Book Title: Panchtantram
Author(s): Vishnu Sharma
Publisher: Vishvanandikar Jain Sangh Ahmedabad

View full book text
Previous | Next

Page 17
________________ Book I. THE ESTRANGING OF FRIENDS3B Frame-story: Lion and bull. चित्रकभयोगटाम अचलनितम्बनिर्गतोदकपरिपूरितां विविधदरीगहनाम् अटवीम आसाद्य दूरापातिनिर्झरोदकोत्पादितकर्दममनकचरणवैकल्याच् छकटस्य चातिमाराद् अभिहतः कस्मिंश्चित् प्रदेश कथम् अपि तयोर् वृषभयोः संजीवको युगभङ्गं कृत्वा निषसाद । ततस् तं निपतितं दृष्ट्वा शाकटिकः ससंधमः शकटाद् उत्तीर्य त्वरितगतिर अनतिदूरे सोपचारम अञ्जलिं कृत्वा सार्थवाहम उवाच । आर्यपुत्र । अध्वपरिश्रान्तः संजीवकः पङ्के निषसाद । तच कृत्वा वर्धमानसार्थवाहः परं विषादम अगमत् । पञ्चरा- 6 त्रिकम् अप्रयाणकं कृत्वा यदासौ न कल्यतां लभते । तदा तस्य यवससमेतान् रक्षापुरुषान् दत्त्वाभिहितवान् । यथा । अयं संजीवको यदि जीवति । तद् एनं गृहीत्वा । यदि नियते । तदाम संस्कृत्य युष्माभिर् आगन्तव्यम् । एवम् आदिश्य यथाभिलषितं देशान्तरं । प्रस्थितः । अन्येाश च । बहुपायं वनम् । इति भयात् तेर् अपि गत्वा स्वामिने मृषा निवेदितम् । यथा । मृतो ऽसौ संजीवको ऽस्माभिश् चाग्न्यादिना संस्कारेण संस्कृतः । इति । तच च श्रुत्वा सार्थवाहः क्षणमात्रं दुःखं कृत्वा कृतज्ञतया च प्रेतकृत्यादिक्रियां 12 छत्वा मथुराम अविघ्न संप्राप्तः। ___ अथ संजीवकः स्वभाग्यानां वशाद् आयुःशेषतया च निर्झरोदककण प्रकरिर् आश्वासितशरीरः शनैः शनैर् यमुनाकच्छम अवतीर्णः। तस्मिंश च मरकतसदृशानि शष्पपल्ल- 15 वाग्राणि भक्षयन् कतिपयैर् अहोभिर् हरवृषभ व पीनः ककुद्मान बलवांश च संवृत्तः। प्रत्यहं वल्मीकशिखराणि शृङ्गाग्रघट्टनैर् उल्लिखन दन्तिवत् तिष्ठति। ____ अथ कदाचित् सर्वमृगपरिवृतः पिङ्गलको नाम सिंह उदकग्रहणार्थ यमुनाकच्छम् 18 अवतीर्णः । स च संजीवकस्य महान्तं गर्जितशब्दम् अशृणोत् । तं च श्रुत्वातीव तुभितहृदयः स्वकीयम् आकारं प्रच्छाद्य मण्डलवटस्याधस्ताच् चतुर्मण्डलावस्थानेनावस्थितः। आह च चतुर्मण्डलावस्थाननामानि। सिंहः सिंहानुयायी काकरवर्गः किंवृत्तश् चेति 21 मण्डलानि । तत्र सर्वेष्व् एव नगरपत्तनाधिष्ठानखेटकर्बटद्रङ्गप्रत्यन्तांग्रहारविहारजनस्थानेष्व एक एव सिंहस्थानीयो भवति । कतिपयाः सिंहानुयायिनस तत्र चराः । काकरवर्गो मध्यमवर्ग: । किंवृत्ता वनान्तस्थानवासिनः। उत्तममध्यमाधमास् त्रय इति। अथ पिङ्गलकः सामात्यः समुज्जनश छत्चचामरव्यजनवाहनविलासविस्तारविरहितम् अकृत्रिमसाहसरसैकान्तदर्पोद्धतम् अभप्रमाममदोत्सेकम असहमानतया स्वयंग्राह हितैश्वर्यम् अनभिज्ञम् इतरजनसेवितानां कृपणवचसाम अमर्षरोषसंरम्भगर्वप्र-27 स्थानम् अकातरत्वपुरुषार्थम् अनुक्षिप्ताञ्जलिपुटम् अदीनम् अभोतम अकृतचाटुकर्मोपायं व्यवसायपौरुषाभिमानावष्टम्भभासुरम् अनन्यसेवि निःसङ्गम् अनात्मंभरि परोपकारसुखव्यक्त* पुरुषकारफलम् अपरिभूतम् अकृशम् अतुच्छम अपगतदुर्गप्रतिसंस्कारचित्तम अग- 30 णितायव्ययम् अविलोमम् अनायत्तम् उद्धतोपार्जितप्रतापविषमम् अपाङ्गण्यसंप्रधारणम् अप्रहरणाभरणम् असाधारणविभवनासम् अपरोक्षवृत्तम् अनाशङ्कनीयम् अनपेक्षितकलचपाणिग्राहासाराक्रन्दम् अनिन्द्यम अघटिताशिक्षितास्त्र प्रयोगम् अनिच्छावि.33 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 324