Book Title: Parshwanath Sahasranam Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ ३२ अनुसन्धान-५५ विश्वचञ्चर्गताकल्पो गरिष्ठो गुणपेटकः ॥७॥ गम्भीरधीर्गुणाधारो गुणखानिर्गुणालयः । ज्ञाताभिधो गताकांक्षो ज्ञानपतिर्गतस्पृहः ॥८॥ गुणी ज्ञातरहःकर्मा क्षेमी ज्ञानविचक्षणः ।। गणेशो ज्ञातसिद्धान्तो गतकष्टो गभीरवाक् ॥९॥ गतगत्यागतिर्गुण्यो गीर्वाणवाक् पुरोगमः । गीर्वाणेन्द्रो गतग्लास्नु-र्गतमोहो दरोज्झितः ॥१०॥ गीर्वाणपूजितो वन्द्योऽन(नि?)न्द्यो गीर्वाणसेवितः । स्वेदज्ञो गतसंसारो गीर्वाणराट् पुरःसरः ॥११॥ घातिकर्मविनिर्मुक्तो खेदहर्ता घनध्वनिः । घनयोगो घनज्ञानो घनदो घनरागहृत् ॥१२॥ उत्तमात्मा गताबाधो घनबोधसमन्वितः । घनधर्मा घनश्रेयो गीर्वाणेन्द्रशिरोमणिः ॥१३॥ ज्ञानशतम् ॥८००॥ ऐश्वर्यमण्डितः कृष्णो मुमुक्षुर्लोकनायकः । लोकेशः पुण्डरीकाक्षो लोकेड् लोकपुरन्दरः ॥१॥ लोकार्को लोकराट् सार्वो लोकेशो लोकवल्लभः । लोकज्ञो लोकमन्दारो लोकेन्द्रो लोककुञ्जरः ॥२॥ लोकार्यो लोकशौण्डीरो लोकविल्लोकसंस्तुतः । लोकेनो लोकधौरेयो लोकाग्यो लोकरक्षकः ॥३॥ लोकानन्दप्रदः स्थाणुः श्रमणो लोकपालकः । ऐश्वर्यशोभितो बभ्रुः श्रीकण्ठो लोकपूजितः ॥४॥ अमृतात्मोत्तमाध्यान ईशानो लोकसेवितः । ऐश्वर्यकारको लोक-विख्यातो लोकधारकः ॥५॥ मृत्युञ्जयो नरध्येयो लोकबन्धु रेशिता । लोकचन्द्रो नराधारो लोकचक्षुरनीश्वरः ॥६॥ लोकप्रेष्टो नरव्याप्तो लोकसिंहो नराधिभूः । लोकनागो नरख्यातो लोभभिल्लोकवत्सलः ॥७॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13