Book Title: Pariharya Mimansa
Author(s): Anandsagarsuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ October-2007 जैनमुनिव्यवहाराविषयत्वेऽपि मांसादिभक्षणस्य प्राचीनजिनकल्पिकमुनिव्यवहारविषयत्वे बाधकाभावात् मांसमीनभक्षणमाचाराङ्गैतत्सूत्रसम्मतमिति भवद्भिरभ्यधायि तत्सर्वमसमञ्जसम् । तिक्ता रिष्टा कटुर्मत्स्या, चक्राङ्गी शकुलादनी इति प्रसिद्धकलिकालसर्वज्ञश्रीमद्धेमचन्द्रकोशदर्शिताया: प्रज्ञापनादिसिद्धान्तकोशप्रतिपादितैरावणवृकीशिखण्डन्यादिजीवसमानाभिधाननिरूपितवनस्पतिनिष्ठावाच्यतावत् सर्वकोशसन्दर्शनप्रतिज्ञाऽनिवारणीयमत्स्यशब्दवाच्यताया निर्बाधतयोपलब्धेः । एवं मांस सूत्रमपि नेयम् । अस्य चोपादानं क्वचिल्लूताद्युपशमार्थं सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवहृष्टम् । भुजिश्चाऽत्र बाह्यपरिभोगार्थे, नाऽभ्यवहारार्थे, पदातिभोगवदिति छेदसूत्रेष्वभिप्रायो द्रष्टव्यः । एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगमः । इत्याचाराङ्गैतत्सूत्रटीकापाठोक्तपदातिभोगस्थलप्रसिद्धबाह्यपरिभोगरूपभुजिधात्वर्थानाकलनात् जैनशास्त्रोपलभ्यमानाद्यतनमुन्याचारप्रतिपालनप्रयत्नाधिकतरप्रयत्नसाध्यकेवलोत्सर्गमार्गावलम्बिजिनकल्पिकमुन्याचारसत्त्वेन मांसादिभक्षणसंवलितजिनकल्पिकमुन्याचारविषयकवर्णनात्यन्तानुचितत्वात् । जिनकप्पिया इत्थी न होइ इत्यादिपाठसूचितजिनकल्पानधिकारभिक्षुक्याचारप्रदर्शकाचाराङ्गसूत्रस्थसे भिक्खू वा भिक्खुणी वा इत्याद्याऽऽजैनबालप्रसिद्धजिनकल्पिकस्थविरकल्पिकमुन्याचारविषयकाज्ञानतिमिरनिवारणसन्मार्तण्डमण्डलायमानस्थविरकल्पिकाचारप्रतिपादकसूत्रविषयकाऽऽर्यदेशानिवासाजायमानजैनगुरुविनयप्रयोज्याबोधविलसितत्वाच्च । अथ च तदर्थविषयकशाब्दबोधे तदर्थविषयकबोधजनकतात्वावच्छिन्नप्रकारतानिरूपितानुपूर्व्यवच्छिन्नविशेष्यताकवक्विच्छाविषयकज्ञानत्वेन कारणत्वस्य भोजनसमयप्रयुक्त सैन्धवमानये'तिवाक्यार्थबोधविषयताया अश्वत्वावच्छिन्ने वारणाय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8