Book Title: Patra Pariksha Author(s): Vidyanand Swami Publisher: Sanatan Jain Granthmala View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रपरीक्षा। इति स एवमप्युपालंभो वस्तुनि न भवत्येव स्वमिथ्याविकल्पयोरेव तत्संभवात् वस्तुनो द्रव्यपर्यायामनोर्जात्यंतरस्य तदंशयोर्द्रव्यपर्याययोः कथंचिद्भेदाभेदात्मनोः प्रतीतिसिद्धत्वात् नच तथा प्रतीतिः मिथ्या, बाधकस्य तद्विपरीतग्राहिणः प्रमाणस्य कस्यचिदप्यसंमनन् तत्रानवस्थादेरनवतारात् तथा हि द्रव्यपर्याययोर्यमात्मानं द्रव्यस्वभावमाश्रित्याभेदः स्याद्वादिनां संम एवाभेदो न पुनरन्योत्रायं पर्यायमात्मानमाश्रित्य तयों/दो व्यवह्रियते सएव पर्यायात्मा भेदः ततोनाप पाहुरनेकांतवादिनः ततो नैवाभेदैकांतः प्रसज्यते भेदैकांतो वा तथाभ्यधायि इत्येवमप्युपालंभो न संभव स्तुनि तथा प्रतीतिसिद्धत्वाद्वाधकस्याप्यसंभवात् । द्रव्यपर्यायोश्चात्र भेदः स्याद्वादिनां मतः । त्मानं यमाश्रित्य स एवाभेद इत्यपिं ॥१॥ पर्यायात्मानमाश्रित्य पंचभेदः प्रकीर्यते। व भेद इत्याहुस्तत्तदेकांतता कुतः ॥२॥ इति तत एव च प्रतीतिसिद्धत्वाद्बाधकाभावादा तोष्णस्पर्शवत् द्रव्यपर्यायोर्विरोधो ध्वस्तः स्यात् तद्वद्वैयधिकरण्यं च ध्वस्तं स्यात् तत एवानवस्था वर यात् द्रव्यरूपेणाभेदस्यैव पर्यायरूपेण भेदस्यैवोभयस्वभावे वस्तुनि व्यवस्थितत्वात् सुनयार्पितैकांतावध त्यापि अनेकांताप्रतिघातत्वात् । ननु च प्रमाणार्पणादनेकांतएव नयार्यणाच्चैकांतएवेत्यप्येकांतएव प्र... इति चेन्न तस्याप्यपरनयप्रमाणविषयतायामेकातात्मकत्वात् अव्यवस्थितानेकांतोपगमात् आकांक्षाक्षर । व्यवस्थानसिद्धरनवस्थादोषाभावात् । संकरश्चध्वस्तः स्यात् तयोर्युगपत्प्राप्त्यभावात् । व्यतिरेकश्च पर विषयगमनाभावात् । प्रतिनियतस्वरूपत्वात्संशीतिरपि ध्वस्ता । तथानयोर्नयप्रमाणाभ्यां सुनिश्चितत्वात् तथैवाप्रतिपत्तिरभावश्च ध्वस्तः स्यात् यौगाभिमतसामान्यविशेषबत् चित्राद्वैतवादिनश्चित्रवेदनवत् , सांख्यस्य सत्वरजस्तमोमयैकप्रधानवत् चित्रपटवच्चापरेषां नैकस्यानेकत्वं विरोधं भजते नापि वैयधिकरण्यादिदोषमिति प्रतिपत्तव्यं । तदुक्तं तत एव विरोधोऽत्र विभिन्नाश्रयतापि वा । अनवस्थाद्यपि ध्वस्तं स्यात्सामान्यविरोधवत् ॥१॥ चित्रवेदनवच्चापि सत्वाद्यात्मप्रधानवत् । चित्रवस्त्रवदेकस्यानेकत्वं न विरोधभाक् ।। २ इति एवं च न सत्सत्त्वलक्षणं प्रमेयत्वं नित्यैकांतादिषु क्वचिदपि सर्वथैकांते संभवति प्रमाणेनेव नयैरपि जात्यंतरस्यानेकांतात्मनो वस्तुनः प्रवेदनात् । नित्यत्वाद्यकांतप्रवेदने तत्प्रतिपक्षाऽनित्यत्वादिधर्माणामनिराकरणान् तत्र तेषामपि गुणीभूतानां सद्भावात् एतावतैव विपक्षे व्यावृत्तिनिश्चयेन हेतोः प्रकृतस्यान्यथानुपपन्नताप्रधानलक्षणभूता सिद्धा । ततो युक्तं साध्यसाधनवचनं संक्षेपतः पत्रवाक्ये केवलस्य हेतोरति संक्षेपतो प्रयोगाप्रयोगात् , सर्वथाविचारासहत्वात्, साध्यनिर्देशसहितस्यैव हेतोः प्रयोगार्हत्वसमर्थनात् , तदुक्तं तथा च न प्रमेयत्वं ध्रौव्यैकांतादिषु कचित् । नयैरपि गुणीभूतानेकांतस्य प्रवेदनात् ॥ सिद्धा चैतावता हेतोरन्यथानुपपन्नता । प्रधानलक्षणं युक्ता साध्यसाधनवाक् ततः ॥ इति विशेषाश्रयणात्कस्य कस्यावयवस्य वचनं पत्रे प्रयोगयोग्यमिति उदाहियते । साध्यधर्मविशिष्टस्य धर्मिणः साधनस्य च । वचः प्रयुज्यते पत्रे विशेषाश्रयतो यथा ॥ स्वांतभासितभूत्याद्ययंतात्मतदुभांतभाक् । परांतद्योतितोद्दीप्तमितीतः स्वात्मकत्वतः ॥ इति अंत एव ह्यांतः स्वार्थिकेऽणि भवति वानप्रस्थादिवत् प्रादिपाठायेक्षया सोरांतः स्वांतः-उत् तेन भासिता द्योतिता भूतिरुद्भूतिरित्यर्थः सा आद्या येषां ते स्वांतभासितभूत्याद्यास्तेच ते अंताश्च ते उद्रूतिविनाशध्रौव्यधर्मा इत्यर्थः, त एवात्मानः तान् तनोति इति स्वांतभासितभूत्याद्ययंतात्मतदिति साध्यधर्मः उभाता वाकू यस्य तदुभांतभाक् विश्वमिति धर्मो तस्य साध्यधर्मविशिष्टस्य निर्देशः उत्पादादित्रिस्वभावव्यापि सर्वमिति यावत् । परांतो यस्येति परांतः प्रःसएव द्योतितं द्योतनमुपसर्ग इत्यर्थः तेनोद्दीप्ता सा चासौ मितिश्च तामितः स्वात्मा यस्य तत्परांतायेतितोद्दीप्तमितीः तत्स्वात्मकं प्रमितिः प्राप्तस्वरूपमिति यावत् तस्य भावस्तत्त्वं प्रमेयत्वं तस्मात्ततः प्रमेयत्वात् इत्यर्थः प्रमाणविषयस्य प्रमेयत्वादिति एतस्य साधनस्य चान्यथानुपपन्नत्वनियमनिश्चयलक्षणस्योक्तन्यायेन समर्पितस्य वचनं यत्रेति विशेषाश्रयेण प्रयुज्यते, दृष्टांतोपदर्शनाभावेऽपि हेतोर्गमकत्वसमर्थनात् । तथा त्रयश्चत्वारः पंच षडादयो वा पत्रवाक्येऽवयवाःस्युः नियमस्याव्यवस्थानादित्येतदभिधीयते । For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13