________________
( ५ )
भाषा कार्या तु नाटके अथवा छन्दतः कार्या देशभाषाप्रयोक्तृभिः” १७-४६ इति अधुना प्रचलित तत्तद्देशभाषास्वपि वङ्गदेशे यात्रा गन्धर्वगानम् नैपाले कूमांचले च हारचन्द्रादिनर्तनम् उपलभ्यते एव अतोऽपभ्रंशस्य प्राकृतपदेन गृहीतुमशक्यत्वा दुचित एव तदनुल्लेखः प्राकृत प्रकाशे इति तत्तु दण्डिविरोधादुपेक्ष्यम् ।
वररुचि समयेऽपभ्रंशस्य व्यवहारानुश्य इति तु न सम्यक् प्रतिभाति "त्रिविधं तश्च विज्ञेयं नाट्ययोगे समासतः । समानशब्देोर्विभ्रष्ठं देशी मतमथापि वा" इति भरतमुनिनाऽपि तस्य प्रदर्शितप्रायत्वात् । यथा "गौरित्यस्य गावी गोणी गोपोतलिकेस्येवमादयोबहवोऽपभ्रंशाः” । इति भगवता पतलिना महाभाष्येपभ्रंशस्य व्यवहृतत्वात् । स्वयं दांढत्यादि सूत्रप्रणयनाश्च स्यादेतत् । सर्वमेवैतद् प्राकृतम् तद्भवः | तत्समः । देशी चेति त्रिधा विभजन्ते सुरयः । तदाह दण्डी - "तद्भवस्तत्समोदेशत्यिनेक प्राकृत क्रमः" इति, तत्र यद्यपि तद्भव प्राकृत व्याकृत्यर्थमेव प्राकृत वैयाकरणानां प्रयत्नः तदुक्तम् "अथ प्राकृतम् । ८१ । १ । इति सूत्रे व्याख्यानावसरे हेमेन "संस्कृतानन्तरं प्राकृतस्याऽनुशासनं सिद्धसाध्यमानभेद संस्कृतयोनेरेव तस्य लक्षणं न देश्यस्य इति ज्ञापनार्थम् । संस्कृतसमं तु संस्कृतलक्षणनैव गतार्थम्” इति । तथापि तत्तत्प्रदेशेषु बाहुलकेन दैशिकानामप्युल्लेखा हैशिकमपि प्रायस्तद्भवत्वेन स्वकुर्वन्ति । ४ । ३३ सूत्रव्याख्यानावसरे भामहेन देश सङ्केत त्यादिनै तस्यार्थस्य स्पष्ट मुक्तत्वात् ।
मोscore "गोणादयः" ८ । २ । ७४ गोणादयः शब्दा अनुक्त प्रकृति प्रत्ययलोपागमवर्णविकारा बहुलं निपात्यन्ते तद्यथा गौ:गोणी | गावी । त्रिपञ्चाशात्-तेवण्णा । त्रिचत्वारिंशत्-तेआलीसा" । इति । तत्समस्तु न संस्कृतात्पृथगिति न तद्विषयकः प्रयत्नः कस्यापि ।
अथ कोऽयं प्राकृत सूत्र प्रणेता वररुचिः कदासमभवत्कदाचैतत्सूत्राणि प्रणिनायेति वृत्तं सम्यक्तयानिश्चेतुं न शक्यते । ust वररुचिः सुप्रसिद्धविक्रमराज समानकालिकोऽप्युपलभ्यते तथाहि - "धन्वन्तरिक्षपणकामरसिंहशङ्कबेतालभट्ट घटखर्पर का लिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नवविक्रमस्य " इति ।
अन्यत्र " पाणिनिं सूत्रकारं च भाष्यकारं पतञ्जलिम् । वाक्य
Aho! Shrutgyanam