Book Title: Parshwanath Sahasranam Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ मई २०११ तव स्तोत्रेण कुर्वे स्वां जिह्वां दोषशताकुलाम् । पूतामिदं भवारण्ये जन्तूनां जन्मनः फलम् ॥८॥ वरदाय नमस्तुभ्यं नमः क्षीणाष्टकर्मणे । सारदाय नमस्तुभ्यं नमोऽभीष्टार्थदायिने ॥९॥ शङ्कराय नमस्तुभ्यं नमो यथार्थदर्शिने । विपद्धर्त्रे नमस्तुभ्यं नमो विश्वार्त्तिहारिणे ॥१०॥ धर्ममूर्ते नमस्तुभ्यं जगदानन्ददायिने । जगद्भर्त्रे नमस्तेऽपि नमः सकलदर्शिने ॥११॥ सर्वज्ञाय नमस्तुभ्यं नमो बन्धुरतेजसे । श्रीकराय नमस्तुभ्य-मनन्तज्ञानिने नमः ॥१२॥ नाथ ! त्वच्चरणाम्भोजसेवारसिकतत्पराः । विलसन्ति श्रियं भव्याः सदोदया महीतले ॥१३॥ इन्द्रा अपि गुणान् वक्तुं पारं यस्य ययुर्नहि । असंख्येयाननल्पांश्च, क्षमस्तर्हि कथं नरः ? ॥ १४ ॥ तथापि ज्ञानमुग्धोऽहं भक्तिप्रेरितमानसः । नाम्नामष्टसहस्रेण त्वां स्तुवे सौख्यदायकम् ॥१५॥ इति श्रीपार्श्वनाथनामावल्यां स्तुतिप्रस्तावना ॥ अर्हन् क्षमाधरः स्वामी क्षान्तिमान् क्षान्तिरक्षकः । अरिञ्जयः क्षमाधारः शुभंयुरचलस्थितिः ॥१॥ लाभकर्ता भयत्राता च्छद्मापेतो जिनोत्तमः । लक्ष्मणो निश्चलोऽजन्मा देवेन्द्रो देवसेवितः ॥२॥ धर्मनाथो मनोज्ञाङ्गो धर्मिष्टो धर्मदेशकः । धर्मराजः परातज्ञो धर्मज्ञो धर्मतीर्थकृत् ॥३॥ सद्धैर्याल्पितहंसाद्रि-स्तत्रभवान् नरोत्तमः । धार्मिको धर्मधौरेयो धृतिमान् धर्मनायकः ॥४॥ धर्मपालः क्षमासद्मा(द्म) धर्मसारथिरीश्वरः । धर्माध्यक्षो नराधीशो धर्मात्मा धर्मदायकः ॥५॥ २५

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13