SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ % % % % % पतिरन्तरदीपिष्ट । तदा महीपतिः रहः कुमारमाकार्य कोमलगिरा शिक्षयामास-हे वत्स! तव · जरसा विनापि गुणगणवृद्धत्वं समागतं, तथापि तव योग्यत्वान्मया किश्चिदुपदिश्यते, तच्छृणु, वत्स! राज्यं बहुकार्यनिरन्तरम् । त्वं बालोऽसि । इदं सप्ताङ्गं सकलं राज्यं तवैवास्ति । सावधानतया करंडस्थभुजंगच्चिन्त्यम् । फलितक्षेत्रवनित्यं प्रयत्नतो रक्षणीयम् । नव्यारामवन्मुहुर्मुहुः सेवनीयम् । कस्यापि न निश्वासो विधीयते । महीभुजा कोशेन दृढस्कन्धो विधीयते । स्वार्थंककरणं गजाश्चादिपरिवारवृद्धिकरणं प्रतिपाद्यते । स्वयं निपुणाऽसि, विचक्षणोऽसि । एष यद्यपि ते सर्वगुणोत्तमो दानगुणोऽस्ति, परं स्तोकं स्तोकं दीयते । अत्यासक्तिन शोभना । यतः तरुदाहोऽतिशीतेन दुर्भिक्षमतिवर्षणात् । अत्याहारादजीणं च अति सर्वत्र वर्जयेत् ॥ १॥ अतिदानाद्वालिर्बद्धोऽतिगर्वेण च रावणः । अतिरूपाद् धृता सीता अति सर्वत्र वर्जयेत् ॥ २॥ अतिकर्पूरभक्षणाइन्तपातः संभवेत् तस्माद् द्रव्ये यत्नः कार्यः । भार्यापुत्रादिपरिवारस्तावद्याद् द्रव्यसमागमः । विशुद्धोऽपि गुणबातो द्रव्यं विना निष्फल एव । तस्माचया द्रव्यव्ययो यथा तथा न कार्यः" । कुमारस्तदुपदेशामृतं पीत्वा मुदा हृद्यचिन्तयत्-"ध-* न्योऽहं, यस्य मे तातः स्वयमेव प्रत्यक्षमित्यनुशंसति । तदिह स्वर्ण सौरभं । मातापित्रोणुरूणां च शिक्षणादपरं जनेऽमृतं नास्ति" इति चिन्तयित्वोवाच-'पूज्यादेशःप्रमाणं में' इति चोक्त्वा भक्त्या कृतनमस्कारः कुमारः स्वगृहं ययौ । ततः पितुराज्ञया तस्य स्तोकतरं यच्छतो याचकानां मुखादपवादः प्रववृधे । ततः कतिपयैर्याचकैः संमील्य कुमारस्योक्तम्- 'भो कुमार! दाने % %%% %AE Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy