________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपरमात्मने नमः । सनातनजैनग्रंथमाला।
स्याद्वादविद्यापतिश्रीविद्यानंदस्वामिविरचिता पत्रपरीक्षा
cion
श्रीवर्द्धमानमानुत्य स्याद्वादन्यायनायकं ।
प्रबुद्धाशेषतत्त्वार्थ पत्रवाक्यं विचार्यते ॥ १॥ कस्मात्पुनः श्रीवर्द्धमानमर्हतं भगवं तं स्याद्वादन्यायनायकं प्रकर्षेण साक्षाबुद्धाशेषद्रव्यपर्यायात्मजीवादिपदार्थमेवानुत्य पत्रवाक्यमाचार्यपरंपरया विचरत् विचार्यते। नन्वक्षपादाद्येकांतवादिनामन्यतममित्यत्रोच्यते।
नैकांतवादिनां पत्रवाक्यं संभवदर्थकं । तत्तत्त्वाधिगमापायप्रकाशहितत्वतः ॥ १॥
यत्तु संभवदर्थात्मा न तत्तादृक्षमीक्षितं । यथा स्याद्वादभृद्वाक्यं तदृक्केदं न तत्त● ॥ २ ॥ नन्वक्षपादादीनां पत्रवाक्यं तावन्नेत्ययुक्तं तस्य प्रसिद्धावयवत्वेन प्रसिद्धत्वात् देवदत्तादिवाक्यवत् 'नापि तदसंभवदर्थकं स्वेष्टस्यार्थस्य साधकत्वात् । न चाऽसाधुगूढपदप्रायमपि पत्रमासज्यते साधुगूढपदप्रायस्यैव निराकुलस्य तस्य तैरावेदितत्वात् । तदुच्यते
प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकं । साधुगूढपदप्रायं पत्रमाहुरनाकुलं ॥ १॥ कथं पुनः प्रसिद्धावयवत्वादिविशेषणविशिष्टं वाक्यं पत्रं नाम तस्य श्रुतिपथसमधिगम्यपदसमुदायविशेषरूपत्वात् पत्रस्य तद्विपरीताकारत्वात् न च यद्यतोऽन्यत्तत्तेन व्यपदिश्यतेऽतिप्रसंगात् नीलादयोपि हि कंबलादिभ्योऽन्ये न ते नीलादिव्यपदेशहेतवः तेषां तैद्यपदेशहेतुतया प्रतीयमानत्वात् किरीटादीनां पृरुषे तव्यपदेशहेतुत्ववत् तद्योगात्तत्र मत्वर्थीयविधानात् । नलिादयः संति येषां ते नीलादयः कंबलादय इति गुणवचनेभ्यो मत्वर्थीयस्याभावप्रसिद्धेरितचेत् उपचरितोपचारादिति क्रमः । श्रोत्रपथप्रस्थायिनो हि शब्दात्मकस्य पदसमुदायविशेषरूपस्य लिप्यापचारः तत्र तस्य जनैरारोप्यमाणत्वात् लिप्युपचरितवाक्यस्यापि पत्रे समुपचर्यमाणत्वात् तत्र लिखितस्य पत्रस्थत्वात् तदुपचरितोपचारात् पत्रव्यपदेशसिद्धेः न च यद्यतो ऽन्यत्तत्तेनोपचारादुपचारोपचारात् वा व्यपदेष्टुमशक्यं शक्रार्दैन्यत्र व्यवहर्तृजने शक्राभिप्राये स्फुटमुपचारदर्शनात् ततोऽन्यत्रापि कॉष्टादावुपचारोपचारात् शक्रव्यपदेशसिद्धेः तदुक्तं
स्वाभाविकमेव । र आगच्छत् । ३ तेषां । ४ जीवादितत्त्व-। ५ स्वार्थनिश्चयस्य । ६ प्रमाणनयप्रदर्शकवाक्यं । ७ तस्मात् । ८ संभवदर्थात्मैव । ९ आदिशब्देन गामानय शुक्लां दंडेनेत्यादिप्रहणं । १० दोषै रहितं । ११ कर्ण । १२ नीलः कंबल इत्यत्र कंबलोह्यनेन नीलेन व्यपदिश्यते इत्यत आह । १३ तेषु कंबलादिषु नीलादिव्यपदेशहेतवो न भवंतीत्यर्थः । १४ लिपिरेव वाक्यमिति । १५ वाक्यस्य । १६ भिन्ने । १७ पंडितादौ । १८ आदिशब्देन पाषाणादिग्रहणं ।
For Private and Personal Use Only