Book Title: Patra Pariksha
Author(s): Vidyanand Swami
Publisher: Sanatan Jain Granthmala
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रपरीक्षा। पत्तिरिति लक्षणस्य भावात् वाक्छलं वा संभवदर्थपरित्यागनासंभवतोऽर्थस्य परिकल्पनात् न हि प्रमाणबलान्नैयायिकादिपरिकल्पितः पत्रवाक्ये संभवन्नर्थः सिद्धः प्रत्यक्षादिबलादनेकांतस्यैव प्रसिद्धेः प्रत्यक्ष हि तावत् बहिरंतश्च तत्त्वं भावाभावात्मकं व्यवस्यति सर्वथा विरोधाभावात् बाधकरहितं जातुचित् एकांतस्यासाक्षात्करणात् तथाभूतानेकधर्माधिष्ठानं भावः विशेषणविशेष्यादिव्यवहारान्यथानुपपत्तोरित्यनुमानाच सर्व भावाभावात्मकं सिद्धं / आगमाच्च सुनिर्बाधकप्रमाणादिति प्रपंचतोन्यत्र तत्त्वार्थालंकारे देवागमे च प्रोक्तमिह पत्रपरीक्षायां सद्भिरवगतंव्यमित्यलं प्रपंचेन तदप्युक्तं / तथा त्रिःसप्तकृत्वोऽपि पत्रवाक्यमुदीरितं / वादिना गूढमन्यच्चाविज्ञातार्थमुपागतं // 1 // परिषत्प्रतिवादिभ्यामविज्ञातत्वसद्धितः / ततश्चाप्रतिपत्तिः स्यान्निग्रहस्थानमंजसा // 2 // वक्तुर्विप्रतिपत्तिर्वा मिथ्यार्थप्रतिपादनात् / विसंवादकतायोगात् तदुक्तार्थस्य तत्त्वतः // 3 / / स्याद्वादिभिः पुनः पत्रस्यानेकांतसाधने / भवद्विप्रतिपत्तिाक्छलं वा लक्षणान्वयात् // 4 // तद्धि संभवतोऽर्थस्य परित्यागेन कल्पनं / यदसंभवतोर्थस्य प्रमाणबलतश्छलं // 5 // न चेह संभवन्नर्थो यौगादिपरिकल्पितः / प्रत्यक्षादिबलासिद्धस्ततोनेकांतसिद्धितः // 6 // भावाभावात्मकं वस्तु बहिरंतश्च तत्वतः / प्रत्यक्षं निश्चिनोत्येव सर्वथा बाधवर्जितं // 7 // वास्तवानेकधर्माधिष्ठानं भावो विशेषतः / विशेषणविशेष्यादिव्यवहारप्रसिद्धितः // 8 // सिद्धमित्यनुमानाच्चानंतधर्मसमाश्रितं / समस्तं वस्तु निर्बाधादागमाच प्रमाणतः // 9 // इति प्रपंचतः प्रोक्तमन्यत्रेहावगम्यतां / सर्वं पत्रपरीक्षायां सद्भिरित्युपरम्यते // 10 // तदेवं पत्रविचारप्रकरणपरिसमाप्तौ विजिगीषोः स्याद्वादिनो वचनं चतुरंगं निराकृताशेषमिथ्याप्रवादप्रसरं श्रिया सम्यग्दर्शनादिलक्षणयोपायभूतयोपमेयानंतज्ञानादिलक्षणलक्ष्मीपर्यंततया सदा जयत्विति जयवादेनासंशयति-- जीयान्निरस्तनिश्शेषसर्वथैकांतशासनं / सदा श्रीवर्द्धमानस्य विद्यानंदस्य शासनं // 1 // सूक्ताभासो भवति भवतस्तावदुत्तारहेतुः स्वस्यान्येषां गुरुतमतमश्छिच्च माध्यस्थभाजां / तन्मत्वैवं विपुलमतिभिस्तत्र यत्नो विधेयो नानंदायाखिलखलधियां तं हि कः कर्तुमीशः // 2 // इति श्रीस्याद्वादपतिविद्यानंदस्वामिविरचिता पत्रपरीक्षा समाप्ता। - शुभंभूयात् For Private and Personal Use Only

Page Navigation
1 ... 11 12 13