Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
View full book text
________________
N
अहम् ॥ ओं नमः श्रीसरस्वत्यै ॥
सकलार्थशास्त्रसारं । जगति समालोक्य विष्णुशर्मेदम्। तन्त्रैः पञ्चभिर् एतच् । चकार सुमनोहरं शास्त्रम् ॥१॥
ar 3 तद् यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थशास्त्रविशारदः प्रवरनृपमुकुटमणिमरीचिचयचर्चितचरणः सकलकलापारं गतो ऽमरशक्तिर नाम राजा बभूव । तस्य च चयः पुत्राः परमदुर्मेधसः । वसुशक्तिः । उग्रशक्तिः । अनन्तशक्तिश् चेति बभूवुः । अथ ताञ् शास्त्रविमुखान् समालोक्य स राजा सचिवान् आहय प्रोवाच । भोः । ज्ञातम् एतद् भवद्भिः । यन् ममते पुचाः शास्त्रविमुखा विवेकरहिताः । तद् एतान् पश्यतो मे हतकण्टकम् अपि राज्यं न सौख्यम आवहति । अथवा " साध्व इदम् उच्यते ।
अजातमृतमूर्खेभ्यो । मृताजातौ सुतौ वरम्।
यतस ती स्वल्पदुःखाय। यावज्जीवं जडो दहेत ॥२॥ तथा च । किं तया क्रियते धेन्वा । या न सूते न दुग्धदा।
___ को ऽर्थः पुत्रेण जातेन । यो न विद्वान न भक्तिमान् ॥ ३॥ तद् एषां बुद्धिप्रबोधनं यथा भवति । तथा केनाप्य उपायेनानुष्ठेयम् । इति । अकैकशः 16 प्रोचुः । देव । द्वादशभिर् वर्षेस तावद् व्याकरणं श्रूयते । तद् यदि कथम् अपि ज्ञायते । ततो धर्मार्थशास्त्राणि ज्ञायन्ते । ततो बुद्धिप्रबोधनं भवति । अथ तन्मध्यतः सुमतिनामामात्यः प्राह । देव । अशाश्वतोऽयं जीवविषयः । प्रभूतकालज्ञेयानि शब्दशास्त्राणि । तत् 18 संक्षेपमात्रं किंचिद एतेषां प्रबोधनार्थ चिन्त्यताम्। इति । उक्तं च । यतः ।
अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर बहवश च विघ्नाः।
21 यत् सारभूतं तद् उपासनीयं हंसैर् यथा क्षीरम् इवाम्बुमध्यात् ॥४॥
upa तद् अघास्ति विष्णुशर्मा नाम ब्राह्मणो ऽनेकशास्त्रसंसिद्धिलब्धकीर्तिः। तस्मै समर्पयेतान। 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 324