________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रपरीक्षा। न च सर्वगतामूर्तनित्यैकात्मात्र युज्यते । वर्णो बायेंद्रियग्राह्यस्वभावत्वाद् घटादिवत् ॥१॥ इति वर्णव्यतिरिक्तं पदं वाक्यं वा स्फोटाख्यमित्यपि न संभवति ग्राहकाभावात् अर्थप्रतिपत्त्यन्यथानुपपत्तिग्राहिकेति चेन्न तस्यास्तत्त्वतः कथंचिद्वर्णात्मकपदवाक्यहेतुत्वोपपत्तेः परोपगतस्फोटस्यानभिव्यक्तस्यार्थप्रतिपत्तिहेतुत्वविरोधात्, वर्णैस्तदभिव्यक्तेरपि प्रत्येकमयोगात्, वर्णातरोच्चारणवैयर्थ्यात्, पौनःपुन्येन वाक्यार्थ बोधनानुषंगात् समुदितैरपि तदभिव्यक्तेरसंभवात्, वर्णानां समुदायाघटनात्, पूर्ववर्णश्रवणाहितसंस्कारस्य प्रतिपत्तुरंत्यवर्णश्रवणानंतरं तदभिव्यक्ती तथार्थप्रतिपत्तेरेव सिद्धेः स्फोटपरिकल्पना वैयर्थ्यात्, प्रतीत्यतिलंघनाच्च क्रमविशिष्टवर्णविशेषेभ्य एवार्थप्रततिसद्भावात् तेषामेव पदवाक्यरूपत्वोपपत्तेः । न चागममात्रात् पदवाक्यस्फोटप्रतिपत्तिस्तस्य प्रामाण्यसिद्धेः । न चान्यदृग्राहकमस्ति यतस्तद्व्यवस्था तत्वतः स्यात् तदुक्तं
नर्ते वर्णात्पदं नाम नच वाक्यं पदादृते । स्फोटाख्यं ग्राहकाभावात् परेष्टस्यास्य तत्त्वतः ॥१॥ यस्य पुनः स्याद्वादिनः शब्दात्मकं बाह्यं वाक्यं पुद्गलरूपं चिदात्मकं चांतरंगमात्मस्वभावं प्रमाणासिद्धयति तस्य वाक्यं पत्रं भवेत् प्रोक्तलक्षणेनान्वितं, सिद्धे धामणि वाक्ये तद्धर्मस्योदितलक्षणस्य परीक्षाविषयत्वघटनात् । ननु चानेकांतवादिनोऽपि वाक्यस्य ग्राहकं किं प्रमाणं यतस्तत्सिद्धिरिति चेत् चिदात्मनोंऽतरंगस्य स्वसंवेदनप्रत्यक्षं तदात्मरूपत्वात वर्णपदवाक्यज्ञानपरिणतो ह्यात्मा भावतो वर्णः पदं वाक्यं च गीयते ततएवार्थप्रतिपत्तिघटनात् लिंगज्ञानात्मकभावलिंगालिंगिप्रतिपत्तिवत्, चक्षुरादिज्ञानाद्रूपादिप्रतिपत्तिवच्च, सर्वस्याचेतनस्यार्थप्रतिपत्तिहेतुविरोधात् अन्यत्रोपचारात् तत्कारणत्वात् तत्कार्यत्वाच्च तदुपचारसिद्धेः । तथा बाह्यस्येंद्रियप्रत्यक्षं ग्राहकं तत एव तत्पुद्गलात्मकं तदनात्मकस्यद्रियप्रत्यक्षग्राह्यत्वानुपपत्तेरिति विचारितमन्यत्र प्रपंचेन । तदुक्तं
बाह्यं शब्दात्मकं वाक्यमंतरंगं चिदात्मकं । पुद्गलात्मस्वरूपं तु प्रमाणाद्यस्य सिद्ध्यति ॥ १॥
तत्र वाक्यं भवेन् पत्रं तत्त्वतो लक्षणान्वितं । सिद्ध धर्मिणि धर्मस्य परीक्षाविषयत्वतः ॥२॥ इति स्वाभ्युपगममात्रात् सर्वथैकांतवादिनां विद्यमानमपि वाक्यं धर्मिणः स्वेष्टार्थसाधनत्वधर्माधिकरणं स्वसाध्यार्थाविनाभाविलिंगस्य कस्यचिदपि अनुपपत्तेः तदभिधानात् सर्वस्य हेतोरसिद्धत्वाच्च । तदुच्यते
वाक्यं सदपि नैकांतपक्षे स्वेष्टार्थसाधनं । स्वासाध्यार्थाविनाभावि लिंगस्यानुपपत्तितः ॥१॥ आसिद्धत्वाच्च सर्वस्य हेतोस्तदभिधानतः । क्वार्थसिद्धिस्तथाचोक्तं तत्त्वार्थश्लोकवार्तिके ॥२॥ तत्र स्वरूपतोऽसिद्धो वादिनः शून्यसाधने । सर्वो हेतुर्यथा ब्रह्मतत्त्वोपप्लवसाधने ॥ ३ ॥ सत्त्वादिः सर्वथा साध्ये शब्दभंगुरतादिके । स्याद्वादिनः कथंचित्तु सर्वथैकांतवादिनः ॥४॥ शब्दाविनश्वरत्वे तु साध्ये कृतकतादयः । हेतवोऽसिद्धतां यांति बौद्धादेः प्रतिवादिनः ॥५॥ जैनस्य सर्वथैकांते धूमवत्त्वादयोऽग्निषु । साध्येषु हेतवोऽसिद्धाः पर्वतादौ तथा मितः ॥ ६ ॥ शब्दादौ चाक्षुषत्वादिरुभयासिद्ध इष्यते । निश्शेषोऽपि तथाशून्यब्रह्माद्वैतप्रवादिनोः ॥७॥ वाद्यसिद्धोभयासिद्धौ तत्र साध्याप्रसाधनौ । समर्थनविहीनः स्यादसिद्धः प्रतिवादिनः ॥ ८॥ हेतुर्यस्याश्रयो न स्यादाश्रयासिद्ध एव सः । स्वसाध्येन विनाभावाभावादगमको मतः ॥९॥ प्रत्यक्षादेः प्रमाणत्वे संवादित्वादयो यथा । शून्योपप्लवशब्दाद्यद्वैतवादावलंबिनां ॥ १०॥ संदेहविषयः सर्वः संदिग्धासिद्ध उच्यते । यथागमप्रमाणत्वे रुद्रोक्तत्वादिरास्थितः ॥११॥ सन्नप्यज्ञायमानोऽत्राज्ञातासिद्धो विभाव्यते । सौगतादेर्यथा सर्वः सत्त्वादिः स्वेष्टसाधने ॥१२॥ न निर्विकल्पकाध्यक्षादस्ति हेतोविनिश्चयः । तत्पृष्ठजाद्विकल्पाच्चावस्तुगोचरतः क्वचित् ॥१३॥ अनुमानांतराद्धेतुनिश्चये वानवस्थितिः । परापरानुमानानां पूर्वपूर्वत्र वृत्तितः ॥ १४ ॥ ज्ञानं ज्ञानांतराध्यक्षं वेदतानेनदर्शितः । सर्वो हेतुरविज्ञातोऽनवस्थानाविशेषतः॥ १५॥ अर्थापत्तिपरिच्छेद्यं परोक्षज्ञानमादृताः । सर्वे ये तेप्यनेनोक्ता स्वाज्ञातासिद्धिहेतवः ॥१६॥ प्रत्यक्षं तु फलज्ञानमात्मानं वा स्वसंविदं । प्राहुर्ये करणज्ञानं व्यर्थं तेषां निवेदितं ॥१७॥
For Private and Personal Use Only