________________
(४) शाक्की ५ (शाखी) चेति पञ्चथा।।
अपभ्रंश:-आर्दी द्राविडी च विना सप्तविंशतिधा च विभक्तः ।
अन्या अपि तिनो भाषाः स्वीकृताः-नागर-भ्राचडोपनागरभेदेन । पैशाचीभाषा तिसृषु नागरभाषासु विभक्ता तद्यथा कैकेयी २ शौरसेनी २ पाञ्चाली३ च॥रामतर्कवागीशेनाऽपि एवमेव प्रकटितम् । सर्वैरपि प्राकृतवैयाकरणैर्महाराष्ट्री पैशाची मागधी शौरसेनी चेताः प्राकृतभाषाः स्वीकृताः । काव्यालङ्कारे रुद्रटः भाषाणांतिस्रोविधाः "प्राकृतं संस्कृतश्चैतदपभ्रंश इति त्रिधाः" इति
काव्यादर्श दण्डी च "तदेतद्वानयं भूयः संस्कृतं प्राकृतं तथा अपभ्रंशश्च मिथं चेत्याहु राप्ताश्चतुर्विधाः" ॥ १ । ३२ । चतुर्विधा हि ग्रन्थाः संस्कृनिवद्धाः कचिद्, प्राकृत निवद्याः केचिद् केचिदपभ्रंश निवद्धाः केचिदासां सारयेण निवद्धा मिश्रा इत्युच्यन्ते इत्यर्थः । संस्कृतं सर्गबन्धादि-प्राकृतं स्कन्धकादिकम् आसारादीन्यपभ्रंशो. माटकादिषु मिश्रकम् इति च ।
पुराण वाग्भट्टोऽपि वाग्भट्टालङ्कारे २।१ संस्कृत प्राकृतापभ्रंश भूतभाषितेति भेदेन चतुर्धाविभजते । ___ अर्वाचीनोऽपि अलङ्कारतिलके १५-३ ॥ एवम् रुद्रटश्च काव्यालङ्कारे २।१२ सूत्रे ॥ एवमपभ्रंशविचारस्यावश्यकत्वाद्वररुचिना. कथमुपेक्षित इति विप्रतिपसौ कश्चिद्-इयमपूर्णतैव धररुचेरिति ।
सां प्रादुर्भाव एवनेति त्वन्यः। अपरे तु-"वररुचिना दाढादयो बहुलम्" ४ । ३३ इति सूत्र करणादेवाऽपभ्रंशोपि संगृहीत एव । तस्य च भामहेन आदिशब्दो यं प्रका. रार्थः तेन सर्व एव देश संकेत प्रवृत्ताः भाषाशब्दाः परिगृहीताः । इति व्याख्यातत्वात् । अपभ्रंशश्च देशसङ्केतप्रवृत्ता एव भाषाः तदुक्तं वृद्धवाग्भट्टन-"अपभ्रंशस्तु यच्छुद्धं तत्तद्देशेषु भाषितम्" इति तथा च काव्यादर्श दण्डी-यदाच आभीयोदयादेशभाषाः काव्यनाटकेषु निषद्धास्तदाऽपभ्रंशपदेन व्यवहयन्ते, तदुक्तम् तेन-"शौरसेनी च गौडी च लाटी चान्या च तारशी । याति प्राकृतमित्येवं व्यवहारेषु सन्निधिम् ॥ १।३५ आभीरादिगिरः काव्यप्वपदंश इति स्मृताः शास्त्रेषु संस्कृतावस्यदपभ्रंशतयोदितम्" १ । ३६ । इति । यत्तु अपभ्रंश पदेन भारतीयाः प्रचलिता भाषा गृह्यन्ते ताश्च निषध्यन्ते का. व्यनाटकेषु। तदुक्तम नाट्यशास्त्रे भरत मुनिना "शौरसेनं समाश्रित्य
Aho! Shrutgyanam