________________
INTRODUCTION.
-
2
स नूनं द्राक् प्रबुद्धान् करिष्यति । सो ऽपि राजा तद् आकर्ण्य विष्णुशर्माणम् आर्य प्रोवाच । भो भगवन् । मदनुग्रहार्थम् एतान् कुमारान अर्थशास्त्र प्रति यथानन्यसदृशान् विदधासि । तथा कार्यम् । अहं त्वां शासनशतेन नियोजयिष्यामि । अथ विष्णुशर्मोत्तरं 8 राजानम् ऊचे। देव । श्रूयतां मे तथ्यवचनम् । माहं विद्याविक्रयं करोमि शासनशतेन । एतान् पुनर मासषट्रेन यदि नीतिशास्त्रज्ञान न करोमि । ततः स्वनामपरित्यागं करोमि। किं बहुना। श्रूयतां ममेष सिंहनादः । नाहम् अर्थलिप्सुर ब्रवीमि । न च मे शीतिवर्षस्य : व्यावृत्तसर्वेन्द्रियार्थस्य किंचिद् अर्थेन प्रयोजनम् । किं तु त्वत्प्रार्थनासिद्ध्यर्थं सरस्वतीविनोदं करिष्यामि । तल लिख्यताम् अद्यतनो दिवसः। यद्य अहं षण्मासाभ्यन्तरे तव पुत्रान् नीतिशास्त्र प्रत्य अनन्यसदृशान न करोमि । ततोऽर्हति मे देवो देवमार्ग संदर्श-५ यितुम् । इति । ___एतां ब्राह्मणस्यासंभाव्यां प्रतिज्ञां श्रुत्वा ससचिवो राजा विस्मयान्वितस् तस्मै कुमारान् समर्प्य परां निर्वृतिं जगाम । विष्णुशापि तान् आदाय स्वगृहं गत्वा तदर्थ 12 मित्रभेदः । मित्रसंप्राप्तिः । काकोलूकीयम् । लब्धप्रणाशम् । अपरीक्षितकारिता । इति पञ्च तन्त्राणि रचयित्वा पाठितास ते राजपुत्राः । ते ऽपि तान्य अधीत्य मासषट्रेन यथोक्ताः संजाताः। ततः प्रभृत्य एतत् पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थ 15 भूतले प्रवृत्तम् । किंबहुना।
यो वेतत् पठति प्रायो । नीतिशास्त्रं शृणोति वा। न पराभवम् आप्नोति । स शकाद् अपि कर्हिचित् ॥ ५॥
॥ कथामुखम् एतत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org