Book Title: Parshwanath Sahasranam Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ मई २०११ देवशतम् ॥४००॥ आत्मभूः शम्भवो विष्णुः, केशवः स्थविरोऽच्युतः । परमेष्ठी विधिर्धाता श्रीपति गल(ला)ञ्छनः ॥१॥ शतधृतिः शतानन्दः श्रीवत्सोऽधोक्षजो हरिः । विश्वम्भरो हरिस्वामी सर्पशो विष्टर श्रवाः ॥२॥ सुरज्येष्ठश्चतुर्वक्त्रो गोविन्दः पुरुषोत्तमः । अष्टकर्णश्चतुरास्य-श्चतुर्भुजः स्वभूः कविः ॥३॥ सात्त्विकः कमनो वेधा-स्त्रिविक्रमो कुमोदकः । लक्ष्मीवान् श्रीधरः स्रष्टा लब्धवर्णः प्रजापतिः ॥४॥ ध्रुवः सूरिरविज्ञेयः कारुण्योऽमितशासनः । दोषज्ञः कुशलोऽभिज्ञः सुकृती मित्रवत्सलः ॥५॥ प्रवीणो निपुणो बुद्धो विदग्धः प्रतिभान्वितः । जनानन्दकरः श्रान्तः प्राज्ञो वैज्ञानिकः पटुः ॥६॥ धर्मचक्री कृती व्यक्तो हृदयालुर्वदावदः ।। वाचोयुक्तिपटुर्वक्ता वागीशः पूतशासनः ॥७॥ वेदिता परमः पूज्यः परब्रह्मप्रदेशकः । प्रशमात्मा परादित्यः प्रशान्तः प्रशमाकरः ॥८॥ धनीश्वरो यथाकामी स्फारधीनिरवग्रहः । स्वतन्त्रः स्फारशृङ्गारः पद्मशः स्फारभूषणः ॥९॥ स्फारनेत्रः सदातृप्तः स्फारमूर्तिः प्रियंवदः । आत्मदर्शी सदावन्द्यो बलिष्टो बोधिदायकः ॥१०॥ बुद्धामा भाग्यसंयुक्तो भयोज्झितो भवान्तकः । भूतनाथो भयातीतो बोधिदो भवपारगः ॥११॥ आत्मशतम् ॥५००॥ महादेवो महासाधु-महान् मुनीन्द्रसेवितः । महाकीर्तिर्महाशक्ति-महावीर्यो महायतिः ॥१॥ महाव्रतो महाराजो महामित्रो महामतिः । महेश्वरो महाभिक्षु-मुनीन्द्रो भाग्यभाक् शमी ॥२॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13