SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ अतो ऽहं ब्रवीमि । अव्यापारः प्राज्ञैः परिहर्तव्यः । इति । पुनश् चाब्रवीत् । आवयोस् तावद् भक्षितशेषाहारमात्रवर्तनम् अस्त्य एव । दमनक आह । कथम् आहारमाचार्थी केवलं भवान् प्रधानसेवां कुरुते । न विशेषार्थितया । साधु चेदम् उच्यते । सुहृदाम् उपकारकारणाद् द्विषतां चाप्य अपकारकारणात् । नृपसंश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥ ९ ॥ अपि च । अथवा । Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. Jain Education International यस्मिन् जीवति जीवन्ति । बहवः स तु जीवति । वयांसि किं न कुर्वन्ति । चश्वा स्वोदरपूरणम् ॥ १० ॥ यो नात्मने न गुरवे न च बन्धुवर्गे दीने दयां न कुरुते न च भृत्यवर्गे । किं तस्य जीवितफलं हि मनुष्यलोके काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ ११ ॥ स्वल्पस्नायुवसावशेषमलिनं निर्मोसम् अप्य् अस्थिकं वा लब्धा परितोषम् एति न च तत् तस्य क्षुधाशान्तये । सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्का निहन्ति द्विपं सर्वः कृच्छ्रगतो ऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ १२ ॥ लाङ्गूलचालनम् अधश् चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुंगवस् तु धीरं विलोकयति चाटुशतैश च भुङ्क्ते ॥ १३ ॥ सुपूरा वै कुनदिका सुपूरो मूषकाञ्जलिः । सुसंतोषः कापुरुषः । स्वल्पकेनापि तुष्यति ॥ १४ ॥ अहितहितविचारशून्यबुद्धेः श्रुतिसमयेर् बहुभिर् बहिष्कृतस्य । उदरभरणमात्रम् एव लिप्सोः पुरुषपशोश् च पशोश् च को विशेषः ॥ १५ ॥ गुरुशकटधुरंधरस् तृणाशी समविषमेषु च लाङ्गलापकर्षी । जगदुपकरणं पवित्रयोनिर् नरपशुना * किम् उ मीयते गवेन्द्रः ॥ १६ ॥ viyo For Private & Personal Use Only vasa sārdu 6 8 6 9 12 15 18 Vasa 21 24 puspi] 27 puspi करटक आह । आवां तावद् अप्रधानौ । किम् अनेन व्यापारेण । सो ऽब्रवीत् । भद्र । * कियतापि कालेन प्रधानो ऽप्रधानो ऽपि भवपि । उक्तं च । $3 80 www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy