Book Title: Parshwanath Sahasranam Stotram
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ मई 2011 35 त्वमसि नाथ ! भवार्णवनाविक-स्त्वमसि सौख्यकदम्बककारकः / त्वमसि सिद्धिवधूस्तननायक-स्त्वमसि सप्तनयार्थविचक्षणः // 7 // त्वमसि दुःखनिवारणतत्पर-स्त्वमसि मुक्तिवशारतिहषितः / त्वमसि भव्यकुशेशयभास्कर-स्त्वमसि देवनराधिपसेवितः // 8 // त्वमसि मोहमतङ्गजकेशरी त्वमसि नाथ ! जगज्जनवत्सलः / त्वमसि दुःकृतमन्मथशङ्कर-स्त्वमसि कोपशिलोच्चयमुद्गरः // 9 // भृत्योऽस्मि तव दासोऽहं विनयी तेऽस्मि किङ्करः / नाथ ! त्वच्चरणाधारो लभे शं भवदाश्रितः // 10 // जयन्तु ते श्रीगुरुधर्ममूर्तयो गणाधिराजा मुनिसङ्घपालकाः / अनेकवादीश्वरवादसिन्धुरा-भिमानपञ्चास्यनिभाः क्रियापराः // 11 // श्रीधर्ममूर्तिसूरीशाः सूरिश्रेणिवतंसकाः / कल्याणवपुषो नूनं चिरं नन्दन्तु सत्तमाः // 12 // तदंहिकजरोलम्बः शिष्यः कल्याणसागरः / चकार पार्श्वनाथस्य नामावलीमभीष्टदाम् // 13 // पुण्यरूपमिदं स्तोत्रं नित्यमध्येति भाक्तिकः / तस्य धाम्नि महालक्ष्मी-रेधते सौख्यदायका // 14 // इति श्रीपार्श्वनाथनामान्यष्टोत्तरसहस्रमितानि समाप्तान्यजनिषत // श्रीविधिपक्षगच्छाधिराज श्रीधर्ममूर्तिसूरीश्वरपत्कजभ्रमरायमानेन श्रीकल्याणसागरसूरिणा श्रीपार्श्वनाथनामानि श्रीमन्मार्तण्डपुरे कृतानि लिखितानि च // निजकर्मक्षयार्थम् // कौशीद्यं विहाय च सम्पूर्णानि पाठितानीति ॥छ।

Loading...

Page Navigation
1 ... 11 12 13