Book Title: Nyayadarshanasya Nyayabhashyam
Author(s): Vatsyayan
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 9
________________ गौतमसमयसमीक्षा। शतिशतवर्षेभ्यः किंचिदर्वाचीन एवेति सुबन्धुदिङ्नागयोरन्तरालवय॑यमुद्योतकर इतिस्थूलमानमेवोपलभ्यते- विक्रमपूर्वभाविनां सूक्ष्ममानस्यानुपलम्भादित्यलम् / ___ अस्य च न्यायवार्तिकस्य विद्वद्वरेण वाचस्पतिमिश्रेण मैथिलेन न्यायवार्तिकतात्पर्यटीकासमाख्या व्याख्या विरचिता वाचस्पतिमिश्रश्चायं वैक्रमे वस्वङ्कवसु (898) वत्सरे जीवन्नासीदिति तेन स्वयमेवोक्तम्-- “न्यायसूचीनिबन्धोऽसावऽकारि सुधियां मुदे। श्रीवाचस्पतिमिश्रेण वस्वङ्कवसु (898) वत्सरे // " इति तस्मादित एकादशशतवर्षेभ्यः पूर्वो वाचस्पतिमिश्रसमय इतिसिद्धम् // अस्याश्च न्यायवार्तिकतात्पर्यटीकाया टीका तात्पर्यपरिशुद्धिसमाख्या उदयनाचार्येण विरचिता उदयनाचार्यश्चायं वैक्रमे ब्रह्मवेदखब्रह्म (1041) वत्सरे तर्काम्बराङ्क (906) शकाब्दे जीवनासीदिति तेन स्वयमेवोक्तम् - "तर्काम्बराङ्क (906) प्रमीतेष्वतीतेषु शकान्ततः। वर्षेष्दयनश्चक्रे सुबोधां लक्षणावलीम् // " इति तदनेनेतो नवशतवर्षेभ्यः पूर्व उदयनाचार्यसमय इतिसिद्धम् // तात्पर्यपरिशुद्धरपि टीका विद्वद्वर वर्धमानोपाध्यायेन विरचिता। एतेषां सर्वेषां न्यायशास्त्रसन्दर्भाणां मूलं श्रीगौतमप्रणीतं न्यायसूत्रमेव गौतमसमयश्च सामान्यरूपेणापि नावधारयितुं शक्यते अथाप्ययमितस्त्रिसहस्रवर्षेभ्यो नातिपूर्वकालभावीत्यनुमिनोमि. तथा हि- न्यायसूत्रद्वितीयाध्यायान्ते- "आकृतिस्तदपेक्षत्वात् सत्त्वव्ययस्थानसिद्धेः२-२-६४" इतिसूत्रेण जैमिनिमतानुषादादयं गौतमो जैमिन्यनन्तरभावीति स्पष्टमेव, “न तदनवस्थानात् 2-2-62" इतिसूत्रेण बौद्धमतस्य व्यक्तिशक्तिवादस्य प्रत्याख्यानात् कलिकालान्त विनो बौद्धादप्ययमनन्तरभावीत्यपि स्पष्टमेव, उक्ताद् भाष्यकाराचाणक्यात् पूर्वभावीत्यपि च स्पष्टमेव अथापि नातिदीधेकालपूर्वभावी- यतो बहूनां सूत्राणां भाष्यकारेणोक्ता अर्था सांकेतिका एव प्रतीयन्ते सांकेतिकार्थज्ञानं च सांकेतिकार्थज्ञानपरम्परां विना नोपपद्यते सांकेतिकार्थज्ञानपरम्परा च नातिदीर्घकालपर्यन्तं स्थातुमर्हति अत एवोत्तरोत्तरं टीकाग्रन्था विरच्यन्ते येन सांकेतिकार्थविलोपो न स्यात्. सांकेतिकार्थपरम्पराया अनन्तत्वसंभवे तादृशटीका निर्माणं व्यर्थमेव स्यात् तस्मात् सांकेतिकार्थवर्णनात् सूत्रकारभाष्यकारयोर्नातिदीर्घकालव्यवधानं संभवतीति मन्ये भाष्यकारात् सूत्रकारोयं द्वित्रिशतवर्षमात्रपूर्वभावी सन् इतस्त्रिसहस्रवर्षपूर्वकालं नाऽत्येतुं शक्नोति / गौतमोयमऽहल्यापतिरित्यत्रापि प्रमाणं नोपलभ्यते।यत्तु कैश्चिदेषां सूत्रकारभाष्यकारादीनामतिप्राचीनत्वमुपवर्णितं तत्तु न प्रामाणिकमवधार्यते इति सर्वेषां स्पष्टमेव / ये तु स्मृतिपुराणादिषु न्यायतर्कान्धीक्षिक्यादिशब्दास्ते तुन्यायदर्शनस्य गौतमादपि प्राचीनत्वेनोपपद्यन्ते तस्यैव न्यायदर्शनस्य सूत्राण्यनेन गौतमेन विरचितानि मौखिकोपदेशपरम्परया प्राप्तस्यैवार्थजातस्य वाक्यनिबन्धदर्शनात् / यत्तु "कणादेन तु संप्रोक्तं शास्त्रं वैशेषिकं महत् / / गोतमेन तथा न्यायं सांख्यं तु कपिलेन वै॥" इति पद्मपुराणपधं प्रदर्श्यते तत्त्वाधुनिकनिर्मितत्वान्न प्रमाणं यतस्तदग्रिमपद्ये "द्विजन्मना जैमिनिना पूर्व वेदमयार्थतः / निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् // " इत्येवं जैमिनिसूत्राणां निरीश्वरवादपरत्वं प्रतिपाद्यते लभ्यमानेषु च जैमिनिसूत्रेषु निरीश्वरवादस्य नामापि नोपलभ्यते तस्मादप्रमाणमिदं पद्यं, पूर्वमीमांसाशास्त्रे परमेश्वरखण्डनं सर्वतः प्रथमं कुमारिलभट्टकृतं श्लोकवार्तिके एवोपलभ्यते जैमिनेस्तु वेदान्तसूत्रेषु तत्र तत्र संमतिदर्शनेन निरीश्वरवादपरत्वमेव न संभवति “परं जैमिनिर्मुख्यत्वात् 4-3-11' इति वेदान्तसूत्रेण तु स्पष्टमेव जैमिनेः

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 500