Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 12
________________ प्रज्ञापनायाः मलयवृत्ती. ecene १८ कायस्थितिपदं ॥३७५॥ इत्यादि, सुगम, नवरं नैरयिकास्तथाभवखाभाव्यात् खभवाच्युत्वा अनन्तरं न भूयो नैरयिकत्वेनोत्पद्यन्ते, ततो यदेव तेषां भवस्थितेः परिमाणं तदेव कायस्थितेरपि इत्युपपद्यते जघन्यत उत्कर्षतश्च यथोक्तपरिमाणा कायस्थितिः। 'तिरिक्खजोणिए णं भंते !' इत्यादि, तत्र यदा देवो मनुष्यो नैरयिको वा तिर्यक्षुत्पद्यते तत्र चान्तमुहूर्त स्थित्वा भूयः खगतौ गत्यन्तरे वा सङ्क्रामति तदा लभ्यते जघन्यतोऽन्तर्मुहूर्तप्रमाणा कायस्थितिः, उत्कर्षतोऽनन्तं कालं यावत् , तस्य चानन्तस्य कालस्य प्ररूपणा द्विधा, तद्यथा-कालतः क्षेत्रतश्च, तत्र कालतोऽनन्ता उत्सर्पिण्यवसपिण्यः, उत्सर्पिण्यवसर्पिणीपरिमाणं च नन्द्यध्ययनटीकातोऽवसेयं, तत्र सविस्तरमभिहितत्वात् , क्षेत्रतोऽनन्ता लोकाः, किमुक्तं भवति ?–अनन्तेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे क्रियमाणे यावत्योऽनन्ता उत्सर्पिण्यवसर्पिण्यो भवन्ति तायतीर्यावत् तिर्यक तिर्यक्त्वेनावतिष्ठते, एतदेव कालपरिमाणं पुदलपरावर्तसङ्ख्यातो निरूपयति-असङ्खयेयाः पुद्गलपरावर्ताः, पुद्गलपरावर्त्तखरूपं च पञ्चसङ्ग्रहटीकायां विस्तरतरकेणाभिहितमिति ततोऽवधार्य, इह तु नाभिधीयते, ग्रन्थगौरवभयात् , असङ्ख्याता अपि पुदलपरावर्ताः कियन्त इति विशेषसङ्ख्यानिरूपणाथेमाह-'ते णं' इत्यादि, ते पुद्गलपरावर्त्ता आवलिकाया असङ्ख्येयभागः, किमुक्तं भवति?-आवलिकाया असयेयतमे भागे यावन्तः समयास्तावत्प्रमाणा असङ्ख्येयाः पुद्गलपरावर्ती इति, एतचैवं कायस्थितिपरिमाणं वनस्पत्यपेक्षया द्रष्टव्यं न शेषतिर्यगपेक्षया, वनस्पतिव्यतिरेकेण शेषतिरश्चामेतावत्कालप्रमाणकायस्थितेरसंभवात् , 209080308982889000 ॥३७५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 484