Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad
View full book text
________________
अतो ऽहं ब्रवीमि । अव्यापारः प्राज्ञैः परिहर्तव्यः । इति । पुनश् चाब्रवीत् । आवयोस् तावद् भक्षितशेषाहारमात्रवर्तनम् अस्त्य एव । दमनक आह । कथम् आहारमाचार्थी केवलं भवान् प्रधानसेवां कुरुते । न विशेषार्थितया । साधु चेदम् उच्यते ।
सुहृदाम् उपकारकारणाद् द्विषतां चाप्य अपकारकारणात् । नृपसंश्रय इष्यते बुधैर्
जठरं को न बिभर्ति केवलम् ॥ ९ ॥
अपि च ।
अथवा ।
Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull.
Jain Education International
यस्मिन् जीवति जीवन्ति । बहवः स तु जीवति । वयांसि किं न कुर्वन्ति । चश्वा स्वोदरपूरणम् ॥ १० ॥ यो नात्मने न गुरवे न च बन्धुवर्गे
दीने दयां न कुरुते न च भृत्यवर्गे ।
किं तस्य जीवितफलं हि मनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ ११ ॥ स्वल्पस्नायुवसावशेषमलिनं निर्मोसम् अप्य् अस्थिकं वा लब्धा परितोषम् एति न च तत् तस्य क्षुधाशान्तये । सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्का निहन्ति द्विपं सर्वः कृच्छ्रगतो ऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ १२ ॥ लाङ्गूलचालनम् अधश् चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुंगवस् तु धीरं विलोकयति चाटुशतैश च भुङ्क्ते ॥ १३ ॥ सुपूरा वै कुनदिका सुपूरो मूषकाञ्जलिः । सुसंतोषः कापुरुषः । स्वल्पकेनापि तुष्यति ॥ १४ ॥ अहितहितविचारशून्यबुद्धेः
श्रुतिसमयेर् बहुभिर् बहिष्कृतस्य ।
उदरभरणमात्रम् एव लिप्सोः
पुरुषपशोश् च पशोश् च को विशेषः ॥ १५ ॥ गुरुशकटधुरंधरस् तृणाशी
समविषमेषु च लाङ्गलापकर्षी ।
जगदुपकरणं पवित्रयोनिर्
नरपशुना * किम् उ मीयते गवेन्द्रः ॥ १६ ॥
viyo
For Private & Personal Use Only
vasa
sārdu
6
8
6
9
12
15
18
Vasa 21
24
puspi] 27
puspi
करटक आह । आवां तावद् अप्रधानौ । किम् अनेन व्यापारेण । सो ऽब्रवीत् । भद्र । * कियतापि कालेन प्रधानो ऽप्रधानो ऽपि भवपि । उक्तं च ।
$3
80
www.jainelibrary.org
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 324