषायां सुललिताः प्रबन्धाः सन्ति । तदुक्तम्
"अहो तत्माकृतं हारि प्रिया यक्वेन्दु सुन्दरम् । सूक्तयो यत्र राजन्ते सुधानिष्यन्दनिझराः" इति ।
तश्च प्राकृतम् वररुचिमते-प्राकृतम् १ पैशाची २ मागधी ३ ॥ शौरसेनी ४ भेदेन चतुर्दा । तासु पैशाचीमागधी शौरसेनीवि. कृती प्रकृतिः शौरसेनीत्युभवत्र दर्शनात् । शौरसेनी संस्कृतविकृतिः प्राकृतवत् । प्रकृतिः संस्कृतम् ॥ इति दर्शनात् शौरसेन्यामनुक्तं कार्य नवभिः परिच्छदैः प्रतिपादितप्राकृतानुसारिभवति 'शेषं महाराष्ट्रीपद् इत्यत्र महाराष्ट्री पदेन तस्यैव ग्रहणात् । तथा च काव्यादर्श
महाराष्ट्राशयां भाषां प्रकृष्टं प्राकृतं विदुः, इति हेमस्तु-चूलिकांपैशाचिकम् १ आर्ष प्राकृतम् २ अपभ्रंशम् ३ चेत्यधिकभेदैः सप्तधा विभजते ।
तथा च भेदप्रतिपादकानि सूत्राणि । आर्षम् । ८।१।३। ।
चूलिका पैशाचिके द्वितीयतुर्ययो रायद्वितीयौ। ८ । ४ । ३२५ । स्वगणां स्वराः प्रायोऽपभ्रंशे । ८।४ । ३२९ । इति ।
प्राकृत सर्वस्वकारमार्कण्डेयेन-भाषा १ विभाषा २ उपभ्रंश ३ पैशाची ४ भेदाद् भाषाश्चतुर्धा विभक्ताः ।
तत्र भाषा-महाराष्ट्री १ शौरसेनी २ प्राच्या ३ ऽवन्ती ४ मागधी ५ भेदेन पञ्चधा।
अर्द्धमागधी तु मागध्या मेवान्तर्भाविता । . विभाषा-शाकारी १ चाण्डाली २ शावरी ३ आभीरिकी ४
Aho! Shrutgyanam