Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 8
________________ प्रस्तावः । विहायेममन्यानपि विजयप्रशस्तेः षोडशसर्गी, कथारत्नाकरः, कीर्तिकल्लोलिनी, अन्योक्तिमहोदधिः, सूक्तरत्नावली, विजयप्रकाश : स्तुतित्रिदशतरङ्गिणी, कस्तुरप्रिकरः, सद्भावशतकम्, विजयस्तुतय इतिप्रभृतीन् नैकान् ग्रन्थानुपन्यभान्त्सु यरै नन्यसाधारणान्यान्यग्रन्थग्रन्थनशक्तिः प्रखर प्रतिभाप्रकर्षश्च सुस्पष्टमनुमातुं शक्यते । अधिरोहयन्ति चैतत् प्रामाण्यकोटौ श्रीगुण विजयगणीनां वचः सन्दोहाः, तथा च विजयप्रशस्तेष्टीका प्रशस्तौ - "अथो वृहद्गुरोः शिष्यो गुरोश्च गुरुसोदरः । श्री हेमविजयोऽभिज्ञो जज्ञे कविषु कुञ्जरः ॥४७॥ श्री हेमसुकवस्तस्य हेमसूरे रिवाभवत् । वाग्लालित्यं तथा देवे गुरौ भक्तिश्च भूयसी ॥ ४८ ॥ यदीया कविता कान्ता न केषां कौतुकावहा ? | विनापि हि रजो यस्माद् यशः सुतमसृत या ॥ ४९ ॥ तेन श्रीविजय सेन सूरेः सर्वज्ञचित्तदृत् । स्वर्गकल्लोलिनीतुल्या कीर्तिकल्लोलिनी कृता । ५० । अन्येऽपि स्तुतित्रिदशतरङ्गिण्यादयो घनाः । रचयांचक्रिरे ग्रन्थाः स्तोत्राणि शतशः पुनः ॥ ५३ ॥ चतुर्विंशत्यर्हतां च, विजयस्तुतयः पुनः । बाल्ये ऽप्यबालधीगम्यं श्रीपार्श्वचरितं महत् ॥५२॥ शद्भावशतकं चापि कस्तूरीप्रकरः पुनः । सूक्तरत्नावलिश्चाप्यन्योक्तिमुक्तामहोदधिः ॥ ५३ ॥ चक्रे वक्रेतरो येन कथारत्नाकरः स्फुरन् । व्याख्यापीयूषलुब्धानां विबुधानां मनो हरन् ॥५४॥ इत्यादिग्रन्थविधौ सौधे कलशा धिरोपणसवर्णम् । विजयप्रशस्तिकाव्यं तेन कृतं विजयसेनगुरो ॥५५॥ m १ एभिः श्रीगुण विजयगणि मिः श्रीहेमविजयगणे विजयप्रशस्त्याः षोडशसर्गीनिर्माणान्तरं दैवीं गतिमुपलम्भितत्वादवशिष्टं सर्गपन्चकं निर्माय सम्पूर्णिता विजयप्रशस्तिः, तस्या अन्येषां च विजयगणिकृतग्रन्थानां विजयप्रकाशादीनां टीका अपि कृता विलोक्यन्ते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 212