________________
Book I. THE ESTRANGING OF FRIENDS3B
Frame-story: Lion and bull.
चित्रकभयोगटाम अचलनितम्बनिर्गतोदकपरिपूरितां विविधदरीगहनाम् अटवीम आसाद्य दूरापातिनिर्झरोदकोत्पादितकर्दममनकचरणवैकल्याच् छकटस्य चातिमाराद् अभिहतः कस्मिंश्चित् प्रदेश कथम् अपि तयोर् वृषभयोः संजीवको युगभङ्गं कृत्वा निषसाद । ततस् तं निपतितं दृष्ट्वा शाकटिकः ससंधमः शकटाद् उत्तीर्य त्वरितगतिर अनतिदूरे सोपचारम अञ्जलिं कृत्वा सार्थवाहम उवाच । आर्यपुत्र । अध्वपरिश्रान्तः संजीवकः पङ्के निषसाद । तच कृत्वा वर्धमानसार्थवाहः परं विषादम अगमत् । पञ्चरा- 6 त्रिकम् अप्रयाणकं कृत्वा यदासौ न कल्यतां लभते । तदा तस्य यवससमेतान् रक्षापुरुषान् दत्त्वाभिहितवान् । यथा । अयं संजीवको यदि जीवति । तद् एनं गृहीत्वा । यदि नियते । तदाम संस्कृत्य युष्माभिर् आगन्तव्यम् । एवम् आदिश्य यथाभिलषितं देशान्तरं । प्रस्थितः । अन्येाश च । बहुपायं वनम् । इति भयात् तेर् अपि गत्वा स्वामिने मृषा निवेदितम् । यथा । मृतो ऽसौ संजीवको ऽस्माभिश् चाग्न्यादिना संस्कारेण संस्कृतः । इति । तच च श्रुत्वा सार्थवाहः क्षणमात्रं दुःखं कृत्वा कृतज्ञतया च प्रेतकृत्यादिक्रियां 12 छत्वा मथुराम अविघ्न संप्राप्तः। ___ अथ संजीवकः स्वभाग्यानां वशाद् आयुःशेषतया च निर्झरोदककण प्रकरिर् आश्वासितशरीरः शनैः शनैर् यमुनाकच्छम अवतीर्णः। तस्मिंश च मरकतसदृशानि शष्पपल्ल- 15 वाग्राणि भक्षयन् कतिपयैर् अहोभिर् हरवृषभ व पीनः ककुद्मान बलवांश च संवृत्तः। प्रत्यहं वल्मीकशिखराणि शृङ्गाग्रघट्टनैर् उल्लिखन दन्तिवत् तिष्ठति। ____ अथ कदाचित् सर्वमृगपरिवृतः पिङ्गलको नाम सिंह उदकग्रहणार्थ यमुनाकच्छम् 18 अवतीर्णः । स च संजीवकस्य महान्तं गर्जितशब्दम् अशृणोत् । तं च श्रुत्वातीव तुभितहृदयः स्वकीयम् आकारं प्रच्छाद्य मण्डलवटस्याधस्ताच् चतुर्मण्डलावस्थानेनावस्थितः।
आह च चतुर्मण्डलावस्थाननामानि। सिंहः सिंहानुयायी काकरवर्गः किंवृत्तश् चेति 21 मण्डलानि । तत्र सर्वेष्व् एव नगरपत्तनाधिष्ठानखेटकर्बटद्रङ्गप्रत्यन्तांग्रहारविहारजनस्थानेष्व एक एव सिंहस्थानीयो भवति । कतिपयाः सिंहानुयायिनस तत्र चराः । काकरवर्गो मध्यमवर्ग: । किंवृत्ता वनान्तस्थानवासिनः। उत्तममध्यमाधमास् त्रय इति।
अथ पिङ्गलकः सामात्यः समुज्जनश छत्चचामरव्यजनवाहनविलासविस्तारविरहितम् अकृत्रिमसाहसरसैकान्तदर्पोद्धतम् अभप्रमाममदोत्सेकम असहमानतया स्वयंग्राह
हितैश्वर्यम् अनभिज्ञम् इतरजनसेवितानां कृपणवचसाम अमर्षरोषसंरम्भगर्वप्र-27 स्थानम् अकातरत्वपुरुषार्थम् अनुक्षिप्ताञ्जलिपुटम् अदीनम् अभोतम अकृतचाटुकर्मोपायं व्यवसायपौरुषाभिमानावष्टम्भभासुरम् अनन्यसेवि निःसङ्गम् अनात्मंभरि परोपकारसुखव्यक्त* पुरुषकारफलम् अपरिभूतम् अकृशम् अतुच्छम अपगतदुर्गप्रतिसंस्कारचित्तम अग- 30 णितायव्ययम् अविलोमम् अनायत्तम् उद्धतोपार्जितप्रतापविषमम् अपाङ्गण्यसंप्रधारणम् अप्रहरणाभरणम् असाधारणविभवनासम् अपरोक्षवृत्तम् अनाशङ्कनीयम् अनपेक्षितकलचपाणिग्राहासाराक्रन्दम् अनिन्द्यम अघटिताशिक्षितास्त्र प्रयोगम् अनिच्छावि.33
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org