________________
अतः कारणाच्याऽङ्गीकृतं दानव्रतं न मोक्तव्यम् । यतः, समुद्राः स्थितिमुज्झन्ति चलन्ति कुलपर्वताः । प्रलयेऽपि न मुञ्चन्ति महान्तोऽङ्गीकृतं व्रतम् ॥५॥
ततो ललितांगकुमारो निशम्यैवमिदमचिन्तयत्-'अथाहं किं कुर्वे ? व्याघ्रदुस्तटीन्यायः संजातः । एकतः पितुराज्ञा मेऽनुल्लंघ्या, एकतोऽवणवादो दुस्तरः । यद्भवति तद्भवतु' । इति विचार्य तथैव दातुं पुनः प्रवृते । तज्ज्ञात्वा नराधिपः कुमारस्योपरि कामं कुपितः भृत्यैः सह प्रवेशद्वारं निारयामास । अथासावपमानेन बाढं हृदि कोपेन च पूरितश्चिन्तयति—'अहो मम यथा दानव्यसनं, नैवं राज्यस्पृहा । अथ च जन्तुप्रीतिकरं दानं ददतो मे पितुरपमानं जातं, तदत्र मम स्थातुमतः परं न युक्तं, देशान्तरगमनं युक्तमेव । यतः
देशाटनं पंडितमित्रता च पणांगना राजसभाप्रवेशः । अनेकशास्त्रार्थविलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥१॥ दीसइ विविहचरियं जाणिजइ सज्जणदुजणविसेसो ।
अप्पाणं च कलिज्जइ हिंडिज्जइ तेण पुहवीए ॥ २ ॥ इति निश्चित्य कुमारो निशि निजने गृहान्निगूढं निर्गत्य वस्तुरंगममारुह्येकदिशं प्रति चचाल । तदा स भृत्याधम इंगितज्ञः * सजनो निजदौजन्यदोषतस्तमन्वगात् । क्रमेण तौ द्वावपि देशान्तरे प्रस्थितौ । अन्यदा पथि प्राह कुमारः-'भो भृत्य किश्चिद्विनो
249349964
in Education international
For Personal & Private Use Only
www.jainelibrary.org