Book Title: Parshwanath Charitram
Author(s): Udayvirgani,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
%
%
%
%
%
पतिरन्तरदीपिष्ट । तदा महीपतिः रहः कुमारमाकार्य कोमलगिरा शिक्षयामास-हे वत्स! तव · जरसा विनापि गुणगणवृद्धत्वं समागतं, तथापि तव योग्यत्वान्मया किश्चिदुपदिश्यते, तच्छृणु, वत्स! राज्यं बहुकार्यनिरन्तरम् । त्वं बालोऽसि । इदं सप्ताङ्गं सकलं राज्यं तवैवास्ति । सावधानतया करंडस्थभुजंगच्चिन्त्यम् । फलितक्षेत्रवनित्यं प्रयत्नतो रक्षणीयम् । नव्यारामवन्मुहुर्मुहुः सेवनीयम् । कस्यापि न निश्वासो विधीयते । महीभुजा कोशेन दृढस्कन्धो विधीयते । स्वार्थंककरणं गजाश्चादिपरिवारवृद्धिकरणं प्रतिपाद्यते । स्वयं निपुणाऽसि, विचक्षणोऽसि । एष यद्यपि ते सर्वगुणोत्तमो दानगुणोऽस्ति, परं स्तोकं स्तोकं दीयते । अत्यासक्तिन शोभना । यतः
तरुदाहोऽतिशीतेन दुर्भिक्षमतिवर्षणात् । अत्याहारादजीणं च अति सर्वत्र वर्जयेत् ॥ १॥
अतिदानाद्वालिर्बद्धोऽतिगर्वेण च रावणः । अतिरूपाद् धृता सीता अति सर्वत्र वर्जयेत् ॥ २॥ अतिकर्पूरभक्षणाइन्तपातः संभवेत् तस्माद् द्रव्ये यत्नः कार्यः । भार्यापुत्रादिपरिवारस्तावद्याद् द्रव्यसमागमः । विशुद्धोऽपि गुणबातो द्रव्यं विना निष्फल एव । तस्माचया द्रव्यव्ययो यथा तथा न कार्यः" । कुमारस्तदुपदेशामृतं पीत्वा मुदा हृद्यचिन्तयत्-"ध-* न्योऽहं, यस्य मे तातः स्वयमेव प्रत्यक्षमित्यनुशंसति । तदिह स्वर्ण सौरभं । मातापित्रोणुरूणां च शिक्षणादपरं जनेऽमृतं नास्ति" इति चिन्तयित्वोवाच-'पूज्यादेशःप्रमाणं में' इति चोक्त्वा भक्त्या कृतनमस्कारः कुमारः स्वगृहं ययौ । ततः पितुराज्ञया तस्य स्तोकतरं यच्छतो याचकानां मुखादपवादः प्रववृधे । ततः कतिपयैर्याचकैः संमील्य कुमारस्योक्तम्- 'भो कुमार! दाने
%
%%%
%AE
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 338