Book Title: Pariharya Mimansa
Author(s): Anandsagarsuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229410/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ परीहार्यमीमांसा मुनिनेमिविजय-मुनिआनन्दसागर ॥ श्रीः ॥ || श्रीवीतरागाय नमः ॥ येनाऽक्षालि सुभव्यमानसतभोलेपः सुधासोदरैः सूक्ताम्भोभिरदर्शि दर्शनमनुक्रोशाकरेणाऽऽत्मना ।। स्याद्वादाभिधमन्यपक्षदलनप्रौढं सुसिद्धिप्रदं ध्यायावो जगतां हितं जिनवरं धर्मप्रदानोद्यतम् ॥१॥ हिमांशुकिरणप्रभामदविलासहासोद्यते यदीययशसि श्रुते न मधुरा सुधा श्लाध्यते । सुभव्यजनताज्ञतातमसि सूरचर्यापर: स वृद्धिविजयो जयत्वतुलमुक्तियुक्तो मुनिः ||२|| श्रीमज्जन्मादिकल्याणकपवित्रीकृतवाराणसीक्षेत्र-मिथ्यात्वतिमिरदूरीकरणसहस्त्रकिरणायमान- भव्यजनविषमगदागदंकारा--ऽऽसन्नसिद्धभव्यजनचेतश्चमत्कारकारिसंसारपारावारतरणि-भूमिपालभालालङ्करणचारुचरणारविन्दत्रिजगदवतंस-परमानन्दनिधानसम-कामवितरणाधरीकृतकल्पद्रुम-श्रीमत्स्तम्भनपार्श्वनाथसनाथीकृतात् स्तम्भतीर्थात् मुनिनेमिविजयानन्दसागराभ्यां मि० जिकोबीमेक्सम्युलरान् प्रति दत्तो धर्मलाभः समुल्लसतुतराम् । विशेषस्तु - समागतं वः पत्रं मुम्बईपुरवास्तव्यश्राद्धखीमजीहीरजीनामकं प्रति । तच्च मुम्बईसमाचारद्वारा वाचयित्वा ज्ञातवृत्तान्तावावां तत्प्रत्युत्तरं निविवेदयिषू पत्रमिदं लेखितुमुपक्रान्तवन्तौ स्वः । तथाहि यत्त्वाचाराङ्गीयार्थप्रकाशकाङ्ग्लदेशीयशब्दनिबद्धग्रन्थप्रपन्नभस्मादावस्थिप्रक्षेपपूर्वकं मत्स्यमांसभोजनं कार्यमिति भवत्कृतद्वितीय श्रुतस्कन्धप्रथमाध्ययनदशमोद्देशकीयसूत्रतात्पर्यार्थवर्णनवाचनचकितकायानीप्रेषितपत्रोत्तरे मत्स्यशब्दप्रयोगस्य सर्वकोशसंदर्शनबलेन मीनातिरिक्तार्थतात्पर्यविषयकत्वेन वक्तु मशक्यत्वादाचाराङ्गसूत्रस्य जिनकल्पिकमुनिमात्राचारप्रकाशकत्वेनाऽद्यतन Page #2 -------------------------------------------------------------------------- ________________ October-2007 जैनमुनिव्यवहाराविषयत्वेऽपि मांसादिभक्षणस्य प्राचीनजिनकल्पिकमुनिव्यवहारविषयत्वे बाधकाभावात् मांसमीनभक्षणमाचाराङ्गैतत्सूत्रसम्मतमिति भवद्भिरभ्यधायि तत्सर्वमसमञ्जसम् । तिक्ता रिष्टा कटुर्मत्स्या, चक्राङ्गी शकुलादनी इति प्रसिद्धकलिकालसर्वज्ञश्रीमद्धेमचन्द्रकोशदर्शिताया: प्रज्ञापनादिसिद्धान्तकोशप्रतिपादितैरावणवृकीशिखण्डन्यादिजीवसमानाभिधाननिरूपितवनस्पतिनिष्ठावाच्यतावत् सर्वकोशसन्दर्शनप्रतिज्ञाऽनिवारणीयमत्स्यशब्दवाच्यताया निर्बाधतयोपलब्धेः । एवं मांस सूत्रमपि नेयम् । अस्य चोपादानं क्वचिल्लूताद्युपशमार्थं सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलवहृष्टम् । भुजिश्चाऽत्र बाह्यपरिभोगार्थे, नाऽभ्यवहारार्थे, पदातिभोगवदिति छेदसूत्रेष्वभिप्रायो द्रष्टव्यः । एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगमः । इत्याचाराङ्गैतत्सूत्रटीकापाठोक्तपदातिभोगस्थलप्रसिद्धबाह्यपरिभोगरूपभुजिधात्वर्थानाकलनात् जैनशास्त्रोपलभ्यमानाद्यतनमुन्याचारप्रतिपालनप्रयत्नाधिकतरप्रयत्नसाध्यकेवलोत्सर्गमार्गावलम्बिजिनकल्पिकमुन्याचारसत्त्वेन मांसादिभक्षणसंवलितजिनकल्पिकमुन्याचारविषयकवर्णनात्यन्तानुचितत्वात् । जिनकप्पिया इत्थी न होइ इत्यादिपाठसूचितजिनकल्पानधिकारभिक्षुक्याचारप्रदर्शकाचाराङ्गसूत्रस्थसे भिक्खू वा भिक्खुणी वा इत्याद्याऽऽजैनबालप्रसिद्धजिनकल्पिकस्थविरकल्पिकमुन्याचारविषयकाज्ञानतिमिरनिवारणसन्मार्तण्डमण्डलायमानस्थविरकल्पिकाचारप्रतिपादकसूत्रविषयकाऽऽर्यदेशानिवासाजायमानजैनगुरुविनयप्रयोज्याबोधविलसितत्वाच्च । अथ च तदर्थविषयकशाब्दबोधे तदर्थविषयकबोधजनकतात्वावच्छिन्नप्रकारतानिरूपितानुपूर्व्यवच्छिन्नविशेष्यताकवक्विच्छाविषयकज्ञानत्वेन कारणत्वस्य भोजनसमयप्रयुक्त सैन्धवमानये'तिवाक्यार्थबोधविषयताया अश्वत्वावच्छिन्ने वारणाय Page #3 -------------------------------------------------------------------------- ________________ अनुसन्धान-४१ स्वीकरणीयतया तादृशकारणीभूतज्ञानजनकप्रकरणादिना लवणत्वावच्छिन्नविषयकबोधवद् मांसशब्दतः प्रकरणवशात् स्वयंस्वीकृतफलादिगर्भबोधवद् योग्यस्थले तादृशान्यशब्दजन्यबोधनिष्पत्तिस्वीकारे दोषाभावस्य प्रसिद्धत्वात् तद्विषयकाधिकवर्णनप्रपञ्चेनाऽलम् । . अपि च सदातनतीर्थङ्करसञ्चारादिपवित्रीकृतमहाविदेहक्षेत्रवर्तमान तीर्थङ्करश्रीसीमन्धरप्रणीतदशवैकालिकद्वितीयचूलिकास्थसप्तमगाथायां मुनीनां मद्यमांसभक्षणं सर्वथा निषिद्धम् । तथाहि अमज्जमांसासि अमच्छरीय अभिक्खणं निव्विगइगया य अर्थस्त्वमद्यमांसाशी अमद्यपोऽमांसाशी च, न परसम्पद्वेषी, पुष्टकारणाभावे निर्गतविकृतिपरिभोगश्चेति; जैनसाधुरिति संबध्यते । अत्र च परिभोगोचितविकृतिनिषेधे अभीक्ष्णमिति विशेषणोपादानवत् मद्यमांसभक्षणनिषेधे तदनुपादानादिना जैनसिद्धान्ते कीदृशी मद्यमांसभक्षणनिषेधव्यवस्थाऽस्ति ? तत् स्वयमेवोह्यम् । येन कदाऽप्येतादृशानाङ्करोद्भेदी न भविष्यतीत्याशास्वहे । एवमेव सूत्रकृताङ्गद्वितीयश्रुतस्कन्धद्वितीयाध्ययने मुन्याचारप्रस्तावे द्विचत्वारिंशद्दोषरहिताहाराहारित्वादि प्रतिपाद्य अमज्जमांसासिणो इति पाठेनैव सर्वथा स्फुटतरकृतं मद्यमांसभक्षणनिषेधमाकलय्य 'मांसाहारिणः प्राचीनमुनय आसन्नि'ति नि:शङ्कं वदतां स्वयंकृताङ्ग्लभाषाविवरणपुस्तकीयनवादिराममितपृष्ठीयतथाविधमद्यमांसभक्षणनिषेधविस्मरणशालिनां मनो विप्रतीसारमियात् । अपि च विवाहप्रज्ञप्त्याख्य(भगवती)सूत्राष्टमशतकनवमोद्देशके गौतमगणधरपृष्टनैरयिकायु:कार्मणशरीरप्रयोगबन्धकारणं भगवता श्रीमहावीरेण मांसाहार: स्फुटं प्रतिपादितः तथा च तत्पाठः – णेरड्याउयकम्मासरिरप्पओगबंधेणं भंते ॥ पुच्छा - गोयमा ! महारंभयाए महापरिग्गहयाए पंचिंदियवहेणं कुणिमाहारेणं णेरड्याउयकम्मासरिरप्पओगणामाए कम्मस्स उदयेणं णेरड्याउयकम्मासरिरजावप्पओगबंधे ।। एवमेव स्थानाङ्गसूत्रस्थचतुःस्थानकाख्यचतुर्थाध्ययने मांसभोजनं नरकफलककर्मतयोपवर्णितम् । तथा च तत्पाठः - Page #4 -------------------------------------------------------------------------- ________________ October-2007 'चउहि ठाणेहिं जीवा इयत्ताए कम्मं पकरेंति । तं जहा - महारंभयाए महापरिग्गहयाए पंचिंदियवहेणं कुणिमाहारेणं' इति कुणिमशब्दस्तु मांसार्थः प्रसिद्ध एव ॥ तथा चौपपातिकसूत्रेपि मांसभक्षणकर्तुर्नरकावाप्तिरुपवर्णिता । तथा च तत्पाठ: ___ चउहि ठाणेहिं जीवा णेरइयत्ताए कम्मं पकरेंति, णेरइयत्ताए कम्म पकरेत्ता णेरइएसु उववज्जति । तं जहा-महारंभयाए महापरिग्गहयाये पंचिंदियवहेणं कुणिमाहारेणं ।। इति प्रवचनसारोद्धारेऽपि मधुमद्यमांसनवनीतान्यभक्ष्यतयोल्लिख्य वर्जनीयतया प्रतिपादितानि । तथा च तत्पाठःपंचुंबरी चउविगइ, हिमविसकरगेयसव्वमट्टी य । रयणीभोयणगं चिय, बहुबीयमणंतसंधाणं ॥ घोलवडा वायंगण, अमुणियनामाणि णिफुल्लफलयाणि । तुच्छफलं चलियरसं, वज्जह वज्जाणि बावीसं ॥ एवं मद्यमांसादिभक्षणनिषेधवचनामृतपरिषिक्तान्त:करणनरकादिदुर्गत्वगामिमुमुक्षवस्तदृत एव मनः समादधते । ये तु लालसादासास्तद्भक्षयन्ति तेषामुभयतः कर्मबन्धनं नरकपतनमनेकश्रवणकटुपरमाधार्मिककृतदुःखोपभोगं चोपवर्णयन्त्युत्तराध्ययनसूत्राणि हिंसे बाले मुसावाई माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं सेयमेयं ति मन्नई ॥९॥ कायसा वयसा मत्ते वित्ते गिद्धे य इत्थिसु । दुहओ मलं संचिणइ सिसुनागु व्व मट्टियं ॥१०॥ ( उ. अ. ५.) इत्थीविसयगिद्धे य महारंभ-परिगहे । भुंजमाणे सुरं मंसं परिवूढे परंदमे ॥६॥ अयकक्करभोई य तुंदिल्ले चियलोहिए । आउयं नरए कंखे जहाऽऽएस व एलए ॥७॥ (उ. अ. ७) Page #5 -------------------------------------------------------------------------- ________________ १६ तत्ताइ तंबलोहाइं तउयाई सीसगाणि य । पाइओ कलकलंताई आरसंतो सुभेवं ॥६९॥ तुहं पियाई मंसाई खंडाई सोलगाणि य । खाविओ मि समसाई अग्गिवन्नाई णेगसो ॥७०॥ तुहं पिया सुरा सीहू मेरओ य महूणिय । पाइओ मि जलतीओ वसाओ रुहिराणि य ॥ ७१ ॥ ( उ. अ. १९ ) अपि च सूत्रकृताङ्गीयद्वितीय श्रुतस्कन्धषष्ठाध्ययनैकोनचत्वारिंशत्तमगाथा टीकायां मांसस्य हिंसामूलत्वामेध्यत्वरौद्रध्यानास्पदत्वादियावन्नरकगतिसाधनत्वाभिधानपुरःसरं तद्भक्षयितू राक्षससमत्वसङ्कलितात्मद्रुहत्वमभिधाय मांसशब्दनिर्वचनप्रकाशनपूर्वकप्रेयवध्याश्रयतुच्छक्षणतृप्तिप्राणवियोगान्तरप्रदर्शनेन मांसादनस्य महादोषत्वं निरूप्य कुशला मांसादनाभिलाषरूपमन्तःकरणं न कुर्वन्तीत्यवगमय्य मांसभक्षणे न दोष इति भारत्या अपि मिथ्यात्वमग्रतः कृत्य मांसाशिनां दुर्गतिं तन्निवृत्तानां चेहैवानुत्तमश्लाघाऽमुत्र च स्वर्गापवर्गगमनं चेति प्रदर्शितम् । तथा च तत्पाठ: “हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद् बीभत्सं रुधिराविलं कृमिगृहं दुर्गन्धि पूयाविलम् । शुक्रासृक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः ॥ १ ॥ अपि च, तथा अनुसन्धान- ४१ मांस भक्षयिताऽमुत्र, यस्य मांसमिहाऽद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥२॥ 1 योऽत्ति यस्य च तन्मांस-मुभयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्राणैर्वियुज्यते ॥ ३ ॥ तदेवं महादोषं मांसदनमिति मत्वा यद् विधेयं तद् दर्शयति । Page #6 -------------------------------------------------------------------------- ________________ October-2007 १७ एतदेवंभूतं मांसादनाभिलाषरूपं मनोऽन्तःकरणं कुशला निपुणा मांसाशित्वविपाकवेदिनस्तन्निवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषादात्मनो निवर्तयन्तीत्यर्थः । आस्तां तावद् भक्षणं, वागप्येषा यथा 'मांसभक्षणेऽदोष' इत्यादिका भारत्यभिहितोक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति तन्निवृत्तौ चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति । तथा चोक्तम् - श्रुत्वा दुःखपरम्परामतिघृणां मांसाशिनां दुर्गतिं ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्याऽऽदरात् । सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते माषूद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च" इत्यादि । सूत्रकृताङ्गीयप्रथमाध्ययनद्वितीयोद्देशके परव्यापादितपिशितभक्षणविषयकदोषाभाववादिमतमनुमत्य प्रतिहतत्वकारणककर्मबन्धत्वेनाऽन्योक्तसूक्तोपष्टम्भपूर्वकं तिरस्कृतम् । तथा हि - "यदपि च तैः क्वचिदुच्यते । यथा - परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन्न दोष इति, तदप्युन्मत्तप्रलपितवदनाकर्णनीयं, यतः - परव्यापादितपिशितभक्षणेऽनुमतिरप्रतिहताऽस्याश्च कर्मबन्ध इति । तथा चाऽन्यैरप्यभिहितम् - अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च, घातकश्चाऽष्ट घातकाः" ॥ एवं स्थानाङ्गसूत्रे दशस्थानकाख्यदशमाध्ययने यत्र मांसादि तत्र विशिष्टाध्ययनादि न कार्यमिति प्रतिपादितम् । तथा च तत्पाठः दसविहे ओरालिए असज्जाइए पण्णत्ते - अट्ठि मंसे सोणिए असुइसामंतं मसाणसामंतं चंदोवराए सूरोवराए पडणे रायवुग्गहे उवस्सवस्सअंतो ओरालिए सरीरे ॥ ___एवमादिनानाविधसिद्धान्तवचनवाचनपरिपूतदर्शनो मांसाद्याहारप्रतिषेधमेव सिद्धान्तानुमतं मन्येतेति निर्विवादमेवेति स्वप्रमादमवधार्य तदुत्थजनमनोविमोहनबाधकं कोविदप्रसिद्धं प्रमादपरिमार्जनमथनमनुष्ठीयेतेति । शिवम् । Page #7 -------------------------------------------------------------------------- ________________ १८ यत् सूरस्य शीतगोरपि करैर्मोहाभिधानं तमः क्षीणं तत् सहसा यदीयकथया निर्मूलमुन्मूलितम् । पापोलूकविनोदरोधनिपुणं सद्युक्तिपादोज्ज्वलं जीयात् तज्जिनशासनं त्रिजगति स्फीतप्रबोधप्रदम् ॥ श्रमणोपासकापलापप्रकाशः ॥ यस्य मुखस्थितव्रणाङ्कपरम्परेव धर्मप्रचारसुषमापहारोद्यता दुस्तर्कपरम्परा यस्य च दिनमणिप्रभापटलायमानमपि धर्मप्रवचनं न तनूकरोति महामोहप्रवाहसरणि यत्र चाऽखर्वगर्ववाडवावलीढतया धर्मप्रवाहः क्षणमपि व्यवस्थातुं न क्षमते सोऽयमाङ्ग्लबालायमानः श्रमणोपासको गौर्जरभाषया प्रलपितमाचरन् यदबालं तत्तु खण्डितमेव गुर्जरभाषाभिरेव तैस्तैः । अनुसन्धान- ४१ यदपि च स्वाभिप्रेतविषयमतङ्गपञ्चास्यायमान 'न मांसभोजी' ति धर्मप्रवचनवाक्यार्थोऽन्यथोपवर्णनीयो मयेति बद्धपरिकरतया पदविद्याचातुरीमात्मनः प्रकाशयमानस्ताच्छील्येऽत्र णिनिरिति मांसभोजनशीलत्वमेव निषिध्यत इत्यर्थवर्णनरूपाज्ञजनमनोमोहनमहेन्द्रजालं व्यतनुत, तदपि व्याकृतिविलासानभिज्ञानमूलकमेव । सिद्धहेमचन्द्रपाणिनीयव्याकरणस्य – “अजातेः शीले" "सुप्यजातौ णिनिस्ताच्छील्ये" इतिसूत्राभ्यामजातिवाचकोपपद एव ताच्छील्ये प्रत्ययस्य विधीयमानतया प्रकृते मांसशब्दस्य जातिवाचकत्वेन तदप्राप्तेः । अत एव ब्राह्मणानामन्त्रयिता, शालीन् भोक्तेत्यादौ ताच्छील्ये न तादृशप्रत्ययोत्पतिः । न च ताच्छील्यप्रत्ययविधायकसूत्रद्वयाप्रवृत्त्या तादृशप्रयोगासिद्धिरिति वाच्यम् | सिद्धहेमचन्द्रव्याकरणे 'ग्रहादिभ्यो णिन्निति सूत्रे ग्रहादीनामाकृतिगणत्वाङ्गीकारेण तादृशप्रयोगसिद्धेर्निविवादत्वात् । अत एव "अमज्जमांसासि" इति दशवैकालिकसूत्रप्रयोगोऽमद्यमांसाशी अमद्यपोऽमांसाशी चेति तद्विवृत्तिश्च भगवद्धरिभद्रसूरिवरोक्ता सङ्गच्छते । अत एव सूत्रकृताङ्गीय- 'अमज्जमांसासिणो' इतिसूत्रप्रतीकमुपादाय मद्यमांसं नाऽश्नन्तीति दीपिकाकारस्योक्तिरपि सङ्गच्छते । यच्च परित्यक्तमांसादनानां प्राचीनराजन्यानामपरिच्छिन्नवणिग्जात्याप्यायकत्वमासीदिति श्रमणोपासकेतिनामधारिणोक्तं, तत्र मांसभोजनप्रतिषेधनियमाभावे परित्यक्तमांसादनानामिति राजन्यविशेषणस्य क उपयोग ? Page #8 -------------------------------------------------------------------------- ________________ October-2007 इति तु पूर्वापरविरुद्धवक्ता स एव प्रष्टव्य इति केचित् / अपरे तु श्रमणोपासकवाक्यं पूर्वापरविरुद्धमपि तदिष्टप्राक्कालिकजातिबन्धनाभाववन्तो यथा मांसाहारत्यागिनः स्वजाति प्रवेशयन् तथाऽनार्यदेशपर्यटनादिनाऽभिमतमांसभक्षणानां जातौ सङ्ग्रहीतारः / श्रीमद्धेमचन्द्रसूरिवराधिगतजैनधर्मक्षेत्रपालसविधशरावस्थमांसस्थापकमार्गणपुरःसरशासितनड्डपुरसामन्तकगुरुपदेशवर्जितजैनधर्माङ्गीकारप्राक्कालभक्षितमांसस्मारकघृतपूरककुमारपालचरितं विस्मरन्तो हितं नाऽनुरुध्यन्त इति सूचयितुं कल्पत इति व्याचक्षत / इति शम् / / यस्योद्दामप्रमाणप्रवचनतरणिप्रौढभासा विलीने पाखण्डध्वान्तजाले प्रसरति भुवने धर्मपद्मप्रबोधः / लीलावासो गुणानां जनकलुषमषीलेपलोपप्रसक्तो जीयाच्छीवृद्धिचन्द्रोऽतुलगुणमहिमा श्रीलमुक्त्या समेतः / / नालीकेष्वङ्कचन्द्रैरधिगतगणने वत्सरेऽवन्तिपस्य मासीषेऽमातिथौ यत्स्खलितमिह बुधैर्यत्रत: शोधनीयम् / इत्यभ्यर्थ्य प्रवीणान् कलुषगदभिषक्पार्श्वनाथप्रसादानेम्यानन्दप्रणीता प्रमदयतु परीहार्यमीमांसिकेयम् / / // ग्रन्थोऽयं समाप्तः //