Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai
View full book text
________________ दार्शनिकसमीक्षा। सेश्वरवादपरत्वं प्रतिपद्यते / तस्मादुक्तं पद्मपुराणपद्यमाधुनिकनिर्मितमेव. यत्र हि श्रुतिवाक्यान्यपि कानिचिदाधुनिकनिर्मितानि प्रवर्तन्ते तत्र का कथा स्मृतिपुराणादिवाक्यानामाधुनिकनिर्मितत्वे एतादृशेन सत्येनैवायं देशो नष्ट इत्यत्र न कस्यचिद्विप्रतिपत्तिरुपपद्यते / यैर्यैर्यानि यानि यादृशानि च स्वस्वमतपोषकाणि वाक्यान्यपेक्षितानि तैस्तैस्तानि तानि तादृशानि च विरचय्य श्रुतिस्मृत्यादिग्रन्थेषु प्रक्षिप्तानीति नात्र संशयः, किं बहुना कैश्चित्तु स्वदेशभाषामहत्त्वप्रतिपादकान्यपि वाक्यानि विरचय्य स्मृत्यादिषु प्रक्षिप्तानि तानि च तद्वंश्यैरद्यत्वे प्रमाणत्वेन प्रदर्श्यन्ते / दर्शनानि चैतानि परस्परं विरुद्धानि प्रायः पदार्थस्वरूपप्रस्तारेण प्रवृत्तानि दृश्यन्ते तथा हिपरिमाणं हि त्रिविधमेव संभवति सूक्ष्मं महत् मध्यमं च तत्र जीवात्मनः कैश्चित् सूक्ष्मं कैश्चित् महत् कैश्चित् मध्यमं परिमाणं स्वीकृतं तदेतत् स्वस्वमतानुसारेण जीवपरिमाणवर्णनं प्रस्तारकृतमेव. न च परिमाणस्य चतुर्थः प्रकारोस्ति यदि स्यात्तदा सोपि केनचित्स्वीकृतः स्यात्, एवं जीवस्य केन चिदनित्यत्वं केनचिन्नित्यत्वं केनचित्प्रवाहनित्यत्वं स्वीकृतं न चान्यात्र विधा वर्तते. एवं जीवस्य ज्ञानस्वरूपत्वं ज्ञानधर्मवत्त्वं ज्ञानस्वरूपत्वेसति शानधर्मवत्त्वं पाषाणकल्पत्वं च तैस्तैः स्वीकृतं न चात्रान्या विधा वर्तते / प्रपञ्चस्यापि कैश्चित् सत्त्वं कैश्चिदसत्त्वं कैश्चित् सदसद्विलक्षणत्वं कैश्चित्प्रवाहनित्यत्वं कैश्चित् संदिग्धत्वमपि स्वीकृतं न चान्यात्र विधा वर्तते, घटपटादीनां विनाशप्रत्यक्षान्नित्यत्वं वक्तुं न शक्यते अन्यथा नित्यत्वमपि केनचित् प्रतिपादितमभविष्यत्. एवमेव सर्वेष्वपि प्रमाणेषु प्रमेयेषु च प्रस्तारेणैव प्रवृत्तानि दर्शनानीत्यवधार्यते / पदार्थस्वरूपं चैकविधमेव संभवति न त परस्परविरुद्धमनेकविधमपीति परस्परविरोधेनाऽप्रामाण्ये प्राप्ते चालनीन्यायेन सर्वेषामप्यऽप्रामाण्यमापद्यते ततश्च “वृद्धिमिच्छतो मूलमपि नष्टम्" इत्युपलब्धम् / 'नास्तिकं मां तु मंस्यन्ते स्वयं नास्तिकचेतसः' / एतैश्च दर्शनैरुत्तरोत्तरमनर्थानां वृद्धिरेव कृता न निवृत्तिरिति तत्त्ववित्सु स्पष्टमेव, श्रद्धाजडानामल्पाशानां चात्र विचारेऽधिकार एव नास्ति / ___ दर्शनाचार्याश्चैते प्रायः रागद्वेषक्रोधादिभिः साधारणपुरुषदोषैरपि रहिता नोपलभ्यन्ते, अत एवैते स्वगुरुत्वमहत्त्वयोः स्थापनार्थमेव स्वस्वमतप्रतिपादनार्थ प्रवृत्ता न तु जगदुपकारार्थ न च परमतखण्डनादिकं शान्तपुरुषकार्य संभवति शान्तानां तत्र प्रवृत्तेरनुपलम्भात्. तथा च योगसूत्रम्- " मैंत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् " इति / बहुत्र चैभिः श्रुत्यर्था अपि तादृशा असंगताः प्रतिपाद्यन्ते यादृशान् विद्वान् स्वीकर्तु न शक्नोति, एषां परस्परविरोधेन धर्मस्य वास्तवं तत्त्वं विध्वंसितं ज्ञानं च भगवत्प्रेम चान्तःकरणानिष्कासितम्. न चैषु परमतखण्डनं स्वमहत्त्वस्थापनं च विना किमप्यन्यत् तत्त्वमुपलभ्यते / एषां शिष्यैश्चैतेषामेतादृशं मिथ्यातिमहत्त्वमुपपाद्यते येन वास्तवमप्येषां महत्त्वं संशयविषयतामामोति / परमात्मा च परमेश्वरोपि सन्नेषां भृत्यतुल्य एव / आकुलीकृतश्चैभिर्वेदः / एतेषामेतादृशकृपयैव सर्वजनापेक्षितं लौकिकं देशमहत्त्वमत्यन्ताभावप्रतियोगितां प्राप्तम् / अपि च ब्रह्मवादिभिर्ब्रह्मणो वैष्णवैश्च विष्णोः शैवैश्च शिवस्य शाक्तैश्च शक्तेः परमा दुर्गतिः क्रियते इति तत्र तत्र स्पष्टमेव / भगवत्प्रतिमास्तु तदधिष्ठातॄणां क्रीडनकभूता एव / __ अद्यत्वेप्येषैव गतिरुपलभ्यते-मिथ्याभाषणतो न बिभ्यति पुरुषमात्रं मूर्ख मन्यमाना यथेच्छमाचरन्ति, स्वस्वसंप्रदायाऽस्वीकृतानपि पदार्थान् प्रतिपादयन्ति यथा दीक्षामात्रेण मोक्षपदप्राप्ति कार्षापणप्रदानमात्रेण च परमेश्वरकृपामुपपादयन्ति / एषामाचार्याणां गृहे ये जायन्ते ते सर्वेपि अवतारभूता एव जायन्ते ये च नियन्ते ते कामैकपरायणा अपि सर्वेऽपवर्गपदमेव प्राप्नुवन्ति, शानभक्त्यपवर्गाश्चैतेषां सद्मनि बदरीफलेभ्योपि सुलभा उपलभ्यन्ते “जगद्व्यापारवर्जम्" इति सूत्रस्यापि गतिर्नास्ति / सर्व च पृथिवीवित्तमेतेषामेवोपभोगार्थ मन्ये परमात्मना विनिर्मितम् / एतेषामुपानदर्थमपि रत्नान्यवश्यमपेक्ष्यन्ते परेषामुदरपूर्त्यथमप्यन्नस्याप्यत्यावश्यकता नास्ति, यञ्च पृथिव्यां ग्राह्यमस्ति तत्सर्वमेभ्यः समर्पणीयमेषेवेषां दृष्टिरिति कृतं विस्तरेण / एषैव च गतिः
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 500