________________
अनुसन्धान-४१
स्वीकरणीयतया तादृशकारणीभूतज्ञानजनकप्रकरणादिना लवणत्वावच्छिन्नविषयकबोधवद् मांसशब्दतः प्रकरणवशात् स्वयंस्वीकृतफलादिगर्भबोधवद् योग्यस्थले तादृशान्यशब्दजन्यबोधनिष्पत्तिस्वीकारे दोषाभावस्य प्रसिद्धत्वात् तद्विषयकाधिकवर्णनप्रपञ्चेनाऽलम् । .
अपि च सदातनतीर्थङ्करसञ्चारादिपवित्रीकृतमहाविदेहक्षेत्रवर्तमान तीर्थङ्करश्रीसीमन्धरप्रणीतदशवैकालिकद्वितीयचूलिकास्थसप्तमगाथायां मुनीनां मद्यमांसभक्षणं सर्वथा निषिद्धम् । तथाहि
अमज्जमांसासि अमच्छरीय अभिक्खणं निव्विगइगया य
अर्थस्त्वमद्यमांसाशी अमद्यपोऽमांसाशी च, न परसम्पद्वेषी, पुष्टकारणाभावे निर्गतविकृतिपरिभोगश्चेति; जैनसाधुरिति संबध्यते । अत्र च परिभोगोचितविकृतिनिषेधे अभीक्ष्णमिति विशेषणोपादानवत् मद्यमांसभक्षणनिषेधे तदनुपादानादिना जैनसिद्धान्ते कीदृशी मद्यमांसभक्षणनिषेधव्यवस्थाऽस्ति ? तत् स्वयमेवोह्यम् । येन कदाऽप्येतादृशानाङ्करोद्भेदी न भविष्यतीत्याशास्वहे ।
एवमेव सूत्रकृताङ्गद्वितीयश्रुतस्कन्धद्वितीयाध्ययने मुन्याचारप्रस्तावे द्विचत्वारिंशद्दोषरहिताहाराहारित्वादि प्रतिपाद्य
अमज्जमांसासिणो
इति पाठेनैव सर्वथा स्फुटतरकृतं मद्यमांसभक्षणनिषेधमाकलय्य 'मांसाहारिणः प्राचीनमुनय आसन्नि'ति नि:शङ्कं वदतां स्वयंकृताङ्ग्लभाषाविवरणपुस्तकीयनवादिराममितपृष्ठीयतथाविधमद्यमांसभक्षणनिषेधविस्मरणशालिनां मनो विप्रतीसारमियात् । अपि च विवाहप्रज्ञप्त्याख्य(भगवती)सूत्राष्टमशतकनवमोद्देशके गौतमगणधरपृष्टनैरयिकायु:कार्मणशरीरप्रयोगबन्धकारणं भगवता श्रीमहावीरेण मांसाहार: स्फुटं प्रतिपादितः तथा च तत्पाठः –
णेरड्याउयकम्मासरिरप्पओगबंधेणं भंते ॥ पुच्छा - गोयमा ! महारंभयाए महापरिग्गहयाए पंचिंदियवहेणं कुणिमाहारेणं णेरड्याउयकम्मासरिरप्पओगणामाए कम्मस्स उदयेणं णेरड्याउयकम्मासरिरजावप्पओगबंधे ।।
एवमेव स्थानाङ्गसूत्रस्थचतुःस्थानकाख्यचतुर्थाध्ययने मांसभोजनं नरकफलककर्मतयोपवर्णितम् । तथा च तत्पाठः -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org