Book Title: Pandavcharitra Mahakavyam Part 1 Author(s): Devprabhsuri, Publisher: Jinshasan Aradhana Trust View full book textPage 3
________________ राजशेखरकृतन्यायकन्दलिपञ्जिकायां लिखितमस्तीति (जैन साहित्य इतिहास पृ. ३८९ ) इत्यादि । पूज्याश्वेमे कोटिकाख्यगणस्य मध्यमानायां शाखायां श्रीप्रश्नवाहनकुले श्रीहर्षपुरीयगच्छे श्रीअभयदेवसूरिपकृपरंपरायां सममूवन्निति प्रन्थस्यास्य प्रशस्तौ स्पष्टं लिखितमस्ति परंतु गृहस्थाश्रमे तेषां का जन्मभूमिः ! कौ मातापितरौ ? कदा जन्म कदा दीक्षाग्रहणम् ? इत्यादिजिज्ञासायामपि किमपि साधनं न मिलितमिति न किमप्यत्र लिख्यते । अन्थस्यास्य मुद्रापणे भाव पुरस्थसंघसत्कज्ञानभाण्डागारात् पुराणं हस्तलिखितं प्रतित्रयं मिलितमतस्तद्दातॄणां महाशयानां शा. कुंवरजी-आनंदजीतिनामधेयानामत्र महोपकारं मन्ये । ग्रन्थस्यास्यातिगमीरशब्दार्थालंकारादेः शुद्धिविषये क्षयोपशमानुसारेण सर्वशक्त्या मया कृतेऽपि प्रयलेऽल्पज्ञत्व--दृष्टिदोष-मुद्रायत्र दोषादिना केनापि कारणेन स्खलनास्थानानि दृष्टवता विद्वद्वर्गेण कृपालुना कृपां कृत्वा संशोधनीयानीति प्रार्थये इति शम् ॥ ली० संशोधकः ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 331