Book Title: Nyayadarshanasya Nyayabhashyam Author(s): Vatsyayan Publisher: Manilal Iccharam Desai View full book textPage 8
________________ टीकाकारसमयसमीक्षा / "येन शास्त्रं च शस्त्रं च नन्दराजगता चमूः। अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदं कृतम् // " इति तदनेन पद्येन कौटलीयार्थशास्त्रस्य चाणक्यनिर्मितत्वं सिद्धं तेनोक्तहेतुभिः कामसूत्रन्यायभाष्ययो. रपि चाणक्यनिर्मितत्वं प्राप्नोतीति मे मतिर्भवति / चाणक्यस्य समयस्तु " यावत् परीक्षितो जन्म यावन्नन्दाभिषेचनम् एतद्वर्षसहस्रं तु शेयं पञ्चदशोत्तरम् // " "महापद्मस्तत्पुत्राश्चैकं वर्षशतमवनिपतयो भविष्यन्ति नवैव तान् नन्दान् कौटिल्यो ब्राह्मणः समुद्धरिष्यति, कौटिल्य एव चन्द्रगुप्तं राज्येऽभिषेक्ष्यति, तस्यापि पुत्रो विन्दुसरो भविष्यति" इत्यादिविष्णुपुराणचतुर्थाशवाक्यैस्तु इतःपूर्वमेकोनचत्वारिंशच्छतं वर्षा इति सिध्यति- यतोद्यत्वे कलियुगस्य एकविंशत्युत्तरपञ्चसहस्रं वर्षा व्यतीताः परीक्षितो जन्म च कलिकालारम्भात् किंचित् पूर्वमेवेत्येकं वर्षसहस्रं तु कलेनन्दराज्याभिषेके गतः एक वर्षशतं च नन्दानां राज्यभोगसमय इति कलियुगारम्भादनन्तरमेकादशवर्षशतानन्तरं नन्दराज्यविनाशकालः स एव च चाणक्यस्य स्थितिकाल इतिसिद्धम् / ___ "ततोपि द्विसहस्रेषु दशाधिकशतत्रये / ___ भविष्यं नन्दराज्यं च चाणक्यो यान् हनिष्यति // " इत्यनेन स्कन्दपुराणवाक्येन तु सप्तविंशतिशतं वर्षा इतः पूर्व चाणक्यकाल इत्यवर्धायते- यतः कलेर्व्यतीतेभ्यः एकविंशत्युत्तरपञ्चसहस्रवर्षेभ्यः त्रयोविंशतिशतवर्षाणां पृथक्करणेन सप्तविंशतिशतं वर्षा उक्तस्कन्दपुराणवाक्येन स्थूलमानत उपलभ्यन्ते, अयमेव च समयो युक्ततरः- आधु. निकनिर्णीतसमयेन विशेषभेदाभावेन संवादात् / न्यायभाष्यकर्ता न चाणक्य इत्यत्र च प्रमाणाभावादित्यलम् / __यत्तु केपि एकस्मिन्नपि न्यायभाष्येऽध्यायलेखशैलिभेदेन कर्तृभेदमनुमिन्वन्ति तत्तु न प्रामाणिकं प्रतिपद्यते- यतो विषयभेदेनापि लेखशैलिभेदः संभवतीति प्रथमाध्यायस्य पदार्थलक्षणं विषयः स च सरल एव द्वितीयाद्यध्यायानां च पदार्थविवेचनं विषयः स च न तादृशः सरलः संभवतीति. लेखशैलिभेद एककर्तृकत्वेपि नानुपपन्नः। किं च प्रथमाध्यायभाष्येपि- "सत्युपलभ्यमाने तद्वदनुपलब्धेः प्रदीपवत्" इत्यादीनि बहूनि वाक्यानि क्लिष्टतराण्युपलभ्यन्ते इति नात्र कर्तृभेदः प्रामाणिकः॥ ____ अस्य न्यायभाष्यस्य विद्वद्वरेणोद्योतकरेण वार्तिकं विरचितम्, उद्योतकरश्चायं नृपतिवरविक्रमसमकालिको वा किंचित्पूर्वापरकालिको वेत्यनुमिनोमि तथा हि-सुबन्धुना वासवदत्तायां वासवदत्तावर्णने "न्यायस्थितिमिवोद्योतकरस्वरूपाम्” इत्युक्तं न्यायस्थितेश्वोद्योतकरस्वरूपत्व. मुद्योतकरसत्ताकाले एव संभवतीति वर्तमानस्योपमानत्वपक्षे सुबन्धुसमये उद्योतकरसत्त्वमुपलभ्यते किं वा सुबन्धतः पूर्वभावित्वमुद्योतकरस्य प्राप्तमित्यत्र तुन कस्यचिद्विप्रतिपत्तिरुपपद्यते / वासवदत्तारम्भे च __ “सा रसवत्ता विहता नवका विलसन्ति चरति नो कं कः। ___ सरसीव कीर्तिशेष गतवति भुवि विक्रमादित्ये // " इति विक्रमविषयको सुबन्धुकर्तृको विलापो वर्तते तत्र सेतितच्छब्दस्यानुभूतार्थपरत्वे तु सुबन्धोविक्रमद्रष्टत्वं प्राप्नोतीति विक्रमसमय एव सुबन्धुसमयो विक्रमानन्तरं च वासवदत्तां निर्माय सुबन्धुर्मत इति सिध्यति, सेतितच्छब्दस्यात्रानुभूतार्थपरत्वाभावेपि विक्रमादल्पकालानन्तरमेष सुबन्धुसत्ता संभवति- अत्यधिककालानन्तरं विक्रममुद्दिश्यैतादृशविलापस्यासंभवात् / दिङ्नागनामधेयेन केनापि जैनाचार्येण स्वनिर्मितेन प्रमाणसमुच्चयनाम्ना ग्रन्थेन न्यायभाष्यदूषणानि प्रतिपादितानि तानि च दृषणान्युद्योतकरेण स्वविरचिते न्यायवार्तिके प्रत्याख्यातानीति श्रूयते तदनेनोद्योतकरस्य दिङ्नागानन्तरभावित्वं स्पष्टमेव, दिङ्नागचायं पञ्चविंPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 500