Book Title: Pariharya Mimansa Author(s): Anandsagarsuri Publisher: ZZ_Anusandhan View full book textPage 7
________________ १८ यत् सूरस्य शीतगोरपि करैर्मोहाभिधानं तमः क्षीणं तत् सहसा यदीयकथया निर्मूलमुन्मूलितम् । पापोलूकविनोदरोधनिपुणं सद्युक्तिपादोज्ज्वलं जीयात् तज्जिनशासनं त्रिजगति स्फीतप्रबोधप्रदम् ॥ श्रमणोपासकापलापप्रकाशः ॥ यस्य मुखस्थितव्रणाङ्कपरम्परेव धर्मप्रचारसुषमापहारोद्यता दुस्तर्कपरम्परा यस्य च दिनमणिप्रभापटलायमानमपि धर्मप्रवचनं न तनूकरोति महामोहप्रवाहसरणि यत्र चाऽखर्वगर्ववाडवावलीढतया धर्मप्रवाहः क्षणमपि व्यवस्थातुं न क्षमते सोऽयमाङ्ग्लबालायमानः श्रमणोपासको गौर्जरभाषया प्रलपितमाचरन् यदबालं तत्तु खण्डितमेव गुर्जरभाषाभिरेव तैस्तैः । अनुसन्धान- ४१ यदपि च स्वाभिप्रेतविषयमतङ्गपञ्चास्यायमान 'न मांसभोजी' ति धर्मप्रवचनवाक्यार्थोऽन्यथोपवर्णनीयो मयेति बद्धपरिकरतया पदविद्याचातुरीमात्मनः प्रकाशयमानस्ताच्छील्येऽत्र णिनिरिति मांसभोजनशीलत्वमेव निषिध्यत इत्यर्थवर्णनरूपाज्ञजनमनोमोहनमहेन्द्रजालं व्यतनुत, तदपि व्याकृतिविलासानभिज्ञानमूलकमेव । सिद्धहेमचन्द्रपाणिनीयव्याकरणस्य – “अजातेः शीले" "सुप्यजातौ णिनिस्ताच्छील्ये" इतिसूत्राभ्यामजातिवाचकोपपद एव ताच्छील्ये प्रत्ययस्य विधीयमानतया प्रकृते मांसशब्दस्य जातिवाचकत्वेन तदप्राप्तेः । अत एव ब्राह्मणानामन्त्रयिता, शालीन् भोक्तेत्यादौ ताच्छील्ये न तादृशप्रत्ययोत्पतिः । न च ताच्छील्यप्रत्ययविधायकसूत्रद्वयाप्रवृत्त्या तादृशप्रयोगासिद्धिरिति वाच्यम् | सिद्धहेमचन्द्रव्याकरणे 'ग्रहादिभ्यो णिन्निति सूत्रे ग्रहादीनामाकृतिगणत्वाङ्गीकारेण तादृशप्रयोगसिद्धेर्निविवादत्वात् । अत एव "अमज्जमांसासि" इति दशवैकालिकसूत्रप्रयोगोऽमद्यमांसाशी अमद्यपोऽमांसाशी चेति तद्विवृत्तिश्च भगवद्धरिभद्रसूरिवरोक्ता सङ्गच्छते । अत एव सूत्रकृताङ्गीय- 'अमज्जमांसासिणो' इतिसूत्रप्रतीकमुपादाय मद्यमांसं नाऽश्नन्तीति दीपिकाकारस्योक्तिरपि सङ्गच्छते । यच्च परित्यक्तमांसादनानां प्राचीनराजन्यानामपरिच्छिन्नवणिग्जात्याप्यायकत्वमासीदिति श्रमणोपासकेतिनामधारिणोक्तं, तत्र मांसभोजनप्रतिषेधनियमाभावे परित्यक्तमांसादनानामिति राजन्यविशेषणस्य क उपयोग ? Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8