Book Title: Patra Pariksha
Author(s): Vidyanand Swami
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रपरीक्षा। त्मकत्वलक्षणसत्वमंतरेण सत्सत्वाख्या प्रमेयतापि नोपपद्यत एव प्रमाणबलतः प्रसिद्धायास्तस्याः अन्यत्र कचित्सद्भिर्निश्चयात् । आत्मादिद्रव्यमुत्पादव्ययनिर्मुक्तं प्रमेयं सिद्धं पर्यायश्च ध्रौव्यनिर्मुक्तः प्रमेयोऽस्तीति चायुक्तं द्रव्यपर्याययोर्भेदाभेदैकांतेऽनवस्थानात् तथा चैतेत्सकलमभ्यधायि । तेऽपि प्रयुजते हेतुं सत्सत्वं यदि केवलं । सत्सदित्येव साध्यत्वव्यवच्छेदोऽस्य तत्कृतः ॥१॥ साध्यलक्षणवैकल्यात्सत्यत्वस्य प्रसिद्धितः । सदनं सत्पमा ह्यत्र सँती सा यंत्र तन्मतं ॥२॥ सत्सत्प्रमेयमेतच्च प्रसिद्ध मानवादिनः । संविन्मात्रेऽपि मानस्य स्वरूपस्ति प्रमेयता ॥३॥ उत्पादादिस्वभावत्वं सत्त्वं साध्यं तु युज्यते । तस्याप्रसिद्धितः साध्यलक्षणं प्रतिपत्तितः ॥४॥ एवमाचक्षते येऽपि तेषां स्याद्धर्मिणः कुतः । साधनस्य व्यवच्छेदः प्रसिद्धत्वेन संमतात् ॥५॥ विदुषामप्रयोज्यत्वाद्धर्मिणः साध्यसिद्धये । तस्य साध्याविनाभावार्भावादेवेति तन्मतं ॥६॥ हेतुः कथं प्रयोज्यः स्यात्केवलः स्वेष्टसिद्धये । साध्यस्यावचने तेनाविनाभावाप्रसिद्धितः ॥७॥ प्रस्तावाद्गम्यमानेन हेतोः साध्येन बुद्ध्यते । विद्वद्भिरविनाभावोऽनुक्तेनापीति चेन्न वै ॥८॥ प्रस्तावस्यार्थयोरिष्टानिष्टयोरविशेषतः । कार्थे हेतुः प्रयुक्तोऽयमिति ज्ञातुमशक्तितः ॥९॥ यद्येकमुखएव स्यात् प्रस्तावस्त्र्यात्मकं जगत् । कथमेतदिति प्रश्ने तदा हेतुः स तत्र चेत्॥१०॥ न पृष्टविपरीतार्थे हेतोर्वचनसंभवात् । अत्र्यात्मकमिदं विश्वमिति स्वयमभीप्सतां ॥ ११ ॥ तत्र हेतोर्विरुद्धत्वनिश्चयात्साध्यता न चेत् । तथा त्र्यात्मकं सिद्धेस्तस्य स्यात्साध्यता कुतः॥१२॥ यो ह्यग्नौ विरुद्धत्वं धूमवत्त्वस्य बुध्यते । सोऽग्नौ साध्ये कथं तस्य न विद्यात्सत्यहेतुतां ॥१३॥ न चैवं बुध्यमानस्य घटते प्रतिपाद्यता । प्रतिपादकवद्येन हेतुस्तं प्रति केवलः ॥ १४ ॥ यत्पृष्टं प्रतिपाद्येन तत्र हेतुः प्रयुज्यते । यदाचार्येण तेनास्याविनाभावगतिस्तथा ॥ १५ ॥ भवत्येवेति चेत्साध्ये निर्देशोप्येवैमागतः । प्रतिपादकृतः प्रश्नविशेषः कॉन्यथास्य स ॥१६॥ उत्पादाद्यात्मकं विश्वं कुत एतद्धि निश्चितं । इति प्रश्ने प्रमेयत्वादिति हेतोर्वचस्यपि ॥१७॥ प्रसिद्धः साध्यनिर्देशः संबंधादुपवर्णितः । एतेनैवैकनिर्देष्टुरिव "भिन्नादपि स्फुटं ॥ १८ ॥ ततः संक्षेपतःसिद्धः सर्वेषामविगानतः । साध्यसाधननिर्देशमात्रकं न तु हेतुवाक् ॥१९॥ प्रत्यक्षं विशदं ज्ञानं प्रमाणं ज्ञानमित्यपि । अकलंकवचोयद्वत्साध्यसाधनसूचकं ॥२०॥ प्रत्यक्षं कल्पनापोढमभ्रांतमिति कीर्तिवाक् । सदकारणवन्नित्यमिति योगवचोऽपि च ॥२१॥ चैतन्यं पुरुषस्य स्यात्स्वरूपमिति सांख्यवाक् । एवमादिपरैरिष्टं स्वेष्टसिद्धिनिबंधनं ॥२२॥ सत्सत्सदिति तद्वत्स्यात्पत्रवाक्यमनाकुलं । स्वसाध्यविनाभाविसाधनस्याभिधानतः ॥२३॥ उत्पादादित्रयात्मत्वमंतरेण प्रमेयता । न हि कचित्प्रसिद्धास्ति प्रमाणवलतः सतां ॥२४॥ नोत्पादव्ययनिर्मुक्तमात्मादिद्रव्यमस्ति नः । प्रमेयं नापि पर्यायो ध्रौव्यमुक्तोऽस्ति कश्चन ॥२५॥ द्रव्यपर्याययोर्भेदाभेदैकांतेऽनवस्थितेः । श्रीमत्समंतभद्रार्ययुक्तिविद्भिस्तथोक्तितः ॥ २६ ॥ द्रव्यपर्याययोरैक्य तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥ २७॥ संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः । प्रयोजनादिभेदाच्च तेन्नानात्वं न सर्वथा ॥२८॥ तत्र द्रव्यं तावदन्वयि तदेवेदमित्यवाधितप्रत्यभिज्ञासमधिगम्यं पर्यायो व्यावृताकारस्वभावः स भेद१ सर्वथा भेदाभेदनियमेंगीक्रियमाणे । २ पूर्वोक्तं सर्वे । ३ बौद्धाः । ४ विद्यमाना। ५ वस्तुनिः। ६ प्रमाणस्य ।। खसंवेदने। ८ आदिशब्देन व्यायध्रौव्ययोर्ग्रहणं । ९ व्याप्तेरभावात् । १० तेषां बौद्धानां मतं । ११ अकथनेन । १२ अनुमानेन । १३ प्रमेयत्वादिलक्षणः । १४ बौद्धानां । १५ कुतो न कुतोपोतिभावः । १६ प्रतिपाद्यमाने | १७ उक्तविपर्यये। १८ साध्यस्य । १९ प्रतिपादनेन । २० गामानय शुक्ला दंडेनेति नानावक्तृभिः कथ्यमानेऽपि साध्यसाधननिर्देशः स्यादिति भावः । २१ वादिनां । २२ अविवादात् । २३ धर्मकीर्तेर्वचः । २४ अस्माकं जैनानां । २५ कथंचिद् प्रा । २६ अपृथकरणभावात् । २७ द्रव्य । २८ पर्याय: । २९ तयोर्द्रव्यपर्याययोः। ३. पर्यायः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13