SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Tale i: Ape and wedge. Frame-story.. e घाति परिजननिरपेक्षलब्धग्रासनिवाससौहित्यं वनान्तरे निःशवं निःसाध्वसम् उच्चैःशिरो राजत्वम् अनुबमूव । उक्तं च । एकाकिनि वनवासिन्य । अराजलक्ष्मण्य अनीतिशास्त्रज्ञे। सत्त्वोत्कटे मृगपती । राजेति गिरः परिणमन्ति ॥५॥ किं च। नाभिषेको न संस्कारः । सिंहस्य क्रियते मृगैः। विक्रमार्जितवित्तस्य । स्वयम् एव मृगेन्द्रता ॥६॥ सदामन्दमदस्यन्दिामातङ्गपिशिताशनः। असंपन्नेप्सिताहारस । तृणान्य अक्ति न केसरी॥७॥ तस्य च करटकदमनकनामानी द्वौ शृगाली भ्रष्टाधिकारी मन्त्रिपुत्राव आस्ताम् । तौ च परस्परं मन्त्रयितुम् आरब्धौ । तत्र दमनको ऽब्रवीत् । भद्र करटक । अयं तावद् अस्मत्स्वामी पिङ्गलक उदकग्रहणार्थम् इतः प्रवृत्तः । किंनिमित्तम् इह दौर्मनस्यनावस्थितः । सो ऽब्रवीत् । भद्र। किम् अनेन व्यापारेण । उक्तं च । अव्यापारेषु व्यापारं । यो नरः कर्तुम् इच्छति। स एव निधनं याति । कीले नरः॥८॥ दमनक आह । कथम् एतत् । सो ऽब्रवीत्। ॥ कथा १ ॥ अस्ति कस्मिंश्चित् प्रदेशे नगरम् । तस्यासन्नत खण्डमध्ये केनापि वणिजा देवतायतनं कार्यते स्म । तत्र ये कर्मकराः 18 स्थपत्यादयः । ते मध्याहूवेलायाम् आहारार्थ प्रतिदिनं नगरं प्रविशन्ति । अथैकस्मिन दिने वानरयूथं तद् अर्धकृत देवतायतनम आयातम् । अथैकस्य शिल्पिनो ऽर्धस्फाटितो महाप्रमाणो 4 ऽञ्जनस्तम्भः शिरसि निखातखादिरकीलको ऽवतिष्ठते । वानराश् च स्वेच्छया तरुशिखरमासादशृङ्गदारुनिचयेषु यथेष्टं क्रीडितुम आरब्धाः । तत्रैकश् चासन्नविनाशश् चापलाद् उपविश्य स्तम्भे । 24 केनायम अस्थाने कीलको निखातः । इति पाणिभ्यां संगृह्योत्पाटयितुम् आरब्धः । अर्धस्फाटितान्तरप्रविष्टवृषणस्थानाच् चलितकीलके यद् वृत्तम् । तद् भवतानाख्यातम् अपि विदितम् । इति ॥ 27 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy