Book Title: Parshwanath Charitram
Author(s): Udayvirgani, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 16
________________ अतः कारणाच्याऽङ्गीकृतं दानव्रतं न मोक्तव्यम् । यतः, समुद्राः स्थितिमुज्झन्ति चलन्ति कुलपर्वताः । प्रलयेऽपि न मुञ्चन्ति महान्तोऽङ्गीकृतं व्रतम् ॥५॥ ततो ललितांगकुमारो निशम्यैवमिदमचिन्तयत्-'अथाहं किं कुर्वे ? व्याघ्रदुस्तटीन्यायः संजातः । एकतः पितुराज्ञा मेऽनुल्लंघ्या, एकतोऽवणवादो दुस्तरः । यद्भवति तद्भवतु' । इति विचार्य तथैव दातुं पुनः प्रवृते । तज्ज्ञात्वा नराधिपः कुमारस्योपरि कामं कुपितः भृत्यैः सह प्रवेशद्वारं निारयामास । अथासावपमानेन बाढं हृदि कोपेन च पूरितश्चिन्तयति—'अहो मम यथा दानव्यसनं, नैवं राज्यस्पृहा । अथ च जन्तुप्रीतिकरं दानं ददतो मे पितुरपमानं जातं, तदत्र मम स्थातुमतः परं न युक्तं, देशान्तरगमनं युक्तमेव । यतः देशाटनं पंडितमित्रता च पणांगना राजसभाप्रवेशः । अनेकशास्त्रार्थविलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥१॥ दीसइ विविहचरियं जाणिजइ सज्जणदुजणविसेसो । अप्पाणं च कलिज्जइ हिंडिज्जइ तेण पुहवीए ॥ २ ॥ इति निश्चित्य कुमारो निशि निजने गृहान्निगूढं निर्गत्य वस्तुरंगममारुह्येकदिशं प्रति चचाल । तदा स भृत्याधम इंगितज्ञः * सजनो निजदौजन्यदोषतस्तमन्वगात् । क्रमेण तौ द्वावपि देशान्तरे प्रस्थितौ । अन्यदा पथि प्राह कुमारः-'भो भृत्य किश्चिद्विनो 249349964 in Education international For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 338