SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ राजशेखरकृतन्यायकन्दलिपञ्जिकायां लिखितमस्तीति (जैन साहित्य इतिहास पृ. ३८९ ) इत्यादि । पूज्याश्वेमे कोटिकाख्यगणस्य मध्यमानायां शाखायां श्रीप्रश्नवाहनकुले श्रीहर्षपुरीयगच्छे श्रीअभयदेवसूरिपकृपरंपरायां सममूवन्निति प्रन्थस्यास्य प्रशस्तौ स्पष्टं लिखितमस्ति परंतु गृहस्थाश्रमे तेषां का जन्मभूमिः ! कौ मातापितरौ ? कदा जन्म कदा दीक्षाग्रहणम् ? इत्यादिजिज्ञासायामपि किमपि साधनं न मिलितमिति न किमप्यत्र लिख्यते । अन्थस्यास्य मुद्रापणे भाव पुरस्थसंघसत्कज्ञानभाण्डागारात् पुराणं हस्तलिखितं प्रतित्रयं मिलितमतस्तद्दातॄणां महाशयानां शा. कुंवरजी-आनंदजीतिनामधेयानामत्र महोपकारं मन्ये । ग्रन्थस्यास्यातिगमीरशब्दार्थालंकारादेः शुद्धिविषये क्षयोपशमानुसारेण सर्वशक्त्या मया कृतेऽपि प्रयलेऽल्पज्ञत्व--दृष्टिदोष-मुद्रायत्र दोषादिना केनापि कारणेन स्खलनास्थानानि दृष्टवता विद्वद्वर्गेण कृपालुना कृपां कृत्वा संशोधनीयानीति प्रार्थये इति शम् ॥ ली० संशोधकः ॥
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy