________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सनातनजैनग्रंथमालायांमुख्य शब्दात्मक वाक्यं लिप्यामारोप्यते जनैः । पत्रस्थत्वात्तु तत्पत्रमुपचारोपचारतः ॥ १॥ . अथवा प्रकृतवाक्यस्य मुख्यत एव पत्रव्यपदेश इति निगेंदामः पदानि त्रायंते गोप्यंते रक्ष्यंते परेभ्यः प्रतिवादिभ्यः स्वयं विजिगीषुणा यस्मिन् वाक्ये तत्पत्रमिति पत्रशब्दस्य निर्वचनसिद्धेः । तथा. लोके व्यवहतरि शास्त्रे च गुरुपर्वक्रमायाते प्रतीतेः न च पदानि विनिश्चितपदस्वरूपतदभिधेयतत्त्वेभ्यः परेभ्यस्त्रातुमशक्यान्येव कुतश्चिद्वर्णविपर्यासनादेः प्रकृतिप्रत्ययादिगोपनाद्वा तत्राणसंभवात् पदगूढादिकाव्यवत्तदुक्तं
त्रायंते वा पदान्यस्मिन्परेभ्यो विजिगीषुणा । कुतश्चिदिति पत्रं स्यालोके शास्त्रे च रूढितः॥२॥ न चैवमसाधुपदास्पदमपि वाक्यं पत्रमासज्यते सुस्पष्टपदमेव वा साधुगूढपदप्रायमिति वचनात्तदुक्तं
नचासाधुपदं वाक्यं प्रस्पष्टपदमेव वा । साधुगूढपदप्रायमिति तस्य विशेषणात् ॥ ३॥ पदपादादिगूढकाव्यमेवं पत्रं प्रामोति इति चेन्न प्रसिद्धावयवत्वेन विशिष्टस्य पत्रत्ववचनात् न हि पदगूढादिकाव्यं प्रमाणसिद्धप्रतिज्ञाद्यवयवविशेषणतया किंचित्प्रसिद्धं तस्य तथा प्रसिद्धौ पत्रव्यपदेशसिद्धेरवाधितत्वात्तदुक्तं
पदगूढादिकाव्यं च नैवं पत्रं प्रसज्यते । प्रसिद्धावयवत्वेन विशिष्टस्याभिधानतः ।। चयमिष्टस्यार्थस्यासाधकमपि ताग्विाक्यं पत्रमेवमासक्तमिति चेन्न स्वेष्टार्थसाधनस्यैवेह पत्रविचारे पत्रत्ववचनात् तदप्यभिहितं
___ स्वेष्ठार्थासाधनस्यापि नैवं पत्रत्वमापतेत् । स्वेष्टार्थसाधनस्यैव पत्रत्ववचनादिह ॥
ततो नाक्षपादादीनामेकांतवादिनां पत्रवाक्यमसंभवदर्थकं इति केचित्तदसत् यथोक्तलक्षणस्य, पत्रवाक्यस्य तेषां विचार्यमाणस्याव्यवस्थितेः ताँहि-नाक्षपादस्य तावद्यथोक्तलक्षणं पत्रवाक्यं संभवति प्रसिद्धावयवत्वस्य विरहात्सुगतादीनामिव । तदवयवाहि प्रतिज्ञादयः पंचाक्षपादेनाभिधीयते प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति सत्रप्रणयनात । तत्रागमः प्रतिज्ञा विश्वतश्चक्षरिति विश्वतो मेखो विश्वतो बाहरिति विश्वतः पात संबाईभ्यां धमति संपतत्रैवाभमी जनयन देवएक इति यथा. आगमार्थो वा प्रतिज्ञा विवादाध्याँसितमुपलब्धिमत्कारणकमिति । यथा हेतुरनुमानं तेन प्रतिज्ञातार्थस्यानुमीयमानत्वात् कार्यत्वादिति। यथा उदाहरणं प्रत्यक्षं वादिप्रतिवादिनोर्यत्र बुद्धिसाम्यं तदुदाहरणमिति वचनात् वस्त्रादिवदिति यथा उपनयमुपमानं दृष्टांतः धर्मिसाध्यधर्मिणोः सादृश्यात्, “प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमिति" वचनात् यत्कार्य तदुपलब्धिमत्कारणकं दृष्टं यथा वस्त्रादि तथा च विवादाध्यासितमिति । यथा सर्वेषामेकविषयत्वप्रदर्शनफलं निगमनं तस्मादुपलब्धिमत्कारणकमिति यथा आगमानुमानप्रत्यक्षोपमानवत् फलसमुदायरूपत्वात्पंचानामवयवानामिति व्याख्यानात्। न चैते पंचावयवाः प्रमाणतो विचार्यमाणा विपश्चिच्चेतसि सुनिश्चिताश्चकासति, पत्रवाक्याभासेऽपि संभवात् तेषां पक्षधर्मत्वसपक्षेसत्वविपक्षासत्वमात्राणामिव त्रयाणामवयवानां सुगतसंमतानां वीतादीनामिव कपिलविकल्पितानां तदभावेऽपि पत्रवाक्यस्य स्वार्थसाधनस्य दर्शनात् साध्याविनाभावनियमनिश्चयलक्षणादेव हेतोः साध्यप्रसिद्धेः तदुक्तं
न चैवं लक्षणं पत्रमक्षपादस्य युज्यते । प्रसिद्धावयवत्वस्य विरहात्सुगतादिवत् ॥१॥ पत्रस्यावयवाः पंच प्रतिज्ञादय इत्यसत् । पत्राभासेऽपि सद्भावात्तेषां त्रैरूपमात्रवत् ॥२॥ तदभावेऽपि पत्रस्य स्वार्थसाधनतेक्षणात् । हेतोः साध्याविनाभावनियमात्मकतो यथा ॥३॥
सत्सत्सदितिसंक्षेपात्साध्यसाधनदर्शनं । व्याप्त्याः सामर्थ्यतः सर्वनामाभावेऽपि निश्चितं ॥४॥ ननु च यत्कृतकं तदनित्यं दृष्टं यथा घट इत्यादौ सति सर्वनामप्रयोगे व्याप्या साध्यसाधनवचन१ पदसमुदायात्मकं। २ वयं जैना: । ३ परंपरा । ४ वाक्यस्य । ५ पत्रत्वाभिधानात् । ६ वादिप्रतिवादिभ्यां । ७ प्रसिद्धावयवं साधुगूढपदप्रायं च । ८ अभ्यधायि । ९ न प्राप्नोति । १. तदेव विवृणोति । ११ धर्मधर्मिसमुदायःप्रतिज्ञा । १२ सर्वदर्शित्वात् । १३ सकलशास्त्रप्रणेतृत्वात् । १४ सर्वकर्तृत्वात् । १५ सर्वगतत्वात् । १६ पुण्यपापाभ्यां । १७ परमाणुभिः । १८ क्षित्यादिकं । १९ बुद्धिमत्कारणकं । २० प्रतिज्ञ द्यवयवानां । २१ कार्यत्वात् । २२ पूर्वोत्क सूत्रव्याख्यानात् ।
For Private and Personal Use Only