SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्व० ३ ॥ xxxx | श्वरशिरोमणे आकस्मिकं किमिद मारब्धम् ? चिन्तामणिसमो दानेन भूत्वा भूतलेऽटोलपाषाण इवेदानीं कथं भवान् संजातोऽसि १ | जगति दानमेकं श्रेष्ठम् । मानवो दानेन विना महर्द्धिरपि न शोभते, यथा स्थूलांगा गौः क्षीरं विना नार्हति । यतः - कीटिकासञ्चितं धान्यं मक्षिकासंचितं मधु । कृपणैः संचिता लक्ष्मीरन्यैरैवोपभुज्यते ॥ १ ॥ संकरः प्राप समुद्रोऽपि रसातलम् । दाता तु जलदः पश्य भुवनोपरि गर्जति ॥ २ ॥ धनांगपरिवाराद्यं सर्वमेव विनश्यति । दानेन जनिता लोके कीर्तिरेकैव तिष्ठति ॥ ३ ॥ भ भो कुलदीपक कुमार तव मतिविपर्ययः कथं जातः १ सन्तो नांगीकृतं व्रतं मुञ्चन्ति । यतःकस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां छायां कर्तुं पथि विटपिनामञ्जलिः केन बद्धः । अभ्यर्थ्यन्ते नवजलमुचः केन वाः सृष्टिहेतोर्जात्यैवैते परहितविधौ साधवो बद्धकक्षाः ॥ १ ॥ Sarita मुञ्चन्ति कदापि पुरुषोत्तमाः । गन्धमुक्तं वृषांकोऽपि धत्तूरकुसुमं यथा ॥ २ ॥ हरो विषं मृगं चन्द्रः समुद्रो वडवानलम् । अरम्यमपि मुञ्चन्ति नादृतं किं पुनः प्रियम् ॥ ३ ॥ शशिनि खलु कलंकं कंटकाः पद्मनाले जलधिजलमपेयं पंडिते निर्धनत्वम् । दतिजनवियोगो दुर्लभत्वं सुरूपे धनपतिकृपणत्वं रत्नदोषी कृतान्तः ॥ ४ ॥ International For Personal & Private Use Only - चरि० ॥३॥ w.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy