SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull. अप्रधानः प्रधानः स्यात् । पार्थिवं यदि सेवते । प्रधानो प्य अप्रधानः स्याद् । यदि सेवाविवर्जितः ॥१७॥ न कस्यचित् कश्चिद् दह प्रभावाद् भवत्य उदारो अभिमतः खलो वा। लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्य एव भरं मयन्ति ॥१८॥ upa 6 तथा च। आरोप्यते रमा शैलायं। यथा यत्नेन भूयसा। पात्यते सुखम् एवाधस् । तथात्मा गुणदोषयोः ॥१९॥ करटक आह । अथ भवान किं वक्तुमनाः । सो ऽब्रवीत् । अयं तावद् अस्मत्स्वामी भीतो" भीतपरिवारश च मूढमनाः संतिष्ठते । सो ऽब्रवीत् । कथं भवाञ् जानाति । दमनक आह । किम् अत्र ज्ञातव्यम्। उदीरितोऽर्थः पशुनापि गृह्यते हयाश् च नागाश च वहन्ति नोदिताः। अनुक्तम् अप्य् ऊहति पण्डितो जनः परेगितज्ञानफला हि बुद्धयः ॥२०॥ 'vamsa 15 तथा च। आकारर् *इङ्गितर् गत्या । चेष्टया भाषणेन च । मेचवक्तविकारेण । गृह्यते ऽन्तर्गतं मनः ॥२१॥ तद् एनम् अवात्मप्रज्ञाप्रभावेण वशीकरिष्यामि । करटक आह । अनभिज्ञो भवान 18 किल सेवाधर्मस्य । तत् कथय । कथम् आत्मीकरिष्यसि । सो ऽब्रवीत् । भद्र। कथम् अहं न सेवाभिज्ञः । ननु पाण्डवानां मयैव विराटनगरप्रवेश व्यासमहर्षेः कथयतः सकलो ऽप्य अनुजीविधर्मो विज्ञातः । इति । उक्तं च। को ऽतिभारः समर्थानां । किं दूरं व्यवसायिनाम् । को विदेशः सुविद्यानां । कः परः प्रियवादिनाम् ॥ २२॥ करटक आह । कदाचिद् अयम् अनुचितस्थानप्रवेशाद भवन्तम अवमन्येत । सो ऽब्रवीत। 24 अस्त्व एवम् । परम अहं देशकालविद् अपि । उक्तं च । अप्राप्तकालं वचनं । बृहस्पतिर् अपि ब्रुवन् । न केवलम् असंमानं । विप्रियवं च गच्छति ॥२३॥ तथा च। अभ्यक्तं रहसि गतं । विचित्तम् अन्येन मन्त्रयन्तं वा। उचितप्रणयम् अपि नृपं । सहस्रार्या नोपसर्पन्ति ॥२४॥ अपि च । द्वंद्वालापसभेषजाभोजननारीसनाथसमयेषु । अनिवारितोऽपि न विशेन । नापितसमये च नागरिकः ॥२५॥ नित्यं नरेन्द्रभवने परिशङ्कनीयं विद्यार्थिना गुरुगृहे निभृतेन भाव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy