SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ चरि० अनवद्या पुनर्विद्या कीर्तिः स्फूर्तिमती सती । अभिरामो गुणग्रामः सर्वः धर्मादवाप्यते ॥ ८॥ युग्मम् ।। पक्षपातो पि धर्मस्य जयाय ललिताङ्गवत् । तद्भुत्यसज्जनस्येव क्षयाय पुनरन्यथा ॥ ९॥ तथाहि-अस्मिन्नेव जंबूद्वीपे भरतनामनि क्षेत्र श्रीवासनाम पत्तनं वरीवर्ति । तत्र नरवाहनो नाम भूपतिर्दासीकृताशेषभूपतिः राज्यं चरीकति । तदीयदयिता कमला कमलानना राज्ञी समस्ति । तयोरङ्गजो ललिताङ्गाभिधः सुधीर्धीमान् द्विसप्ततिकलाकुशलः शास्त्रशस्त्रकलापटुः प्रदीप इव निजकुलमुद्योतयामास । दीपे कश्मलं भवति, तस्मिंस्तु कश्मलं न । तस्य लघोरपि महान् गुणोदयः । यतःन तेन वृद्धो भवति येनास्ति पलितं शिरः । युवापि गुणवान् यो वे तमेव स्थविरं विदुः ॥१॥ तस्य ललितांगस्य भूरिगुणस्यापि दानगुणे विशेषतो मतिः। यथाऽर्थिनि दृष्टे रतिस्तथा कथाकाव्यवनिताश्वगजलीलादिषु नो रतिः। यस्मिन् दिने याचको नो आयाति स दिनो गलिततिथिवन्न गण्यते । तस्य सुतलाभादपि अागमोऽधिकं शस्यते । | तस्य दानव्यसनिनोऽदेयं किमपि नाभवत् । अथ तस्य सज्जनो नाम्ना प्रकृत्या च दुर्जनो भृत्याधमः समभवत् । कुमारेण वार्धका तोऽपि कुमारस्यैन प्रतिकूलकृत । यथा जलैः पुष्टोऽपि वार्धर्वडवानलः शोषाय स्यात्तथा सज्जनः कुमारस्य दुर्जनरूप एव । तथापि कुमारस्तं भृत्याधमं न त्यजति । यथा चन्द्रः कलंकन त्यजति । अन्यदा भूपतिः कुमारगुणरञ्जितः प्रीतमानसः स्वकीयं हाराद्यलंकारं महामल्यं ददौ । तमप्यलंकारं राजसूरेकदार्थने ददाति । तत्सर्व सजनो गत्वा नृपतेर्विज्ञापयामास । तच्छुत्वा हुताशनवन्नृ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy