________________
अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम् । यस्यायम् आद्यः स्लोकः । वर्धमानो महान् स्नेहः । सिंहगोवृषयोर् वने । जम्बुकेनातिलुब्धेन । पिशुनेन विनाशितः ॥ १ ॥
तद् यथा श्रूयते । दाक्षिणात्येषु जनपदेषु पुरंदरपुरस्पर्धि सर्वगुणसंपन्नं पृथिव्याश चूडामणिरत्नभूतं कैलासशिखराकृति विविधंयन्त्र प्रहरणाचरणपरिपूर्ण गोपुरराट्टालकं विसंकटोंस्कटदृढप॑रिर्घकपाटतोरणार्ग लौपगर्तेन्द्र कीलविपुल॑द्वारं सुविहित॑शृङ्गाटकचतुष्पथ॑प्रतिष्ठि- 6 तनिकदेवतायतनं परिख* परिकरितच्छ्रितहिमगिरिसदृशकारप्रकार॑वलय॑परिवेष्ठितं महिलारोप्यं नाम नगरम् । तत्रानेकगुणसमूहो जन्मान्तरधर्मोपार्जनावाप्तधनसमूहो वर्धमाननामा सार्थवाहः प्रतिवसति स्म । अथ कदाचिच् चिन्तयतो ऽर्धरात्रवेलायाम् 9 वृशं तस्य चित्तम् अभूत । यथा। प्रभूतो ऽपि संचितो ऽर्थः प्रवेच्यमानो ऽञ्जनम् इव क्षीयते । स्वल्पो ऽपि संचीयमानो वल्मीकवद् वर्धते । अतः प्रभूतेनापि द्रव्येण तस्यैव वृद्धिः करणीया । अलब्धा अर्धा लभ्याः । लब्धाः परिरक्षणीयाः । रचिता विवर्धिनीयाः 12 पात्रे संपादनीयाश् च । इति । लोकमार्गेणापि रच्यमाणो ऽर्थो बहूपद्रवतया सद्यो विनश्येत् । अप्रयुज्यमानः प्रयोजनोत्पत्तौ तुल्यो ऽप्राप्तस्य । इति । ततः प्राप्तस्य सतो रक्षणविवर्धनोपयोगादि कार्यम् । उक्तं च ।
उपार्जितानाम् अर्थानां । त्याग एव हि रक्षणम् । तडागोदरसंस्थानां । परीवाह वाम्भसाम् ॥ २ ॥ अर्थेर् अर्था निबध्यन्ते । गजैर् इव महागजाः । न ह्य् अनर्थवता शक्यं । वाणिज्यं कर्तुम् हया ॥ ३ ॥ दैववशाद् उपपन्ने । सति विभवे यस्य नास्ति भोगेच्छा । न च परलोकसमीहा । स भवति धनपालको मूर्खः ॥ ४ ॥
är 21
एवं संप्रधार्य मथुरागामीनि सारभाण्डानि समाहृत्य सपरिजनः शुभे नक्षत्रे शुभायां तिथी गुरुजनानुज्ञातः स्वजनेर् अनुव्रज्यमानः शङ्खतूर्यनिर्घोषेणाग्रतः क्रियमाणेन नगरान् निःसृतः । उदकान्तात् सुहृज्जनं निवर्ता अभिप्रस्थितः ।
Jain Education International
3
For Private & Personal Use Only
15
18
तस्य च द्वौ मङ्गलवृषभो धूर्वोढारी नन्दकसंजीवकनामानौ पाण्डुराभ्रसंनिकाशी सुवर्णकिङ्किणीपरिवृतोरस्की तिष्ठतः । अथ धवखदिरपलाशशालैर् मनोहराम् अन्यैश् वेष्टदर्शनैः शाखिभिर् निरन्तरोपचिताम् अनेकगजमवयमहिषरुरुचमरीवराहशार्दूल- 27
24
www.jainelibrary.org