________________
&ा भव्यकमलानि प्रतिबोधयन् तत्र पोतनपुरादूरखने समवासरत् । पौरास्तदागमनं ज्ञात्वा स्वं धन्यं मन्यमाना मुनीश्वरस्य वन्दनार्थ समा-5
जग्मुः। नृपकमठमरुभूतिप्रभृतिः सकलोऽपि राजलोको मुनिवन्दनार्थमागतः । सर्वेऽपि नृपाद्या मुनीश्वरं भावेन प्रणम्य यथास्थानमुपाविशन् । तत्र मुनीश्वरोऽपि ज्ञानेन मरुभूति भाविपार्श्वजिनजीवं ज्ञात्वा विशेषतस्तमुद्दिश्य प्रतिबोधयितुं धर्मदेशनां पारब्धवान् । तथाहि
भवकोटीदुष्पापामवाप्य नृभवादिसकलसामग्रीम् । भवजलधियानपात्रे धर्मे यत्नः सदा कार्यः॥१॥ असावनक्षरो लेखो निर्देवं देवमन्दिरम् । निर्जलं च सरो धर्म विना यन्मानुषो भवः ॥२॥ ___ भो भविका ! विशेषेण कर्णपुटैराकर्णयध्वम् । तथा च- ।
धनैश्वर्याभिमानेन प्रमादमदमोहिताः । दुर्लभं प्राप्य मानुष्यं हारयध्वं मुधैव मा ॥३॥ छिन्नमृलो यथा वृक्षो गतशीर्षो यथा भटः । धर्महीनो धनी तद्वत् कियत्कालं ललिष्यति ॥४॥ धरान्तःस्थं तरोर्मूलमुच्छूयेणानुमायते । अदृष्टोऽपि तथा प्राच्यधर्मो लक्ष्येत संपदा ॥ ५॥ .. मूलभूतमतो धर्म सिक्त्वा भोगफलं बुधाः । गृह्णन्ति बहुशो मूढास्तमुच्छिद्यैकदा पुनः ॥ ६॥ कुलं गतमलं कामानुरूपं रूपमव्ययम् । विश्वभोग्यं च सौभाग्यं श्रीविलासो विकखरः॥७॥
Main Education international
For Personal & Private Use Only
www.jainelibrary.org