Book Title: Patra Pariksha
Author(s): Vidyanand Swami
Publisher: Sanatan Jain Granthmala
Catalog link: https://jainqq.org/explore/020551/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपरमात्मने नमः । सनातनजैनग्रंथमाला। स्याद्वादविद्यापतिश्रीविद्यानंदस्वामिविरचिता पत्रपरीक्षा cion श्रीवर्द्धमानमानुत्य स्याद्वादन्यायनायकं । प्रबुद्धाशेषतत्त्वार्थ पत्रवाक्यं विचार्यते ॥ १॥ कस्मात्पुनः श्रीवर्द्धमानमर्हतं भगवं तं स्याद्वादन्यायनायकं प्रकर्षेण साक्षाबुद्धाशेषद्रव्यपर्यायात्मजीवादिपदार्थमेवानुत्य पत्रवाक्यमाचार्यपरंपरया विचरत् विचार्यते। नन्वक्षपादाद्येकांतवादिनामन्यतममित्यत्रोच्यते। नैकांतवादिनां पत्रवाक्यं संभवदर्थकं । तत्तत्त्वाधिगमापायप्रकाशहितत्वतः ॥ १॥ यत्तु संभवदर्थात्मा न तत्तादृक्षमीक्षितं । यथा स्याद्वादभृद्वाक्यं तदृक्केदं न तत्त● ॥ २ ॥ नन्वक्षपादादीनां पत्रवाक्यं तावन्नेत्ययुक्तं तस्य प्रसिद्धावयवत्वेन प्रसिद्धत्वात् देवदत्तादिवाक्यवत् 'नापि तदसंभवदर्थकं स्वेष्टस्यार्थस्य साधकत्वात् । न चाऽसाधुगूढपदप्रायमपि पत्रमासज्यते साधुगूढपदप्रायस्यैव निराकुलस्य तस्य तैरावेदितत्वात् । तदुच्यते प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकं । साधुगूढपदप्रायं पत्रमाहुरनाकुलं ॥ १॥ कथं पुनः प्रसिद्धावयवत्वादिविशेषणविशिष्टं वाक्यं पत्रं नाम तस्य श्रुतिपथसमधिगम्यपदसमुदायविशेषरूपत्वात् पत्रस्य तद्विपरीताकारत्वात् न च यद्यतोऽन्यत्तत्तेन व्यपदिश्यतेऽतिप्रसंगात् नीलादयोपि हि कंबलादिभ्योऽन्ये न ते नीलादिव्यपदेशहेतवः तेषां तैद्यपदेशहेतुतया प्रतीयमानत्वात् किरीटादीनां पृरुषे तव्यपदेशहेतुत्ववत् तद्योगात्तत्र मत्वर्थीयविधानात् । नलिादयः संति येषां ते नीलादयः कंबलादय इति गुणवचनेभ्यो मत्वर्थीयस्याभावप्रसिद्धेरितचेत् उपचरितोपचारादिति क्रमः । श्रोत्रपथप्रस्थायिनो हि शब्दात्मकस्य पदसमुदायविशेषरूपस्य लिप्यापचारः तत्र तस्य जनैरारोप्यमाणत्वात् लिप्युपचरितवाक्यस्यापि पत्रे समुपचर्यमाणत्वात् तत्र लिखितस्य पत्रस्थत्वात् तदुपचरितोपचारात् पत्रव्यपदेशसिद्धेः न च यद्यतो ऽन्यत्तत्तेनोपचारादुपचारोपचारात् वा व्यपदेष्टुमशक्यं शक्रार्दैन्यत्र व्यवहर्तृजने शक्राभिप्राये स्फुटमुपचारदर्शनात् ततोऽन्यत्रापि कॉष्टादावुपचारोपचारात् शक्रव्यपदेशसिद्धेः तदुक्तं स्वाभाविकमेव । र आगच्छत् । ३ तेषां । ४ जीवादितत्त्व-। ५ स्वार्थनिश्चयस्य । ६ प्रमाणनयप्रदर्शकवाक्यं । ७ तस्मात् । ८ संभवदर्थात्मैव । ९ आदिशब्देन गामानय शुक्लां दंडेनेत्यादिप्रहणं । १० दोषै रहितं । ११ कर्ण । १२ नीलः कंबल इत्यत्र कंबलोह्यनेन नीलेन व्यपदिश्यते इत्यत आह । १३ तेषु कंबलादिषु नीलादिव्यपदेशहेतवो न भवंतीत्यर्थः । १४ लिपिरेव वाक्यमिति । १५ वाक्यस्य । १६ भिन्ने । १७ पंडितादौ । १८ आदिशब्देन पाषाणादिग्रहणं । For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सनातनजैनग्रंथमालायांमुख्य शब्दात्मक वाक्यं लिप्यामारोप्यते जनैः । पत्रस्थत्वात्तु तत्पत्रमुपचारोपचारतः ॥ १॥ . अथवा प्रकृतवाक्यस्य मुख्यत एव पत्रव्यपदेश इति निगेंदामः पदानि त्रायंते गोप्यंते रक्ष्यंते परेभ्यः प्रतिवादिभ्यः स्वयं विजिगीषुणा यस्मिन् वाक्ये तत्पत्रमिति पत्रशब्दस्य निर्वचनसिद्धेः । तथा. लोके व्यवहतरि शास्त्रे च गुरुपर्वक्रमायाते प्रतीतेः न च पदानि विनिश्चितपदस्वरूपतदभिधेयतत्त्वेभ्यः परेभ्यस्त्रातुमशक्यान्येव कुतश्चिद्वर्णविपर्यासनादेः प्रकृतिप्रत्ययादिगोपनाद्वा तत्राणसंभवात् पदगूढादिकाव्यवत्तदुक्तं त्रायंते वा पदान्यस्मिन्परेभ्यो विजिगीषुणा । कुतश्चिदिति पत्रं स्यालोके शास्त्रे च रूढितः॥२॥ न चैवमसाधुपदास्पदमपि वाक्यं पत्रमासज्यते सुस्पष्टपदमेव वा साधुगूढपदप्रायमिति वचनात्तदुक्तं नचासाधुपदं वाक्यं प्रस्पष्टपदमेव वा । साधुगूढपदप्रायमिति तस्य विशेषणात् ॥ ३॥ पदपादादिगूढकाव्यमेवं पत्रं प्रामोति इति चेन्न प्रसिद्धावयवत्वेन विशिष्टस्य पत्रत्ववचनात् न हि पदगूढादिकाव्यं प्रमाणसिद्धप्रतिज्ञाद्यवयवविशेषणतया किंचित्प्रसिद्धं तस्य तथा प्रसिद्धौ पत्रव्यपदेशसिद्धेरवाधितत्वात्तदुक्तं पदगूढादिकाव्यं च नैवं पत्रं प्रसज्यते । प्रसिद्धावयवत्वेन विशिष्टस्याभिधानतः ।। चयमिष्टस्यार्थस्यासाधकमपि ताग्विाक्यं पत्रमेवमासक्तमिति चेन्न स्वेष्टार्थसाधनस्यैवेह पत्रविचारे पत्रत्ववचनात् तदप्यभिहितं ___ स्वेष्ठार्थासाधनस्यापि नैवं पत्रत्वमापतेत् । स्वेष्टार्थसाधनस्यैव पत्रत्ववचनादिह ॥ ततो नाक्षपादादीनामेकांतवादिनां पत्रवाक्यमसंभवदर्थकं इति केचित्तदसत् यथोक्तलक्षणस्य, पत्रवाक्यस्य तेषां विचार्यमाणस्याव्यवस्थितेः ताँहि-नाक्षपादस्य तावद्यथोक्तलक्षणं पत्रवाक्यं संभवति प्रसिद्धावयवत्वस्य विरहात्सुगतादीनामिव । तदवयवाहि प्रतिज्ञादयः पंचाक्षपादेनाभिधीयते प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति सत्रप्रणयनात । तत्रागमः प्रतिज्ञा विश्वतश्चक्षरिति विश्वतो मेखो विश्वतो बाहरिति विश्वतः पात संबाईभ्यां धमति संपतत्रैवाभमी जनयन देवएक इति यथा. आगमार्थो वा प्रतिज्ञा विवादाध्याँसितमुपलब्धिमत्कारणकमिति । यथा हेतुरनुमानं तेन प्रतिज्ञातार्थस्यानुमीयमानत्वात् कार्यत्वादिति। यथा उदाहरणं प्रत्यक्षं वादिप्रतिवादिनोर्यत्र बुद्धिसाम्यं तदुदाहरणमिति वचनात् वस्त्रादिवदिति यथा उपनयमुपमानं दृष्टांतः धर्मिसाध्यधर्मिणोः सादृश्यात्, “प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमिति" वचनात् यत्कार्य तदुपलब्धिमत्कारणकं दृष्टं यथा वस्त्रादि तथा च विवादाध्यासितमिति । यथा सर्वेषामेकविषयत्वप्रदर्शनफलं निगमनं तस्मादुपलब्धिमत्कारणकमिति यथा आगमानुमानप्रत्यक्षोपमानवत् फलसमुदायरूपत्वात्पंचानामवयवानामिति व्याख्यानात्। न चैते पंचावयवाः प्रमाणतो विचार्यमाणा विपश्चिच्चेतसि सुनिश्चिताश्चकासति, पत्रवाक्याभासेऽपि संभवात् तेषां पक्षधर्मत्वसपक्षेसत्वविपक्षासत्वमात्राणामिव त्रयाणामवयवानां सुगतसंमतानां वीतादीनामिव कपिलविकल्पितानां तदभावेऽपि पत्रवाक्यस्य स्वार्थसाधनस्य दर्शनात् साध्याविनाभावनियमनिश्चयलक्षणादेव हेतोः साध्यप्रसिद्धेः तदुक्तं न चैवं लक्षणं पत्रमक्षपादस्य युज्यते । प्रसिद्धावयवत्वस्य विरहात्सुगतादिवत् ॥१॥ पत्रस्यावयवाः पंच प्रतिज्ञादय इत्यसत् । पत्राभासेऽपि सद्भावात्तेषां त्रैरूपमात्रवत् ॥२॥ तदभावेऽपि पत्रस्य स्वार्थसाधनतेक्षणात् । हेतोः साध्याविनाभावनियमात्मकतो यथा ॥३॥ सत्सत्सदितिसंक्षेपात्साध्यसाधनदर्शनं । व्याप्त्याः सामर्थ्यतः सर्वनामाभावेऽपि निश्चितं ॥४॥ ननु च यत्कृतकं तदनित्यं दृष्टं यथा घट इत्यादौ सति सर्वनामप्रयोगे व्याप्या साध्यसाधनवचन१ पदसमुदायात्मकं। २ वयं जैना: । ३ परंपरा । ४ वाक्यस्य । ५ पत्रत्वाभिधानात् । ६ वादिप्रतिवादिभ्यां । ७ प्रसिद्धावयवं साधुगूढपदप्रायं च । ८ अभ्यधायि । ९ न प्राप्नोति । १. तदेव विवृणोति । ११ धर्मधर्मिसमुदायःप्रतिज्ञा । १२ सर्वदर्शित्वात् । १३ सकलशास्त्रप्रणेतृत्वात् । १४ सर्वकर्तृत्वात् । १५ सर्वगतत्वात् । १६ पुण्यपापाभ्यां । १७ परमाणुभिः । १८ क्षित्यादिकं । १९ बुद्धिमत्कारणकं । २० प्रतिज्ञ द्यवयवानां । २१ कार्यत्वात् । २२ पूर्वोत्क सूत्रव्याख्यानात् । For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रपरीक्षा। मुपलब्धं न पुनरसति यतः सत्सदित्यत्र सर्वनामप्रयोगाभावेऽपि संक्षेपतस्तत्सिद्ध्येत् धर्मिणश्चावचैनमिहायुक्तं अग्निरत्रधूमादित्यादिषु धर्मिवचनदर्शनादिति कश्चित् सोऽप्यनालोचितवचनपथः सामर्थ्याद्गम्यमानस्य सर्वनाम्नो प्रयोगे विरोधंवैधुर्यात् पंचावयववादिनः साधावयवव्याख्यानादर्थतोगम्यमानानां वैधावयवानामिव क्वचिदवश्यं तत्प्रयोगे पंचावयेववचने न्यूनानुषंगात् अवयववादिना बौद्धानां त्र्यंशस्य हेतोभीषणात् सामर्थ्यतो गम्यमानानां प्रतिज्ञादीनामिव तत्पँयोगे स्वयमसाधनांगवचनस्य निग्रहाधिकरणस्य तैरभिधानात् तत एव धर्मिणोऽप्यवचनमिति संक्षिप्तपत्रवाक्येन विरुद्ध्यते तस्य परीक्षादक्षैरखूणतयोपलक्षितत्वात् तदुक्तं वैधावयवा यद्वत्पंचावयववादिनः । साधावयवाख्यानाद्गम्यतेऽर्थादभाषिताः ॥ १ ॥ प्रतिज्ञायाश्च केषांचिद्धेतोस्त्र्यंशस्य भाषणात् । सामर्थ्याद्गम्यमानत्वान्न प्रयोज्या यथैव तु ॥२॥ तथा सामर्थ्यगम्यत्वात्सर्वनाम्नोप्यभाषणं । कचिदिष्टं परीक्षायां दक्षैर्द्धर्मिण एव च ॥ ३ ॥ नन्वेवं क्वचिदपि प्रतिज्ञादिप्रयोगे न स्याद्वादिनां युक्तरूपोभवेत् तस्य सामर्थ्याद्गम्यमानत्वात्सर्वनामवदिति न मनीषिभिर्मनसि निधेयं तेषां प्रतिपाद्यानुरोधेन प्रयोगोपगमात् यथैव हि कस्यचित्प्रतिबोध्यस्यानुरोधेन साधनवाक्ये संधाभिधीयते दृष्टांतादिकर चैवं साधनस्यैकलेक्षणत्वं स्वयं परीक्षितमपक्षिप्यते ततोऽन्यांशानां सतामपि तलक्षणत्वापायात्साधनाभासेपि तत्संभवादसाधारणताविरहात् तथैव हि कुमारनंदिभारकैरपि स्ववादन्याये निगदितत्वात्तदाह प्रतिपाद्यानुरोधेन प्रयोगेषु पुनर्यथा । प्रतिज्ञा प्रोच्यते तज्ज्ञैस्तथोदाहरणादिकं ॥ १ ॥ न चैवं साधनस्यैकलक्षणत्वं विरुध्यते । हेतुलक्षणतापायादन्यांशस्य तथोदितं ॥२॥ अन्यथानुपपत्त्येकलक्षणं लिंगमैग्यते । प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ॥ ३॥ ननु चातिसंक्षिप्तपत्रवाक्ये हेतुरेव प्रयोक्तव्यः तावन्मात्रात्साध्यमवबोद्धं समर्थान् नरान्प्रति साध्याभिधानस्य निरर्थकत्वात् प्रपंचतारतम्यात् साध्यं निश्चेतुमीशान् प्रति द्वौ चावयवौ प्रयोक्तव्यौ पक्षो हेतुश्चेति त्रयश्चावयवाः कश्चन प्रतिपक्षो हेतुर्दृष्टांतश्चेति । चत्वारो वा तएवावयवाः सोपनयाः परानुग्रहप्रवणैः सद्भिः प्रयोक्तव्याः । पंच व प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात् । अन्यथा तत्प्रतिपत्तेरयोगादित्यैन्ये प्राहुः तदाह हेतुरेव प्रयोक्तव्यस्तावन्मात्रात्प्रवेदितुं । सैमर्थान्प्रतिबोध्यान् नृन् साध्यं संक्षेपतो नैनु ॥ १॥ द्वौ च त्रयश्च चत्वारः पंच चावयवाः परे । प्रयोक्तव्याः प्रपंचेन सद्भिरित्यपरे विदुः ॥२॥ तेऽप्येवं पृष्टव्याः हेतुस्तावत्केर्वेलः प्रयुज्यमानः कथं प्रयुज्यत इति यदि प्रथमांतः सत्सदित्येव तदास्य कुतः साध्यत्वव्यवच्छेदः साध्यलक्षणवैकल्यात् सत्सत्त्वस्य प्रसिद्धत्वात् साध्यस्याप्रसिद्धलक्षणत्वात् किं पुनः सत्सदित्युच्यते यतस्तैत्सकलजनप्रसिद्ध साध्यव्यवच्छेदेन साधनत्वेनैव बुद्ध्यामहे न पुनः साध्यनिर्देशत्वेनै शंकामहे सत्सदिति चेत् ईमे ब्रूमहे सैदनं सदिति प्रमा यतोऽत्रीभिप्रेता सर्वैर्गत्यर्थत्वात् गत्यर्थस्य च १ सर्वमनेकांतात्मकमुत्पादव्ययध्रौव्ययुक्तं सत्सत्सत्वादित्यर्थः । २ अप्रतिपादनं । ३ पर्वतादौ नानः । ४ विरोधविरोधात् । ५ साधावयवपंचकस्यैव वचेन । ६ हीनं अन्यतमेन न्यूनमिति निग्रहस्थानानुषंगात् । ७ यत्र पंचावयव. प्रयोगे । ८ परिपूर्णतया । ९ पक्षधर्मवसपक्षेसत्वविपक्षाद्यावृत्तिरूपस्य । १० प्रतिज्ञा संधा प्रतिज्ञाः, मर्यादेत्यमरः। ११ उपनयनिगमनयोर्ग्रहणं । १२ इति पराशंकां मनसि कृत्वा निराकृतवान् जैनः । १३ अन्यथानुपपत्तिः। १४ प्रतिज्ञादीनां विशेषरूपत्वरहितत्वात् । १५ तदेव विवृणोति । १६ प्रवक्ष्यमाणं वर्तते। १७ अंगीक्रियते । १८ जैनान्प्रति । १९ सांख्यान् प्रति । २० मीमांसकान्प्रति । २१ योगान्प्रति। २२ उक्त विपर्यये एवं न प्रयुज्यते चेत् । २३ सौगता:। २४ प्रपंचेन साध्यं प्रवेदितं समर्थान् नन् प्रति । २५ अहो। २६ प्रमेयांतः। २७ केन प्रकारेण । २८ व्यावृतिः। २९सत्सदितिलिंग ३० प्रतिपादनत्वेन । ३१ सत्सदिति तद्धे तुरित्यर्थः । ३२ बौद्धाः। ३३ युट् प्रत्ययोऽत्र ज्ञातव्यः। ३४ कारणात् । ३५ अनुमाने। For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सनातनजैन ग्रंथमालायांज्ञानार्थत्वात्सर्वे गत्यर्था ज्ञानार्थे वर्त्तते इति वचनात्सती विद्यमाना सा यस्मिन् तत्सत्सद्विद्यमानप्रमं प्रमेयमिति यावन्न कस्यचित्प्रमाणवादिनः प्रमेयमप्रसिद्धं । संवितमात्रप्रमाणवादिनः तदप्रसिद्धमिति न मंतव्यं तस्यापि संविस्वरूपे प्रमेयत्वप्रसिद्धेः स्वरूपस्य स्वतो गतिरिति स्वयमभिधानात्संवेत्या तदभिधाने परमार्थतः स्वरूपादिगतिविरोधात्संविदद्वैतसिद्धरयोगात् । यदि पुनरुत्पादादिस्वभावत्वं सत्वं तदा तत्सत्सत्साध्यमिति युक्तं विद्यमानोत्पादादिस्वभावत्वस्य सत्सत्त्वस्य केषांचिदप्रसिद्धत्वात् साध्यलक्षणसंप्रतिपत्तरित्येवं ये ब्रुवंते तेषां सत्सदित्युक्ते सत्सत्वस्य प्रसिद्धतया साध्यव्यवच्छेदसिद्धावपि साधनस्य धर्मिणो व्यवच्छेदः सिद्ध्येत् तस्यापि प्रसिद्धत्वेन संमतत्वात् प्रसिद्धोधर्मीति वचनात् यदि पुनर्विदुषां साध्यसिद्ध्यर्थ धर्मिणो प्रयोज्यत्वात्तस्य साध्याविनाभावाभावादेव व्यवच्छेदसिद्धिरिति मतं तदा हेतुः केवलः कथं तेषां प्रयोज्यः स्यात् स्वेष्टसिद्ध्यर्थ साध्यस्यानभिधाने तेन तस्याविनाभावाप्रसिद्धेः । प्रस्तावाद्गम्यमानेन साध्येनानुक्तेनापि हेतोरविनाभावस्तावद्विद्भिरवधार्यते इति चेत् न चैतत्परीक्षाक्षम प्रस्तावस्येष्टानिष्टयोरर्थयोरविशेषात्कतरस्मिन्नर्थे हेतुः प्रयुक्तोयमिति ज्ञातुमशक्तेः किमनित्यः शब्दो नित्यो वेत्युभयांशावलंविनि शंसये सति हेतुप्रयोगस्येष्टत्वात् “संदिग्धेऽर्थे हेतुवचनादिति" कैश्चित्स्वयमभिधानात्। अथ यदैकमुखएव प्रस्तावस्त्र्यात्मक जगत् कथमेतदिति कस्यचित्प्रश्ने तदा हेतुस्तत्रैवायमिति ज्ञातुं शक्यत्वात् प्रस्तावाद्गम्यमानेन साध्येन हेतोरविनाभावः सिद्ध्यत्येवेत्यपि न संगैतं पृष्टविपरीतार्थे हेतोर्वचनसद्भावदर्शनात् अत्र्यात्मकमिदं सर्वमिति स्वयमभीप्सतां तत्रैव हेतुप्रयोगोपपत्तेः यदि पुनस्तत्र प्रयुक्तस्य हेतोविरुद्धत्वनिश्चयात् तथा च त्र्यात्मकस्यैव सिद्धरत्र्यात्मकत्वस्य साध्यत्वायोगात् न तेन हेतोरविनाभावसिद्धिरिति मतं तदा त्र्यात्मकत्वस्यापि कुतः साध्यत्वं, प्रसिद्धस्य साध्यत्वविरोधात्साधनवत् । कस्यचिद्वेतोरत्र्यात्मकत्वे साध्ये विरुद्धतामवबुद्ध्यमानस्य सामर्थ्यात् त्र्यात्मकत्वे साध्ये सम्यग्घेतुत्वनिर्णयघटनात् तत्त्र्यात्मकप्रसिद्धत्वोपपत्तेः यो ह्यनग्नौ साध्ये धूमवत्त्वस्य हेतोविरुद्धतामवबुध्यते स तस्याग्नौ साध्ये सम्यग्घेतुत्वमपि बुध्यत एव । न चैवं बुध्यमानस्य प्रतिपाद्यंता घटते प्रतिपादकवत् ततो न तं प्रति हेतुः केवलः प्रयोक्तव्यः स्यात् । अथ यत्पृष्टं प्रतिपाद्येन तत्र हेतुयंदाचार्येण प्रयुज्यते तदा तस्य तेनाविनाभावावगतिर्भवत्येवेति मतं तदपि न समीचीनं साध्यनिर्देशस्यैव समागतेः प्रतिपाद्यकृतप्रश्नविशेषस्यान्यथा तत्रानुपपत्तेः उत्पादाद्यात्मकं सर्वं कुत एतदिति प्रश्ने प्रमेयत्वादिति हेतोर्वचनेऽपि संबंधात्साध्यनिर्देशप्रसिद्धेः एकनिर्देष्टुरिव भिन्ननिर्देष्टुरपि तस्य तेन संबंधाविशेषात् यथैव ह्येकस्य वक्तुः साध्यनिर्देशानंतरं साधनस्य निर्देशे तस्य तेनाविनाभावसंबंधसाध्यसिद्धेः साध्यव्याप्तसाधनोपदर्शनं स्फुटमवैसीयते तथा प्रतिपाद्येन' साध्यप्रश्नवचने कृते प्रतिपादकेन साधनाभिधानेऽपि भिन्नवक्तृनिर्दिष्टयोरपि साध्यसाधनयोरविनाभावाविरोधात् कथमन्यथैकवाक्यस्य नानावक्तृभिरुदीर्यमाणस्य संबधता सिद्धयेत् ततः सर्वेषां वादिनां अविगानेन सिद्धं संक्षेपतः साध्यसाधननिर्देशमात्रं न पुनः केवलं हेतुर्वचनं विदुषामपि तदयोगात् किंवत् सर्वेषां वादिनां अविगानेन संक्षेपतः साध्यसाधनदर्शनं प्रसिद्धमिति चेदुच्यते श्रीमदकलंकदेवस्य, प्रत्यक्षं विशदं ज्ञानं प्रमाणमित्यादिवत् । धर्मकीर्तेः प्रत्यक्ष कल्पनापोढमभ्रांतमित्यादिवत् । योगस्य सदकारणवन्नित्यमित्यादिवत्। सांख्यस्य चैतन्यं पुरुषस्य स्वरूपमित्यादिवत् सत्सत्सदिति पत्रवाक्यमनाकुलमेव संभावयामः स्वसाध्यार्थाविनाभाविसाधनस्याभिधानात् यथैव हि विशदज्ञानात्मकत्वमंतरेण प्रत्यक्षमनुपपन्नं ज्ञानात्मकत्वेन च विना प्रमाणत्वं केषांचित्परेषां कल्पनापोढाभ्रांताभ्यां विना प्रत्यक्षत्वं अन्येषां नित्यत्वादृते सदकारणवत्वमितरेषां पुरुषस्वरूपाभावे चैतन्यं तथोत्पादादित्रया १ पदार्थरूपे । २ अपरमार्थतः। ३ आदिशब्देन व्ययध्रौव्ययोहणं । ४ क्षणिके प्रवर्त्तमान । ५ सौगता:। ६ व्यावृत्तिसिद्धौ सत्यां । ७ वादिप्रतिवादिनोः । ८ चेटूद्ध तवेति मतं वर्तते । ९ व्याप्तरभावात् । १० अप्रतिपादने । ११ प्रतिपादन । १२ उत्पादव्ययध्रौव्यस्वरूपं । १३ वचो युक्ति मन्न । १४ चेद्बौद्ध तवेति मतं । १५ जगतः । १६ हेतोः १७ शिष्यता। १८ शिष्येण । १९ उक्तविपर्यये । २० प्रतिपादनानंतरं । २१ ज्ञायते निश्च यते वा । २२ गामायनशुक्ला दंडेनेत्यादिकस्य । २३ सामर्थ्येन अविवादेन । २४ तद्भावहेतुभावौ हि दृष्टांते तदवेदिनः । ख्यान्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ २५ बौद्धाचार्यस्य । २६ तदेव विवृणोति । २७ जनानां । For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रपरीक्षा। त्मकत्वलक्षणसत्वमंतरेण सत्सत्वाख्या प्रमेयतापि नोपपद्यत एव प्रमाणबलतः प्रसिद्धायास्तस्याः अन्यत्र कचित्सद्भिर्निश्चयात् । आत्मादिद्रव्यमुत्पादव्ययनिर्मुक्तं प्रमेयं सिद्धं पर्यायश्च ध्रौव्यनिर्मुक्तः प्रमेयोऽस्तीति चायुक्तं द्रव्यपर्याययोर्भेदाभेदैकांतेऽनवस्थानात् तथा चैतेत्सकलमभ्यधायि । तेऽपि प्रयुजते हेतुं सत्सत्वं यदि केवलं । सत्सदित्येव साध्यत्वव्यवच्छेदोऽस्य तत्कृतः ॥१॥ साध्यलक्षणवैकल्यात्सत्यत्वस्य प्रसिद्धितः । सदनं सत्पमा ह्यत्र सँती सा यंत्र तन्मतं ॥२॥ सत्सत्प्रमेयमेतच्च प्रसिद्ध मानवादिनः । संविन्मात्रेऽपि मानस्य स्वरूपस्ति प्रमेयता ॥३॥ उत्पादादिस्वभावत्वं सत्त्वं साध्यं तु युज्यते । तस्याप्रसिद्धितः साध्यलक्षणं प्रतिपत्तितः ॥४॥ एवमाचक्षते येऽपि तेषां स्याद्धर्मिणः कुतः । साधनस्य व्यवच्छेदः प्रसिद्धत्वेन संमतात् ॥५॥ विदुषामप्रयोज्यत्वाद्धर्मिणः साध्यसिद्धये । तस्य साध्याविनाभावार्भावादेवेति तन्मतं ॥६॥ हेतुः कथं प्रयोज्यः स्यात्केवलः स्वेष्टसिद्धये । साध्यस्यावचने तेनाविनाभावाप्रसिद्धितः ॥७॥ प्रस्तावाद्गम्यमानेन हेतोः साध्येन बुद्ध्यते । विद्वद्भिरविनाभावोऽनुक्तेनापीति चेन्न वै ॥८॥ प्रस्तावस्यार्थयोरिष्टानिष्टयोरविशेषतः । कार्थे हेतुः प्रयुक्तोऽयमिति ज्ञातुमशक्तितः ॥९॥ यद्येकमुखएव स्यात् प्रस्तावस्त्र्यात्मकं जगत् । कथमेतदिति प्रश्ने तदा हेतुः स तत्र चेत्॥१०॥ न पृष्टविपरीतार्थे हेतोर्वचनसंभवात् । अत्र्यात्मकमिदं विश्वमिति स्वयमभीप्सतां ॥ ११ ॥ तत्र हेतोर्विरुद्धत्वनिश्चयात्साध्यता न चेत् । तथा त्र्यात्मकं सिद्धेस्तस्य स्यात्साध्यता कुतः॥१२॥ यो ह्यग्नौ विरुद्धत्वं धूमवत्त्वस्य बुध्यते । सोऽग्नौ साध्ये कथं तस्य न विद्यात्सत्यहेतुतां ॥१३॥ न चैवं बुध्यमानस्य घटते प्रतिपाद्यता । प्रतिपादकवद्येन हेतुस्तं प्रति केवलः ॥ १४ ॥ यत्पृष्टं प्रतिपाद्येन तत्र हेतुः प्रयुज्यते । यदाचार्येण तेनास्याविनाभावगतिस्तथा ॥ १५ ॥ भवत्येवेति चेत्साध्ये निर्देशोप्येवैमागतः । प्रतिपादकृतः प्रश्नविशेषः कॉन्यथास्य स ॥१६॥ उत्पादाद्यात्मकं विश्वं कुत एतद्धि निश्चितं । इति प्रश्ने प्रमेयत्वादिति हेतोर्वचस्यपि ॥१७॥ प्रसिद्धः साध्यनिर्देशः संबंधादुपवर्णितः । एतेनैवैकनिर्देष्टुरिव "भिन्नादपि स्फुटं ॥ १८ ॥ ततः संक्षेपतःसिद्धः सर्वेषामविगानतः । साध्यसाधननिर्देशमात्रकं न तु हेतुवाक् ॥१९॥ प्रत्यक्षं विशदं ज्ञानं प्रमाणं ज्ञानमित्यपि । अकलंकवचोयद्वत्साध्यसाधनसूचकं ॥२०॥ प्रत्यक्षं कल्पनापोढमभ्रांतमिति कीर्तिवाक् । सदकारणवन्नित्यमिति योगवचोऽपि च ॥२१॥ चैतन्यं पुरुषस्य स्यात्स्वरूपमिति सांख्यवाक् । एवमादिपरैरिष्टं स्वेष्टसिद्धिनिबंधनं ॥२२॥ सत्सत्सदिति तद्वत्स्यात्पत्रवाक्यमनाकुलं । स्वसाध्यविनाभाविसाधनस्याभिधानतः ॥२३॥ उत्पादादित्रयात्मत्वमंतरेण प्रमेयता । न हि कचित्प्रसिद्धास्ति प्रमाणवलतः सतां ॥२४॥ नोत्पादव्ययनिर्मुक्तमात्मादिद्रव्यमस्ति नः । प्रमेयं नापि पर्यायो ध्रौव्यमुक्तोऽस्ति कश्चन ॥२५॥ द्रव्यपर्याययोर्भेदाभेदैकांतेऽनवस्थितेः । श्रीमत्समंतभद्रार्ययुक्तिविद्भिस्तथोक्तितः ॥ २६ ॥ द्रव्यपर्याययोरैक्य तयोरव्यतिरेकतः । परिणामविशेषाच्च शक्तिमच्छक्तिभावतः ॥ २७॥ संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः । प्रयोजनादिभेदाच्च तेन्नानात्वं न सर्वथा ॥२८॥ तत्र द्रव्यं तावदन्वयि तदेवेदमित्यवाधितप्रत्यभिज्ञासमधिगम्यं पर्यायो व्यावृताकारस्वभावः स भेद१ सर्वथा भेदाभेदनियमेंगीक्रियमाणे । २ पूर्वोक्तं सर्वे । ३ बौद्धाः । ४ विद्यमाना। ५ वस्तुनिः। ६ प्रमाणस्य ।। खसंवेदने। ८ आदिशब्देन व्यायध्रौव्ययोर्ग्रहणं । ९ व्याप्तेरभावात् । १० तेषां बौद्धानां मतं । ११ अकथनेन । १२ अनुमानेन । १३ प्रमेयत्वादिलक्षणः । १४ बौद्धानां । १५ कुतो न कुतोपोतिभावः । १६ प्रतिपाद्यमाने | १७ उक्तविपर्यये। १८ साध्यस्य । १९ प्रतिपादनेन । २० गामानय शुक्ला दंडेनेति नानावक्तृभिः कथ्यमानेऽपि साध्यसाधननिर्देशः स्यादिति भावः । २१ वादिनां । २२ अविवादात् । २३ धर्मकीर्तेर्वचः । २४ अस्माकं जैनानां । २५ कथंचिद् प्रा । २६ अपृथकरणभावात् । २७ द्रव्य । २८ पर्याय: । २९ तयोर्द्रव्यपर्याययोः। ३. पर्यायः । For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सनातनजैन ग्रंथमालायांप्रत्ययसमधिगम्यः कथांचत्तयोरैक्यमव्यतिरेकात् ययोस्तु नैक्यं न तयोरव्यतिरेकः यथा हिमवविध्ययोरव्यतिरकश्च द्रव्यपर्याययोस्तस्मात्तयोरैक्यामिति केवलव्यतिरेकी हेतुः ननु चैक्यमव्यतिरेक एव स एव हेतुः कथर्मुपपन्नः स्यात्साध्यसमत्वादिति न मंतव्यं कथंचित्तादात्म्यस्यैक्यस्य साध्यत्वात् परस्परमशक्यविवेचनत्वस्याव्यतिरेकस्य साधनत्वात् तस्य साध्यसमत्वाभावात् परस्परंव्यतिरेचनं व्यतिरेकः, तदभावस्त्वव्यतिरेकः सच शक्यविवेचनमेवेति कथं साध्यसमत्वं नचैवमसिद्धो हेतुः कस्यचिज्जीवादिद्रव्यस्य स्वपर्यायेभ्यो ज्ञानादिभ्यः परद्रव्यपर्यायांतराणि स्वपर्यायाणांच ज्ञानादीनां द्रव्यांतरं नेतुमशक्यत्वस्य परस्परमशक्यविवेचनत्वस्य द्रव्यपर्याययोः सुप्रसिद्धत्वात् अन्यथा ज्ञानादिपर्यायाणां जीवपर्यायत्वायोगात् जीवादिद्रव्यत्वस्य च तद्र्व्यत्वविरोधात् ननु सत्यपि दैव्ये तत्पर्यायाणामुत्पादात् उत्पन्नानां च विनाशात् कथमशक्यविवेचनत्वं सिद्धमिति तु न शंकनीयं पर्यायाणामुत्पादविनाशाभावे पर्यायत्वायोगात् तेषामुत्पादव्ययलक्षणत्वात् द्रव्यस्य ध्रौव्यलक्षणत्ववत्॥ समुदेति विलयमृच्छति भावो नियमेन पर्ययनयस्य नोदेति नो विनश्यति भावनयालिंगितो नित्यं ॥ इति वचनात् । न च कालाभेदोऽशक्यविवेचनत्वं एककालवर्तिनां नानार्थानामतिप्रसंगातू ततः कालाभेदे सत्यपि द्रव्यपर्यायो शक्यविवेचनत्वं यथोक्तलक्षणं विरुद्ध्यते । देशाभेदोऽशक्यविवेचनमित्यपि वात वातातपादीनामपि तत्प्रसंगात् शास्त्रीयो देशाभेदोऽशक्यविवेचनत्वमिति चेत्तैर्हि द्रव्यपर्याययोस्तत्कथमासद्धं ॥ न पर्यायाणां रूपादीनां घटादिद्रव्यदेशत्वात् घटादिद्रव्यस्य तु स्वारंभकावयवदेशत्वात् तत्पदार्थान्तरत्वसिद्धिरिति चेन्न प्रमाणाभावात् गुणगुणिनौ क्रियाक्रियावंतौ जातितद्वंतौ विशेषतद्वंतौ अवयवावायविनौ च परस्परतः पदार्थांतरभूतौ भिन्न प्रतिभासत्वात् यौ यौ भिन्नप्रतिभासौ तौ तौ परस्परतः पदार्थांतरभूतौ यथा घटपटौ भिन्नप्रतिभासौ तौ इत्यनुमानसद्भावान्न प्रमाणाभाव इति चेन्न अस्यानुमानस्य विरुद्धत्वात् इष्टविरुद्धेस्य कथंचिदार्थातरस्य साधनात् कथंचिद्भिन्नप्रतिभासत्वस्य कथंचिदार्थातरेण व्याप्तत्वात् सर्वथा भिन्नप्रतिभासत्वस्य हेतुत्वे पुनरसिद्धो हेतुः दृष्टांतश्च साध्यसाधनविकलः प्रतीयते घटपटयोः सर्वथा●तरत्वस्य साध्यस्य सर्वथाभिन्नप्रतिभासत्वस्य च साधनधर्मस्याप्रातीतिकत्वात् । सँगव्याद्यात्मना तयो रभिन्नत्वादभिन्नप्रतिभासमानत्वाच्च । ननु च सद्व्याद्यात्मनोऽपि घटपटाभ्यां भिन्नत्वात् कथं तेन तयोरभेदः स्यात् । अभिन्नप्रतिभासत्वं वा, सत्वं हि परसामान्यं सत्स्वभावः द्रव्यत्वं चापरसामान्यं द्रव्यस्वभावः तथा पार्थिवस्वभावोपि इति कथमसौ ततोनार्थांतरभूतः स्यादिति कश्चित् सोऽपि न युक्तवादी सत्वादीतरत्वे तयोरसत्वप्रैसंगातू द्रव्यादिस्वभावाच्चात्यंतभेदे तयोरद्रव्यादिप्रसक्तेः । सत्तासंबधात् तयोः सत्वं द्रव्यत्वसंबंधात् द्रव्यत्वोपपत्तेः पार्थिवत्वादिसंबंधात्पार्थिवत्वादिव्यवस्थानान्नदोष इति चेत् कथमसतः स्वयमद्रव्यस्यापार्थिवादेश्च । तेंदत्यंतभिन्नसत्वादिसंबंधादपि सैदादिरूपता युक्ता स्वरविषाणादेरपि तत्प्रसंगात् । प्रागसदादेः सत्तादिसंबंधात् सैंदादिरूपत्वे प्रध्वंसाभावस्य स्वकारणव्यापारात्प्रागभूतस्य तदनंतर भवतः सत्तादिप्रसंगः । तस्य तदापि सत्तादिसंबंधासंभवात् न तत्प्रसंग इतिचेत्तदिदं जाड्यविज्रभितं, आक्षेपस्यैव परिहारतया व्यवहारात् प्रागसतः सत्तासंबंधात्सत्वेऽपि प्रध्वंसाभावस्य सत्तासंबंधः कस्मान्न भवति, ततः सत्वं चेत्याक्षेपः तस्य सत्तासंबंधासंभवात् इति स एव परिहारः कथमजडैरभिधीयते साध्यमेव च साधनं कुतस्तस्य सत्तासंबंधाभावः सत्तासंबंधाभावादिति कुतः सत्तासंबंधलक्षणसत्वाभावः सत्तासंबंधाभावादिति वा यदिः पुनः प्रागैसत्वादविशेषेऽपि घटपटयोरेव सत्तासंबंधः तन्निमित्तं च सत्त्वं तथा १ द्रव्यपर्याययोः। २ परस्परमशक्यविवेचनखात् । ३ बौद्धः। ४ अनयोः कश्चिद्भेदो नार्थेन दृश्यते यतः। ५ जैनः। ६ पृथक्करणं । ७ बौद्धः । ८ ध्रौव्यरूपे । ९ घटपटादीनां । १०युक्तिमन्न । ११शाने भवः शास्त्रीयो न तु लौकिकः १२ जैनः । १३ परः । १४ तत्रस्थितखादित्यर्थः । १५ तयोर्द्रव्यपर्याययोमिनलसिद्धिः। १६ वाधितस्य । १७ अंगीक्रियामाणे । १८ इदं सदिदंसदिति द्रव्यं स्वरूपेण । १९ भिन्नखसति । २० नास्तित्वं स्यादित्यर्थः । २१ अंगीक्रियमाण । २१ अविद्यमानस्य । २३ खरूपेण । २४ सद्व्यपार्थिवेभ्यः। २५ सत्वद्रव्यत्वपार्थिवत्व । २६ आदि शब्देन द्रव्यपार्थिवयोर्ग्रहणं । २७ अस्मत्कृतप्रतिषेधस्यैव । २८ प्रतिपादनादित्यपि पाठ, व्यवहरणातू प्रतिपादनात् । २९ चेतू हे योग इतिमतं वर्तते । ३० पुनरसत्वाद्यविशेषेऽपि पाठः । For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रपरीक्षा । 9 प्रतीतेः न पुनः प्रध्वंसाभावस्य तदभावादिति मतं तदा कथंचित्सत्तादितादत्म्यात् सत्तादिव्यवहारो घटपटयेोरिति नैकांतेन सत्वादि ततो भिन्नं येन सद्द्रव्यात्मना घटपटयोरभेदः कथंचिदभिन्नप्रतिभासत्वं वा न स्यात् साध्यसाधनवैकल्यं वा दृष्टांतस्य ततो न द्रव्यपर्यायोर्भेदैकांतसाधनं निरवद्यमस्ति यतस्तैयोः पैदार्थतरत्वसिद्धौ शास्त्रीयदेशभेदलक्षणशक्यविवेचनत्वोपपत्तेः अशक्यविवेचनत्वमव्यतिरेको हेतुरसिद्धः शक्येत नचायम कांतिको विरुद्धो वा सर्वदा विपक्षे वृत्त्यभावात् इति सिद्धत्येवातो हेतोः कथंचिद्रव्यपर्याययेोरैक्यं तथा " द्रव्यपर्याययोरेक्यं परिणामविशेषात् ययोस्तु नैक्यं न तयोः परिणामविशेषः, यथा सह्यविंध्ययोः परिणामविशेषश्च द्रव्यपर्याययोः तस्मादैक्यमित्यपि व्यतिरेकीहेतुः नेनु च कोयं परिणामविशेषोनाम यदि पूर्वविनाशादुत्तरोत्पादस्तदा वाद्यंसिद्ध: निरन्वयविनाशात्यंतापूर्वोत्पादयोः स्याद्वादिनामनिष्टत्वात् । अथ पूर्वस्य तिरोभावादुत्तरस्याविर्भाव स्तदापि वद्य सिद्धः सर्वथासत स्तिरोभावाविर्भावमात्रानभ्युपगमात् एतेन स्वश्रियाद्भिन्नस्वभावः समवायात्तत्र वर्तमानः परिणामविशेष इति वाद्यसिद्धः प्रतिपादितः तेषां तथाप्यनभ्युपगमात् अथ पूर्वापरस्वभावत्यागोपादानान्वितस्थितिलक्षणस्तदा प्रतिवाद्यसिद्धः सौगतसांख्ययोगानां तथभूतपरिणामविशेषासिद्धेः इति कश्चित्सोपि न युक्तवादी पूर्वापरस्वभावयागोपादानान्वितस्थितिलक्षणस्य परिणामविशेषस्य प्रमाणतः सिद्धत्वात् । तथा हि सर्वे वस्तु यथोक्तपरिणामविशेषभाक् सत्वात् सर्वथाप्यपरिणामिनि सौतादीष्टपरिणामेन परिणमिनि च सत्वविरोधात् तद्विरोधश्च अर्थक्रियाव्याघातात् तद्व्याघातश्च क्रमयौगपद्यासम्भवात् तदसंभवश्च निरन्वयविनश्वनिरंशैकांते देशकालकृतक्रमस्य नानाकार्यकरणशक्तिनानात्वनिबंधन यौगपद्यस्य च विरोधात् सर्वथा सदात्मककूटस्थवत् परस्परतोऽत्यंतभिन्नधर्मधर्मिमात्रवच्च नह्यत्र देशकृतः क्रमः पिपीलिकादिवत् नापि कालकृतो वा बीजांकुरादिवत् संभवत्येकस्यानेकदेशकालवर्तिनोर नभ्युपगमात् यो यत्रैव स तत्रैव यो यदैव तदैव सः "न देशकालयोर्व्याप्तिर्भावानामिह विद्यते" इतिवचनात् ननु च क्षणिकैकस्वलक्षणापेक्षया देशकालव्याप्त्यभावात् भावानां माभूत् देशकालकृतः क्रमः सकृदेकस्यानेकस्वभावापेक्षया यौगपद्यवत् संतानापेक्षया तु स्यात् तस्यानेकसहकारिकालापापेक्षया अनेककार्यकरणयौगपद्यवत् इति चेन्न संतानसमुदाययोरेव क्रमयौगपद्याभ्यामर्थक्रियाकारित्वात् वस्तुत्वसिद्धिप्रसंगात् लक्षणस्यावस्तुतापत्तेः । स्यादाकूतं यदन्वयव्यतिरेकानुविधानात्क्रमशः कार्योत्पत्तिस्तत्स्वलक्षणं क्रमशः कार्यकारि यथा कस्यचिज्जाग्रद्विज्ञानं क्रमशः स्वमज्ञानप्रबोधज्ञानादिकारणं किंचित्तु युगपत्कार्यकरि यदन्वयव्यतिकाभ्यां यौगपद्येन कार्योत्पत्तिः यथा प्रदीपस्वलक्षणं तैलशोषणांधकारापनयं कारणं । न चैवमेकस्यानेकस्वभावापत्तिस्तस्य तादृशैकस्वभावत्वात् इति तदसत् कूटस्थस्याप्येवं क्रमाक्रमकार्यकारित्वोपपत्तेः शक्यं हि वक्तुं शाश्वतिको भावः स्वान्वयव्यतिरेकाभ्यां क्रमेणाक्रमेण वानेकं कार्य प्रादुर्भावयन् तथा तन्निमित्तं । नचानेकस्वभावत्वं तस्य तथाविधैकस्वभावत्वात् ॥ नियैस्य कथं व्यतिरेक इति चेत् क्षणिकस्य कथं । सकलकालकलाव्याप्तेरिति चेत् नित्यस्यापि सकलदेशाव्याप्तेर्व्यतिरेकोऽस्तु । नैंनु नित्याद्भिन्नकार्यस्योत्पत्तौ १ आदिशब्देन द्रव्यत्वपार्थिवत्वयोर्ग्रहणं । २ कुतो न स्यात् स्यादेव । ३ सर्वथा भेदनियमे साधनं सर्वथा न घटते इति भावः । ४ स्वरूपेण । ५ घटपटयोर्द्रव्यपर्यायोर्वा । ६ विवेचनस्य तदुपपत्तौ । कुतः शक्येत न कुतोऽपि । ८ उत्पाद व्ययीव्यात्मकत्वात् । ९ बौद्धः । १० चेत् । ११ (वादिनां) जैनानामसम्मतः । १२ जैनानामभिमतः । १३ न्यायेन १४ घटपटादेः । १५ सौगतसांख्ययोगोक्तप्रकारेण परिणामस्यानंगीकारात् । १६ परिणामविशेषश्चेत् । १७ जैनोक्कलक्षणपरिणाम विशेषस्यासिद्धरित्यर्थः । १८ पूर्वापरखभावयोर्यथासंख्यं प्राह्यं । १९ उत्पादव्ययध्रौव्यरहिते । २० आदि शब्देन सांख्ययोगयोग्रहणं । २१ खरविषाणादौ । २२ निरन्वयविनाशात्यतापूर्वोत्पादः पूर्वस्य तिरोभावादुत्तरस्याविर्भावः स्वाश्रयाद्भिन्नस्वभावः समवायात्तत्र वर्तमानः परिणामविशेष इति लक्षणे निरंश: क्षणिकः । २३ सद्रूपैकरूपतया कालव्यापि कूटस्थतस्त्वं सांख्यापेक्षया ग्राह्यं । २४ सौगतादीष्टतत्त्वस्य । २५ कारणसमुदायापेक्षया । २६ शुद्धवस्तुनः । २७ वौद्धः । २८ स्वलक्षणं । २९ भवतीत्यध्याहारः । ३० स्वलक्षणस्य । ३१ क्रमयौगपद्याभ्यामर्थक्रियाकारित्वलक्षणः । ३२ नित्यस्य ३३ क्षणिकाक्षणिकवादिनोः परस्परं वदतोः ३४ स्वलक्षणं यथा । ३५ बौद्धः । ३६ असत्य सद्भावोव्यतिरेकः । ३७ व्यतिरेक इत्याध्याहारः । ३८ जैनः | ३९ बौद्धः । For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समातमजैनग्रंथमालायांदेशव्यतिरेकस्यापि न संभवः तदनुत्पत्तौ तु तदेशस्यैव कार्यस्य सर्वदोत्पत्तेः प्रतीतिविरोध इति चेत् तर्हि क्षणिकाद्भिन्नकालस्य कार्योत्पादे व्यतिरेकाभावस्तदभावएव तद्भावात् , तेंदभिन्नकालस्योत्पादे कार्यत्वविरोधः समसमयवर्तित्वात्स्वात्मवत। क्षणिकलक्षणे स्वकाले सति भवतः कालांतरेऽपि कार्यस्यान्वयवत तदा तस्मिन्नसर्यंभवतो व्यतिरेकः सिद्ध्यतीति चेत् तर्हि नित्येऽपि स्वदेशे सति देशांतरेऽपि भवतः कार्यस्यान्वयवत् तत्राप्यसति तस्याभवतो व्यतिरेकः सिद्ध्येत् । नचैवमनभिमतदेशस्यापि कार्यस्य जन्म प्रसज्यते नित्यवादिनः क्षणिकवादिनोऽपि तदनभिमतकालस्य जन्मप्रसंगात् । ततः स्वयोग्यभिन्नकालस्योत्पत्तौ नित्यादपि स्वयोग्यभिनंदेशस्योत्पत्तेरलं प्रबंधेन सर्वथा क्षणिकेतरवादिनोः परस्परमैनतिशयात् क्षणिकैकांतस्य तस्यान्यत्र प्रपंचतो निराकरणाच्च न पूर्वापरस्वभावविनाशोत्पादमात्रेण परिणामेन परिणामि सर्वं वस्तु नाप्याविनाभावमात्रेण नित्यैकान्ते तदनुपपत्तेः कूटस्थस्याविर्भावतिरोभावोत्पत्तौ तदवस्थाविरोधात् अनित्यतानुषंगात् तदवस्थयोस्तदुपपत्तौ ततस्तयोर्भेदकल्पानतिक्रमात् भेदे नित्यस्यावस्थेति व्यपदेशसिद्धिः संबंधाभावात् । अवस्थावस्थावद्भावएव संबंधइतिचेत् न तस्य भेदैकांते सह्यविंध्यवदघटनात् । एतेन द्रव्यस्य भिन्नेन गुणादिना परिणामेन परिणामित्वं प्रत्याख्यातं गुणादिद्रव्ययोः समवायस्यापि भेदैकांते तद्वदनुपपत्तेरविशेषात् । देशाभेदात्तयोः संबंध इति चेन्न वातातपयोरात्माकाशयोर्वा तत्प्रसंगात् कालभेदादुभयाभेदाच स तयोरित्यस्याप्यनेनापास्तं । तयोरविश्वग्भावादुपपन्नः संबंधः इति चेत् स यदि देशकालाभेद एव तदा सएव दोषः ततोन्यश्चेत् स्वभावाभेदः, प्रतिभासाभेदो, व्यपदेशाभेदो, वा न तावत्स्वभावाभेदः संभवति द्रव्यस्य गुणादेश्च भिन्नस्वभावत्वोपगमात् । प्रतिभासव्यपदेशाभेदोऽपि न युक्तः, तस्यासिद्धत्वात् । कथंचिदेकद्रव्यतादात्म्यमविश्वग्भाव इति चेत् स्याद्वादमतासिद्धिः सैवास्तु गत्यंतराभावात् इति यथोक्तपरिणामेनैव परिणामित्वं सत्त्वस्य व्यापकं सिद्धं ततस्तस्यैव साधनमिति सिद्धः परिणामविशेषो हेतुः द्रव्यपर्याययोः कथंचिदैक्यं साधयति । यथैव हि द्रव्यस्य द्रव्यरूपतया स्थितिः, पूर्वापरपर्यायरूपतया तु नाशोत्पादौ परिणामविशेषस्तथा पर्यायस्यापि स्वरूपेणात्मलाभो विनाशश्च द्रव्यरूपतया तु स्थितिरिति तल्लक्षणः परिणामविशेषोऽस्त्येव । तथा द्रव्यपर्याययोः कथंचिदैक्यं शक्तिमच्छक्तिभावात् ययोस्तु नैक्यं न तयोः शक्तिमच्छक्तिभावः यथा सह्यविन्ध्ययोः शक्तिमच्छक्तिभावश्च द्रव्यपर्याययोरिति व्यतिरेकी हेतुरन्यथानुपपत्तिलक्षणः साध्यं साधयति । शक्तिमद्धि द्रव्यं शक्तयः पर्यायाः प्रतीताएव तद्भावः शक्तिमच्छक्तिभावः सिद्धोन्यथानुपपत्त्यात्मको हेतुः । न चान्यथानुपपत्तिरसिद्धा कथंचिदैक्यमंतरेण द्रव्यपर्याययोर्भेदैकांते तदभेदैकांते च शक्तिमच्छक्तिभावस्यासंभवात् । अशक्यक्वेिचनलक्षणपरिणामविशेषवत् । तथा द्रव्यपर्याययोः कथंचिन्नानात्वं संज्ञासंख्यालक्षणप्रयोजनप्रतिभासभेदात्कुटपटवत् शक्रपुरंदरादिसंज्ञाभेदेन कलत्रं दारा इत्यादिसंख्याभेदेन ज्ञानादिस्वलक्षणभेदेन तापोद्योतादिप्रयोजनभेदेन स्पष्टास्पष्टादिप्रतिभासभेदेन च व्यभिचारी हेतुरितिचेन्न तस्यापि कथंचिद्भेदमंतरेणानुपपद्यमानत्वात् सर्वस्यैकानेकस्वभावताविनिश्चयात् संज्ञेयसंख्येयस्वलक्ष्यप्रयोज्यप्रतिभास्य स्वभावभेदार्पणायामेव संज्ञादिभेदव्यवहारसिद्धेरन्यथातिप्रसंगात् ततोऽनवा द्रव्यपर्याययोः कथंचिद्भेदसाधनं कथंचिदैक्यसाधनवत् नचैवं विरोधवैयधिकरण्यादिदूषणं, प्रमाणसिद्धयोः कथंचिद्भेदाभेदयोस्तदगोचरत्वात् कचित्सर्वथा भेदाभेदयोरेव विरोधादिविषयतयावसायात् । ननु चद्रव्यपर्याययोर्यमात्मानमाश्रित्य भेदो यंचाश्रित्याभेदस्तौ यदि ततो भिन्नौ तदा भेदएव न हि भिन्नादभिन्नमभिन्नं नाम नानाभाजनस्थक्षीरादभिन्नक्षीरांतरवत् अथाभिन्नौ तथापि न भेदः तदुक्तं यावात्मानौ समाश्रित्य भेदाभेदी द्वयोस्तयोः । तावभिन्नौ ततः स्यातां यदि भेदस्तदा न किम् ॥१॥ किं भिन्नौ यदि तौ भेदः सर्वथा केन वार्यते । भिन्नाभिन्नयोर्भदा भिन्नार्थादभेदवत् ॥२॥ १ नित्यस्थितस्यैव । २ भिन्नः कालो यस्य । ३ कारणाभावएव । ४ कार्यसद्भावात् । ५ कारणाभिन्नकालस्य । ६ कार्यकारणयोः। ७ क्षणिकस्वरूवपवत् । ८ अनुत्पद्यमानस्य । ९ उत्पद्यमानस्य । १० भिन्नो देशो यस्य कार्यस्य तस्य । ११ विस्तरेण । १२ अतिशयरहितत्वात् । १३ देवागमालंकारादी । १४ एकरूपतया तु यः कालव्यापी स कूटस्थः । १५ व्याप्तावकोक्रियमाणायां। १६ कूटस्थादाविर्भावतिरोभावी भिन्नावभिन्नौ का। For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रपरीक्षा। इति स एवमप्युपालंभो वस्तुनि न भवत्येव स्वमिथ्याविकल्पयोरेव तत्संभवात् वस्तुनो द्रव्यपर्यायामनोर्जात्यंतरस्य तदंशयोर्द्रव्यपर्याययोः कथंचिद्भेदाभेदात्मनोः प्रतीतिसिद्धत्वात् नच तथा प्रतीतिः मिथ्या, बाधकस्य तद्विपरीतग्राहिणः प्रमाणस्य कस्यचिदप्यसंमनन् तत्रानवस्थादेरनवतारात् तथा हि द्रव्यपर्याययोर्यमात्मानं द्रव्यस्वभावमाश्रित्याभेदः स्याद्वादिनां संम एवाभेदो न पुनरन्योत्रायं पर्यायमात्मानमाश्रित्य तयों/दो व्यवह्रियते सएव पर्यायात्मा भेदः ततोनाप पाहुरनेकांतवादिनः ततो नैवाभेदैकांतः प्रसज्यते भेदैकांतो वा तथाभ्यधायि इत्येवमप्युपालंभो न संभव स्तुनि तथा प्रतीतिसिद्धत्वाद्वाधकस्याप्यसंभवात् । द्रव्यपर्यायोश्चात्र भेदः स्याद्वादिनां मतः । त्मानं यमाश्रित्य स एवाभेद इत्यपिं ॥१॥ पर्यायात्मानमाश्रित्य पंचभेदः प्रकीर्यते। व भेद इत्याहुस्तत्तदेकांतता कुतः ॥२॥ इति तत एव च प्रतीतिसिद्धत्वाद्बाधकाभावादा तोष्णस्पर्शवत् द्रव्यपर्यायोर्विरोधो ध्वस्तः स्यात् तद्वद्वैयधिकरण्यं च ध्वस्तं स्यात् तत एवानवस्था वर यात् द्रव्यरूपेणाभेदस्यैव पर्यायरूपेण भेदस्यैवोभयस्वभावे वस्तुनि व्यवस्थितत्वात् सुनयार्पितैकांतावध त्यापि अनेकांताप्रतिघातत्वात् । ननु च प्रमाणार्पणादनेकांतएव नयार्यणाच्चैकांतएवेत्यप्येकांतएव प्र... इति चेन्न तस्याप्यपरनयप्रमाणविषयतायामेकातात्मकत्वात् अव्यवस्थितानेकांतोपगमात् आकांक्षाक्षर । व्यवस्थानसिद्धरनवस्थादोषाभावात् । संकरश्चध्वस्तः स्यात् तयोर्युगपत्प्राप्त्यभावात् । व्यतिरेकश्च पर विषयगमनाभावात् । प्रतिनियतस्वरूपत्वात्संशीतिरपि ध्वस्ता । तथानयोर्नयप्रमाणाभ्यां सुनिश्चितत्वात् तथैवाप्रतिपत्तिरभावश्च ध्वस्तः स्यात् यौगाभिमतसामान्यविशेषबत् चित्राद्वैतवादिनश्चित्रवेदनवत् , सांख्यस्य सत्वरजस्तमोमयैकप्रधानवत् चित्रपटवच्चापरेषां नैकस्यानेकत्वं विरोधं भजते नापि वैयधिकरण्यादिदोषमिति प्रतिपत्तव्यं । तदुक्तं तत एव विरोधोऽत्र विभिन्नाश्रयतापि वा । अनवस्थाद्यपि ध्वस्तं स्यात्सामान्यविरोधवत् ॥१॥ चित्रवेदनवच्चापि सत्वाद्यात्मप्रधानवत् । चित्रवस्त्रवदेकस्यानेकत्वं न विरोधभाक् ।। २ इति एवं च न सत्सत्त्वलक्षणं प्रमेयत्वं नित्यैकांतादिषु क्वचिदपि सर्वथैकांते संभवति प्रमाणेनेव नयैरपि जात्यंतरस्यानेकांतात्मनो वस्तुनः प्रवेदनात् । नित्यत्वाद्यकांतप्रवेदने तत्प्रतिपक्षाऽनित्यत्वादिधर्माणामनिराकरणान् तत्र तेषामपि गुणीभूतानां सद्भावात् एतावतैव विपक्षे व्यावृत्तिनिश्चयेन हेतोः प्रकृतस्यान्यथानुपपन्नताप्रधानलक्षणभूता सिद्धा । ततो युक्तं साध्यसाधनवचनं संक्षेपतः पत्रवाक्ये केवलस्य हेतोरति संक्षेपतो प्रयोगाप्रयोगात् , सर्वथाविचारासहत्वात्, साध्यनिर्देशसहितस्यैव हेतोः प्रयोगार्हत्वसमर्थनात् , तदुक्तं तथा च न प्रमेयत्वं ध्रौव्यैकांतादिषु कचित् । नयैरपि गुणीभूतानेकांतस्य प्रवेदनात् ॥ सिद्धा चैतावता हेतोरन्यथानुपपन्नता । प्रधानलक्षणं युक्ता साध्यसाधनवाक् ततः ॥ इति विशेषाश्रयणात्कस्य कस्यावयवस्य वचनं पत्रे प्रयोगयोग्यमिति उदाहियते । साध्यधर्मविशिष्टस्य धर्मिणः साधनस्य च । वचः प्रयुज्यते पत्रे विशेषाश्रयतो यथा ॥ स्वांतभासितभूत्याद्ययंतात्मतदुभांतभाक् । परांतद्योतितोद्दीप्तमितीतः स्वात्मकत्वतः ॥ इति अंत एव ह्यांतः स्वार्थिकेऽणि भवति वानप्रस्थादिवत् प्रादिपाठायेक्षया सोरांतः स्वांतः-उत् तेन भासिता द्योतिता भूतिरुद्भूतिरित्यर्थः सा आद्या येषां ते स्वांतभासितभूत्याद्यास्तेच ते अंताश्च ते उद्रूतिविनाशध्रौव्यधर्मा इत्यर्थः, त एवात्मानः तान् तनोति इति स्वांतभासितभूत्याद्ययंतात्मतदिति साध्यधर्मः उभाता वाकू यस्य तदुभांतभाक् विश्वमिति धर्मो तस्य साध्यधर्मविशिष्टस्य निर्देशः उत्पादादित्रिस्वभावव्यापि सर्वमिति यावत् । परांतो यस्येति परांतः प्रःसएव द्योतितं द्योतनमुपसर्ग इत्यर्थः तेनोद्दीप्ता सा चासौ मितिश्च तामितः स्वात्मा यस्य तत्परांतायेतितोद्दीप्तमितीः तत्स्वात्मकं प्रमितिः प्राप्तस्वरूपमिति यावत् तस्य भावस्तत्त्वं प्रमेयत्वं तस्मात्ततः प्रमेयत्वात् इत्यर्थः प्रमाणविषयस्य प्रमेयत्वादिति एतस्य साधनस्य चान्यथानुपपन्नत्वनियमनिश्चयलक्षणस्योक्तन्यायेन समर्पितस्य वचनं यत्रेति विशेषाश्रयेण प्रयुज्यते, दृष्टांतोपदर्शनाभावेऽपि हेतोर्गमकत्वसमर्थनात् । तथा त्रयश्चत्वारः पंच षडादयो वा पत्रवाक्येऽवयवाःस्युः नियमस्याव्यवस्थानादित्येतदभिधीयते । For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सनातन जैन ग्रंथमालायां १० चित्राद्यदंतराणीय मारेकांतात्मकत्वतः । यदित्थं न तदित्थं न यथा किंचिदिति त्रयः ॥ १ ॥ तथाचेदमिति प्रोक्ताश्चत्वारोऽवयवा मताः । तस्मात्तथेति निर्देशे पंच पत्रस्य कस्यचित् ॥२॥ षडादयोऽपि चैवं स्युर्नियमस्याव्यवस्थितेः । साधर्म्येतरदृष्टांताभिधाने च यथा कचित् ॥३॥ चित्रमेकानेकरूपं तदततीतिचित्रात् एकानेकरूपव्याप्यने कातात्मकमित्यर्थः सर्वविश्वयदित्यादि सर्वनामपाठापेक्षया यदंतो विश्वशब्दः । यदंतोस्येति यदंत इतिवृत्तेः, यदंतेन राणीयं शब्दनीयं विश्वमित्यर्थः तदनेनानेकांतात्मकं विश्वमिति पक्षनिर्देशः कृतः, आरेका संशयः सांतोस्येत्यारेकांतः प्रमेयः प्रमाणप्रमेयसंशयेत्यादिपाठापेक्षया स आत्मा स्वभावो यस्य तदारेकांतात्मकं तस्य भावस्तत्त्वं तस्मादिति साधनधर्मनिर्देशः यदित्थं न भवति यच्चित्रान्न भवति तदित्थं न भवति आरेकांतात्मकं न भवति यथा किंचिन्न किंचित् यथाचाकिंचित् सर्वथैकांतात्मकं तत्त्वं पराभ्युपगतमिति त्रयोऽवयवाः पत्रे प्रयुज्यंते तथा चेदं प्रमेयात्मकं चेदं विश्वमिति पक्षधर्मोपसंहारवचने चत्वरोवयवाः प्रयोगेऽमी दृष्टाः तस्मात्तथानेकांतव्यापीति निर्देशे पंचावयवाः । पत्रवाक्यस्य कस्यचित् षडादयोपि चैवं प्रतिपाद्याः प्रतिपाद्याशयवशात् स्युः तेषामियत्तया चावधारणस्याभावात् तन्न साधर्म्यदृष्टांतस्य वैधर्म्यदृष्टांतस्य च गम्यमानस्यापि वचने षडवयवाः स्युः । यथानित्यः शब्दः कृतकत्वात् यत्कृतकं तदनित्यं दृष्टं यथा घटः यत्पुनर्नित्यं तदकृतकं दृष्टं यथाकाशं कृतकश्च शब्दः तस्मादनित्य इति अत्रैव साधर्म्यापनये वैधर्म्यापनये च कृतकः शब्दः, अकृतकस्तु न भवतीति प्रयुज्यमाने सप्तावयवाः स्युः तस्मादनित्यो नित्यस्तु न भवति इति निगमनवचनेऽष्टौ, अनित्यः शब्दो न तु नित्य:, इति प्रतिज्ञाद्वयवचने नवावयवाः स्युः कृतकत्वादकृतकत्वाभावादिति हेतुप्रयोगे दशापि श्रूयते गम्यमानावयवप्रयोगे पुनरुक्तदोषाभावात्, प्रतिज्ञाद्यवयवप्रयोगवत् पक्षधर्मोपसंहारवद्वा दुराशंकाव्यवच्छेदस्य फलस्य सद्भावाविशेषात्, सर्वत्र निष्फलत्वायोगात्, तथाविधप्रतिपाद्याशयविशेषसंभवाच्च, यतश्चैवं तस्मात्साध्याविनाभूतस्य साधनस्योपदर्शनं प्रमाणसिद्धं तदभावे साध्यप्रसिद्धेः, पंचावयवाद्युपदर्शनं तु . परेषां न प्रमाणसिद्धं बोध्यानुरोधमात्रादेतदुपदर्शनात् एवं च नैकांतवादिनां प्रसिद्धावयवं वाक्यं संभवति यत् पत्राख्यां लभेत तदुक्तं घटादि नुमेयत्वा देरनुपपत्तेः Acharya Shri Kailassagarsuri Gyanmandir ततः साध्याविनाभूतसाधनस्योपदर्शनं । प्रमाणासिद्धमेतस्याभावे साध्याप्रसिद्धितः ॥ १ ॥ बोध्यानुरोधमात्रात्तु शेषावयवदर्शनात् । परेषां न प्रमाणेन प्रसिद्धावयवं वच इति ॥ २ ॥ किंच यन्मते वर्णा अपि न व्यवतिष्ठते पदान्यपि च तस्य वाक्यं कुतः प्रमाणात् सिद्ध्येत् यत् पत्रलक्षणेन यथोक्तेन समन्वितं स्यात् । ननु यौगानां वर्णादयो व्यवतिष्ठत एव आकाशगुणत्वेन शब्दानामभ्युपगमात् तद्बाधकाभावादिति न संभाव्यं तथा बाधकसद्भावात् किं तावद्वाधक इति चेदुच्यते नाकाशगुणः शब्दः बायेंद्रियज्ञानज्ञानविषयत्वात् य एवं सएवं यथा स्पर्श तथा च शब्दस्तस्मान्नाकाशगुणः शब्दः इति नान्यथानुपपत्तिशून्यं साधनं । गगनगुणत्वे शब्दस्य तदनुपपत्तेः परममहत्वादिवत् । घटाकाशसंयोगादिना व्यभिचारीदं साधनमिति चेन्न बाचेंद्रियज्ञानविषयत्वासिद्धेः अतींद्रिययोरिवातीं``येंद्रियकयोरपि संयोगस्य विभागादेश्च वा तदघटनात्, अन्यथातिप्रसंगात् तदुक्तं वर्णा न व्यवतिष्ठते पदान्यपि च यन्मते । तस्य वाक्यं कुतः सिद्ध्येत् यत्पत्रं लक्षणान्वितं ॥ १ ॥ न शब्दः खगुणो बाह्यकरणज्ञानगत्वतः । स्पर्शवत् खगुणस्यैवं प्रमाणव्याहतत्वतः ॥ २॥ इति च मीमांसकस्यापि सर्वगतामूर्तद्रव्य नित्यैकात्मको वर्णो युज्यते तस्य बाह्येन्द्रियग्राह्यस्वभावत्वात् नाकाशेन हेतोर्व्यभिचारः तस्य बाह्मेद्रियाग्राह्यस्वभावत्वात् कालादिवत् शुषिरस्याप्याकाशस्यामूर्तद्रव्यस्याभावे कस्यचिदमूर्तद्रव्यस्य सिद्धेः तुच्छस्याभावस्याघटनात् निराश्रयस्य गुणारेषादाकाशस्य साधनान् । शुभ्रमाकाशं श्यामलं चेदमिति प्रत्ययाच्चक्षुर्ग्राह्यमाकाशमिति चेन्न आलोक 'योराकाशत्वोपचारात् तथा प्रत्ययस्य भावान् तत्र घनद्रव्याभावेऽस्य तदुपचारहेतुत्वात् तयोरेवाकाइव्यत्वापगमे स्वमतविरोधात् न चान्यत्किंचित्सर्वगता मूर्तनित्यैकात्मकं द्रव्यं बायेंद्रियग्रास्वभावं दृष्टं येन व्यभिचारीदं साधनं स्यात् ततः पटवन्न तथा शब्दः । तदुक्तं For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रपरीक्षा। न च सर्वगतामूर्तनित्यैकात्मात्र युज्यते । वर्णो बायेंद्रियग्राह्यस्वभावत्वाद् घटादिवत् ॥१॥ इति वर्णव्यतिरिक्तं पदं वाक्यं वा स्फोटाख्यमित्यपि न संभवति ग्राहकाभावात् अर्थप्रतिपत्त्यन्यथानुपपत्तिग्राहिकेति चेन्न तस्यास्तत्त्वतः कथंचिद्वर्णात्मकपदवाक्यहेतुत्वोपपत्तेः परोपगतस्फोटस्यानभिव्यक्तस्यार्थप्रतिपत्तिहेतुत्वविरोधात्, वर्णैस्तदभिव्यक्तेरपि प्रत्येकमयोगात्, वर्णातरोच्चारणवैयर्थ्यात्, पौनःपुन्येन वाक्यार्थ बोधनानुषंगात् समुदितैरपि तदभिव्यक्तेरसंभवात्, वर्णानां समुदायाघटनात्, पूर्ववर्णश्रवणाहितसंस्कारस्य प्रतिपत्तुरंत्यवर्णश्रवणानंतरं तदभिव्यक्ती तथार्थप्रतिपत्तेरेव सिद्धेः स्फोटपरिकल्पना वैयर्थ्यात्, प्रतीत्यतिलंघनाच्च क्रमविशिष्टवर्णविशेषेभ्य एवार्थप्रततिसद्भावात् तेषामेव पदवाक्यरूपत्वोपपत्तेः । न चागममात्रात् पदवाक्यस्फोटप्रतिपत्तिस्तस्य प्रामाण्यसिद्धेः । न चान्यदृग्राहकमस्ति यतस्तद्व्यवस्था तत्वतः स्यात् तदुक्तं नर्ते वर्णात्पदं नाम नच वाक्यं पदादृते । स्फोटाख्यं ग्राहकाभावात् परेष्टस्यास्य तत्त्वतः ॥१॥ यस्य पुनः स्याद्वादिनः शब्दात्मकं बाह्यं वाक्यं पुद्गलरूपं चिदात्मकं चांतरंगमात्मस्वभावं प्रमाणासिद्धयति तस्य वाक्यं पत्रं भवेत् प्रोक्तलक्षणेनान्वितं, सिद्धे धामणि वाक्ये तद्धर्मस्योदितलक्षणस्य परीक्षाविषयत्वघटनात् । ननु चानेकांतवादिनोऽपि वाक्यस्य ग्राहकं किं प्रमाणं यतस्तत्सिद्धिरिति चेत् चिदात्मनोंऽतरंगस्य स्वसंवेदनप्रत्यक्षं तदात्मरूपत्वात वर्णपदवाक्यज्ञानपरिणतो ह्यात्मा भावतो वर्णः पदं वाक्यं च गीयते ततएवार्थप्रतिपत्तिघटनात् लिंगज्ञानात्मकभावलिंगालिंगिप्रतिपत्तिवत्, चक्षुरादिज्ञानाद्रूपादिप्रतिपत्तिवच्च, सर्वस्याचेतनस्यार्थप्रतिपत्तिहेतुविरोधात् अन्यत्रोपचारात् तत्कारणत्वात् तत्कार्यत्वाच्च तदुपचारसिद्धेः । तथा बाह्यस्येंद्रियप्रत्यक्षं ग्राहकं तत एव तत्पुद्गलात्मकं तदनात्मकस्यद्रियप्रत्यक्षग्राह्यत्वानुपपत्तेरिति विचारितमन्यत्र प्रपंचेन । तदुक्तं बाह्यं शब्दात्मकं वाक्यमंतरंगं चिदात्मकं । पुद्गलात्मस्वरूपं तु प्रमाणाद्यस्य सिद्ध्यति ॥ १॥ तत्र वाक्यं भवेन् पत्रं तत्त्वतो लक्षणान्वितं । सिद्ध धर्मिणि धर्मस्य परीक्षाविषयत्वतः ॥२॥ इति स्वाभ्युपगममात्रात् सर्वथैकांतवादिनां विद्यमानमपि वाक्यं धर्मिणः स्वेष्टार्थसाधनत्वधर्माधिकरणं स्वसाध्यार्थाविनाभाविलिंगस्य कस्यचिदपि अनुपपत्तेः तदभिधानात् सर्वस्य हेतोरसिद्धत्वाच्च । तदुच्यते वाक्यं सदपि नैकांतपक्षे स्वेष्टार्थसाधनं । स्वासाध्यार्थाविनाभावि लिंगस्यानुपपत्तितः ॥१॥ आसिद्धत्वाच्च सर्वस्य हेतोस्तदभिधानतः । क्वार्थसिद्धिस्तथाचोक्तं तत्त्वार्थश्लोकवार्तिके ॥२॥ तत्र स्वरूपतोऽसिद्धो वादिनः शून्यसाधने । सर्वो हेतुर्यथा ब्रह्मतत्त्वोपप्लवसाधने ॥ ३ ॥ सत्त्वादिः सर्वथा साध्ये शब्दभंगुरतादिके । स्याद्वादिनः कथंचित्तु सर्वथैकांतवादिनः ॥४॥ शब्दाविनश्वरत्वे तु साध्ये कृतकतादयः । हेतवोऽसिद्धतां यांति बौद्धादेः प्रतिवादिनः ॥५॥ जैनस्य सर्वथैकांते धूमवत्त्वादयोऽग्निषु । साध्येषु हेतवोऽसिद्धाः पर्वतादौ तथा मितः ॥ ६ ॥ शब्दादौ चाक्षुषत्वादिरुभयासिद्ध इष्यते । निश्शेषोऽपि तथाशून्यब्रह्माद्वैतप्रवादिनोः ॥७॥ वाद्यसिद्धोभयासिद्धौ तत्र साध्याप्रसाधनौ । समर्थनविहीनः स्यादसिद्धः प्रतिवादिनः ॥ ८॥ हेतुर्यस्याश्रयो न स्यादाश्रयासिद्ध एव सः । स्वसाध्येन विनाभावाभावादगमको मतः ॥९॥ प्रत्यक्षादेः प्रमाणत्वे संवादित्वादयो यथा । शून्योपप्लवशब्दाद्यद्वैतवादावलंबिनां ॥ १०॥ संदेहविषयः सर्वः संदिग्धासिद्ध उच्यते । यथागमप्रमाणत्वे रुद्रोक्तत्वादिरास्थितः ॥११॥ सन्नप्यज्ञायमानोऽत्राज्ञातासिद्धो विभाव्यते । सौगतादेर्यथा सर्वः सत्त्वादिः स्वेष्टसाधने ॥१२॥ न निर्विकल्पकाध्यक्षादस्ति हेतोविनिश्चयः । तत्पृष्ठजाद्विकल्पाच्चावस्तुगोचरतः क्वचित् ॥१३॥ अनुमानांतराद्धेतुनिश्चये वानवस्थितिः । परापरानुमानानां पूर्वपूर्वत्र वृत्तितः ॥ १४ ॥ ज्ञानं ज्ञानांतराध्यक्षं वेदतानेनदर्शितः । सर्वो हेतुरविज्ञातोऽनवस्थानाविशेषतः॥ १५॥ अर्थापत्तिपरिच्छेद्यं परोक्षज्ञानमादृताः । सर्वे ये तेप्यनेनोक्ता स्वाज्ञातासिद्धिहेतवः ॥१६॥ प्रत्यक्षं तु फलज्ञानमात्मानं वा स्वसंविदं । प्राहुर्ये करणज्ञानं व्यर्थं तेषां निवेदितं ॥१७॥ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सनातनजैनग्रंथमालायां १२ प्रधानपरिणामित्वादचेतनमितीरितं । ज्ञानं यैस्ते कथं न स्युरजातासिद्धहेतवः ॥ १८ ॥ प्रतिज्ञार्थंकदेशस्तु स्वरूपासिद्ध एव नः । शब्दो नाशी विनाशित्वादित्यादिः साध्यसंनिभः॥१९॥ यः साध्यविपरीतार्थाव्यभिचारी सुनिश्चितः । स विरुद्धोवबोद्धव्यस्तथैवेष्टविघातकृत् ॥२०॥ सत्वादिः क्षणिकत्वादौ यथा स्याद्वादिविद्विषां । अनेकांतात्मकत्वस्य नियमात्तेन साधनात् ॥२१॥ पारायं चक्षुरादीनां संघातत्वं प्रसाधयेत् । तेषां द्रव्यविवर्तत्वमेवमिष्टविघातकृत् ॥ २२ ॥ विरुद्धान्न च भिन्नोसौ स्वयमिष्टाद्विपर्यये । सामर्थ्यस्याविशेषेण भेदे वातिप्रसंगतः ॥ २३ ॥ विवादाध्यासितं धीमद्धेतुकं कृतकत्वतः । यथा शकटमित्यादिविरुद्धोऽनेन दर्शितः ॥२४॥ यथा हि बुद्धिमत्पूर्व जगदेतत्प्रसाधयेत् तथा बुद्धिमतो हेतोरनेकत्वं शरीरितां ॥ २५ ॥ स्वशरीरस्य कर्तात्मा नाशरीरोऽस्ति सर्वथा । कार्मणेन शरीरेणानादिसंबंधसिद्धितः ॥२६॥ यतः साध्ये शरीरित्वे धीमतो व्यभिचारितां । जगत्कर्तुः प्रपद्येत तेन हेतुः कुतार्किकः इति॥२७॥ यतश्चैवमक्षपादादेः सर्वथैकांतवादिनः साध्यार्थाविनाभाविलिंगं सर्वथा न संभवत्यसिद्ध तादिदोषदूषितत्वात् तस्मान तस्य पत्रं संभवदर्थक प्रतिष्ठापयितुं शक्यं कदाचिजैनान् प्रति तदुक्तं ततो नैवाक्षपादादेः पत्रं संभवदर्थकं । प्रतिष्ठापयितुं शक्यं जातु स्याद्वादिनः प्रति ॥ १ ॥ कुत इति चेत् तत्तत्वाधिगमोपायप्रकाशरहितत्वतः । इत्येतस्य प्रसिद्धत्वाद्धेतोरव्यभिचारतः॥१॥ कः पुनरसौ तत्त्वस्याधिगमो नामेति स्वार्थाकारविनिश्चयः सुनिर्वाध इति ब्रूमः निर्विकल्पकदर्शनस्यविनिश्चयस्य संशयस्येव तत्त्वाधिगमत्वानुपपत्तेः क्षणक्षयप्रदर्शनवत् स्वाकारमात्रविनिश्चयस्यापि तद्भावायोगात् वेद्याकारविनिश्चयविरहे स्वाकारविनिश्चयस्याननुभवात् स्वसंवेदनस्यापि वेद्यवेदकाकारात्मनः प्रतीतेः तथार्थाकारमात्रविनिश्चयस्यापि तत्त्वाधिगमत्त्वाघटनात् स्वाकारविनिश्चयमंतरेणार्थीकारविनिश्चयविरोधात् । स्वार्थाकारविनिश्चयस्यापि कालांतरादौ सबाधस्य तद्विरोधातू मरीचिकाविनिश्चये तोयविनिश्चयवत्, देशकालांतरापेक्षयापि सुष्ठु निर्बाधस्य तथाभावसिद्धेरिति प्रपंचितत्वादन्यत्र । तदुक्तं __ तत्त्वस्याधिगमस्तावत्स्वार्थाकारविनिश्चयः । सुनिर्बाधोन्यथा तस्य व्यवस्थानुपपत्तितः ॥१॥ तर्हि कस्तस्योपाय इति चेत् कथ्यते साकल्येन प्रमाणं देशतो नयः प्रतिपत्तुस्तत्त्वाधिगमोपायः प्रतीयत एव तस्य शास्त्रे विस्तरतः समर्थितत्वात् नचासौ सर्वथैकांतवादिनामक्षपादादीनामुपपत्तिमास्कंदति तेषां स्वेष्टस्य दृष्टेष्टबाधितत्वात् इतिचिंतितप्रायं प्रपंचतोऽन्यत्र परीक्षादक्षबुद्धिभिलक्षणीयं, त एव हि संक्षेपेणाप्युक्तं लक्षयितुं क्षमंते तदुक्तं तस्योपाय पुनः कार्येनैकदेशेन वा मतः । प्रतिपत्तुः प्रमाणं वा सन्नयो वा प्रतीयते ॥ १॥ न चासौ सर्वथैकांतवादिनामुपपद्यते । दृष्टेष्टवाधनात्तेषां स्वेष्टस्येत्यपि चिंतितं ॥२॥ लक्ष्यं प्रपंचतोन्यत्र परीक्षादक्षबुद्धिभिः । संक्षेपतोप्युपक्षिप्तं ते हि लक्षयितुं क्षमाः ॥ ३ ॥ कः पुनस्तत्त्वाधिगमोपायस्य प्रकाश इति चेत् प्रतिपाद्यं प्रति साधुशब्दैस्तस्य स्फुटं प्रदर्शनं प्रकाशः । न चाक्षपादादीनां सर्वथा तव्यवस्थास्ति प्रमाणवाक्यासंभवात् । तदप्यभाण प्रकाशस्तस्य सद्वाचा प्रतिपाद्यं प्रति स्फुटं । दर्शनं न चैतेषां तद्व्यवस्थास्ति सर्वथा ॥१॥ तदनेनैकांतवादिना पत्रवाक्यं, न संभवदर्थकं, तत्तत्त्वाधिगमोपायप्रकाशरहितत्वात् इत्यनुमानं समर्थित प्रतिपत्तव्यं तथा पत्रवाक्यं गूढमन्यच्चार्थगूढादि वादिना त्रिभिरभिहितं सप्तकृत्वो वा तथैकविंशति वा परिषत्प्रतिवादिभ्यामविज्ञाताथै यदा तदा तदेवाविज्ञातार्थ नाम निग्रहस्थानमायातं तल्लक्षणस्यान्वयात् तत एव चाप्रतिपत्तिनिग्रहस्थानं तत्त्वतो भवेदेतस्य यदा स्वपत्रवाक्यस्यार्थं व्याचष्टे वादिप्रतिवादिपरिषत्प्रत्यायनाय तदापि वक्तुर्विप्रतिपत्तिर्नाम निग्रहस्थानं तेन मिथ्यार्थप्रतिपादनात् तत्प्रतिपादितार्थस्य विसंवादित्वसिद्धरनेकांतेन बाधनात् स्याद्वादिभिः पश्चात्पत्रवाक्यस्यानेकांतार्थस्य साधने मिथ्यात्वप्रतीतिविप्रति For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रपरीक्षा। पत्तिरिति लक्षणस्य भावात् वाक्छलं वा संभवदर्थपरित्यागनासंभवतोऽर्थस्य परिकल्पनात् न हि प्रमाणबलान्नैयायिकादिपरिकल्पितः पत्रवाक्ये संभवन्नर्थः सिद्धः प्रत्यक्षादिबलादनेकांतस्यैव प्रसिद्धेः प्रत्यक्ष हि तावत् बहिरंतश्च तत्त्वं भावाभावात्मकं व्यवस्यति सर्वथा विरोधाभावात् बाधकरहितं जातुचित् एकांतस्यासाक्षात्करणात् तथाभूतानेकधर्माधिष्ठानं भावः विशेषणविशेष्यादिव्यवहारान्यथानुपपत्तोरित्यनुमानाच सर्व भावाभावात्मकं सिद्धं / आगमाच्च सुनिर्बाधकप्रमाणादिति प्रपंचतोन्यत्र तत्त्वार्थालंकारे देवागमे च प्रोक्तमिह पत्रपरीक्षायां सद्भिरवगतंव्यमित्यलं प्रपंचेन तदप्युक्तं / तथा त्रिःसप्तकृत्वोऽपि पत्रवाक्यमुदीरितं / वादिना गूढमन्यच्चाविज्ञातार्थमुपागतं // 1 // परिषत्प्रतिवादिभ्यामविज्ञातत्वसद्धितः / ततश्चाप्रतिपत्तिः स्यान्निग्रहस्थानमंजसा // 2 // वक्तुर्विप्रतिपत्तिर्वा मिथ्यार्थप्रतिपादनात् / विसंवादकतायोगात् तदुक्तार्थस्य तत्त्वतः // 3 / / स्याद्वादिभिः पुनः पत्रस्यानेकांतसाधने / भवद्विप्रतिपत्तिाक्छलं वा लक्षणान्वयात् // 4 // तद्धि संभवतोऽर्थस्य परित्यागेन कल्पनं / यदसंभवतोर्थस्य प्रमाणबलतश्छलं // 5 // न चेह संभवन्नर्थो यौगादिपरिकल्पितः / प्रत्यक्षादिबलासिद्धस्ततोनेकांतसिद्धितः // 6 // भावाभावात्मकं वस्तु बहिरंतश्च तत्वतः / प्रत्यक्षं निश्चिनोत्येव सर्वथा बाधवर्जितं // 7 // वास्तवानेकधर्माधिष्ठानं भावो विशेषतः / विशेषणविशेष्यादिव्यवहारप्रसिद्धितः // 8 // सिद्धमित्यनुमानाच्चानंतधर्मसमाश्रितं / समस्तं वस्तु निर्बाधादागमाच प्रमाणतः // 9 // इति प्रपंचतः प्रोक्तमन्यत्रेहावगम्यतां / सर्वं पत्रपरीक्षायां सद्भिरित्युपरम्यते // 10 // तदेवं पत्रविचारप्रकरणपरिसमाप्तौ विजिगीषोः स्याद्वादिनो वचनं चतुरंगं निराकृताशेषमिथ्याप्रवादप्रसरं श्रिया सम्यग्दर्शनादिलक्षणयोपायभूतयोपमेयानंतज्ञानादिलक्षणलक्ष्मीपर्यंततया सदा जयत्विति जयवादेनासंशयति-- जीयान्निरस्तनिश्शेषसर्वथैकांतशासनं / सदा श्रीवर्द्धमानस्य विद्यानंदस्य शासनं // 1 // सूक्ताभासो भवति भवतस्तावदुत्तारहेतुः स्वस्यान्येषां गुरुतमतमश्छिच्च माध्यस्थभाजां / तन्मत्वैवं विपुलमतिभिस्तत्र यत्नो विधेयो नानंदायाखिलखलधियां तं हि कः कर्तुमीशः // 2 // इति श्रीस्याद्वादपतिविद्यानंदस्वामिविरचिता पत्रपरीक्षा समाप्ता। - शुभंभूयात् For Private and Personal Use Only