Book Title: Patra Pariksha
Author(s): Vidyanand Swami
Publisher: Sanatan Jain Granthmala

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सनातन जैन ग्रंथमालायां १० चित्राद्यदंतराणीय मारेकांतात्मकत्वतः । यदित्थं न तदित्थं न यथा किंचिदिति त्रयः ॥ १ ॥ तथाचेदमिति प्रोक्ताश्चत्वारोऽवयवा मताः । तस्मात्तथेति निर्देशे पंच पत्रस्य कस्यचित् ॥२॥ षडादयोऽपि चैवं स्युर्नियमस्याव्यवस्थितेः । साधर्म्येतरदृष्टांताभिधाने च यथा कचित् ॥३॥ चित्रमेकानेकरूपं तदततीतिचित्रात् एकानेकरूपव्याप्यने कातात्मकमित्यर्थः सर्वविश्वयदित्यादि सर्वनामपाठापेक्षया यदंतो विश्वशब्दः । यदंतोस्येति यदंत इतिवृत्तेः, यदंतेन राणीयं शब्दनीयं विश्वमित्यर्थः तदनेनानेकांतात्मकं विश्वमिति पक्षनिर्देशः कृतः, आरेका संशयः सांतोस्येत्यारेकांतः प्रमेयः प्रमाणप्रमेयसंशयेत्यादिपाठापेक्षया स आत्मा स्वभावो यस्य तदारेकांतात्मकं तस्य भावस्तत्त्वं तस्मादिति साधनधर्मनिर्देशः यदित्थं न भवति यच्चित्रान्न भवति तदित्थं न भवति आरेकांतात्मकं न भवति यथा किंचिन्न किंचित् यथाचाकिंचित् सर्वथैकांतात्मकं तत्त्वं पराभ्युपगतमिति त्रयोऽवयवाः पत्रे प्रयुज्यंते तथा चेदं प्रमेयात्मकं चेदं विश्वमिति पक्षधर्मोपसंहारवचने चत्वरोवयवाः प्रयोगेऽमी दृष्टाः तस्मात्तथानेकांतव्यापीति निर्देशे पंचावयवाः । पत्रवाक्यस्य कस्यचित् षडादयोपि चैवं प्रतिपाद्याः प्रतिपाद्याशयवशात् स्युः तेषामियत्तया चावधारणस्याभावात् तन्न साधर्म्यदृष्टांतस्य वैधर्म्यदृष्टांतस्य च गम्यमानस्यापि वचने षडवयवाः स्युः । यथानित्यः शब्दः कृतकत्वात् यत्कृतकं तदनित्यं दृष्टं यथा घटः यत्पुनर्नित्यं तदकृतकं दृष्टं यथाकाशं कृतकश्च शब्दः तस्मादनित्य इति अत्रैव साधर्म्यापनये वैधर्म्यापनये च कृतकः शब्दः, अकृतकस्तु न भवतीति प्रयुज्यमाने सप्तावयवाः स्युः तस्मादनित्यो नित्यस्तु न भवति इति निगमनवचनेऽष्टौ, अनित्यः शब्दो न तु नित्य:, इति प्रतिज्ञाद्वयवचने नवावयवाः स्युः कृतकत्वादकृतकत्वाभावादिति हेतुप्रयोगे दशापि श्रूयते गम्यमानावयवप्रयोगे पुनरुक्तदोषाभावात्, प्रतिज्ञाद्यवयवप्रयोगवत् पक्षधर्मोपसंहारवद्वा दुराशंकाव्यवच्छेदस्य फलस्य सद्भावाविशेषात्, सर्वत्र निष्फलत्वायोगात्, तथाविधप्रतिपाद्याशयविशेषसंभवाच्च, यतश्चैवं तस्मात्साध्याविनाभूतस्य साधनस्योपदर्शनं प्रमाणसिद्धं तदभावे साध्यप्रसिद्धेः, पंचावयवाद्युपदर्शनं तु . परेषां न प्रमाणसिद्धं बोध्यानुरोधमात्रादेतदुपदर्शनात् एवं च नैकांतवादिनां प्रसिद्धावयवं वाक्यं संभवति यत् पत्राख्यां लभेत तदुक्तं घटादि नुमेयत्वा देरनुपपत्तेः Acharya Shri Kailassagarsuri Gyanmandir ततः साध्याविनाभूतसाधनस्योपदर्शनं । प्रमाणासिद्धमेतस्याभावे साध्याप्रसिद्धितः ॥ १ ॥ बोध्यानुरोधमात्रात्तु शेषावयवदर्शनात् । परेषां न प्रमाणेन प्रसिद्धावयवं वच इति ॥ २ ॥ किंच यन्मते वर्णा अपि न व्यवतिष्ठते पदान्यपि च तस्य वाक्यं कुतः प्रमाणात् सिद्ध्येत् यत् पत्रलक्षणेन यथोक्तेन समन्वितं स्यात् । ननु यौगानां वर्णादयो व्यवतिष्ठत एव आकाशगुणत्वेन शब्दानामभ्युपगमात् तद्बाधकाभावादिति न संभाव्यं तथा बाधकसद्भावात् किं तावद्वाधक इति चेदुच्यते नाकाशगुणः शब्दः बायेंद्रियज्ञानज्ञानविषयत्वात् य एवं सएवं यथा स्पर्श तथा च शब्दस्तस्मान्नाकाशगुणः शब्दः इति नान्यथानुपपत्तिशून्यं साधनं । गगनगुणत्वे शब्दस्य तदनुपपत्तेः परममहत्वादिवत् । घटाकाशसंयोगादिना व्यभिचारीदं साधनमिति चेन्न बाचेंद्रियज्ञानविषयत्वासिद्धेः अतींद्रिययोरिवातीं``येंद्रियकयोरपि संयोगस्य विभागादेश्च वा तदघटनात्, अन्यथातिप्रसंगात् तदुक्तं वर्णा न व्यवतिष्ठते पदान्यपि च यन्मते । तस्य वाक्यं कुतः सिद्ध्येत् यत्पत्रं लक्षणान्वितं ॥ १ ॥ न शब्दः खगुणो बाह्यकरणज्ञानगत्वतः । स्पर्शवत् खगुणस्यैवं प्रमाणव्याहतत्वतः ॥ २॥ इति च मीमांसकस्यापि सर्वगतामूर्तद्रव्य नित्यैकात्मको वर्णो युज्यते तस्य बाह्येन्द्रियग्राह्यस्वभावत्वात् नाकाशेन हेतोर्व्यभिचारः तस्य बाह्मेद्रियाग्राह्यस्वभावत्वात् कालादिवत् शुषिरस्याप्याकाशस्यामूर्तद्रव्यस्याभावे कस्यचिदमूर्तद्रव्यस्य सिद्धेः तुच्छस्याभावस्याघटनात् निराश्रयस्य गुणारेषादाकाशस्य साधनान् । शुभ्रमाकाशं श्यामलं चेदमिति प्रत्ययाच्चक्षुर्ग्राह्यमाकाशमिति चेन्न आलोक 'योराकाशत्वोपचारात् तथा प्रत्ययस्य भावान् तत्र घनद्रव्याभावेऽस्य तदुपचारहेतुत्वात् तयोरेवाकाइव्यत्वापगमे स्वमतविरोधात् न चान्यत्किंचित्सर्वगता मूर्तनित्यैकात्मकं द्रव्यं बायेंद्रियग्रास्वभावं दृष्टं येन व्यभिचारीदं साधनं स्यात् ततः पटवन्न तथा शब्दः । तदुक्तं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13